Vishvanathanagari Stotram In Marathi

॥ Vishvanathanagari Stotram in Marathi ॥

॥ विश्वनाथनगरीस्तोत्रम ॥
यत्र देवपतिनापि देहिनां मुक्तिरेव भवतीतिनिश्चितम ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ 1 ॥

स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्डिभैरवविदारितविध्ना विश्वनाथनगरी गरीयसी ॥ 2 ॥

यत्र तीर्थममलं मणिकर्णिका सा सदाशिव सुखप्रदायिनी ।
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ 3 ॥

सर्वदा ह्यमरवृन्दवन्दिता या गजेन्द्रमुखवारितविघ्ना ।
कालभैरवकॄतैकशासना विश्वनाथनगरी गरीयसी ॥ 4 ॥

यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतःशुभा ॥
साखिलामरगण्स्पृहणीया विश्वनाथनगरी गरीयसी ॥ 5 ॥

उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा ।
सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ 6 ॥

इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं संपूर्णम ॥

इति बॄहत्स्तोत्ररत्नाकरस्य प्रथमो भागः ।

– Chant Stotra in Other Languages –

Vishvanathanagari Stotram in। English – Marathi – BengaliGujaratiKannadaTeluguMalayalam

See Also  Srimadrushyashrungeshvara Stuti In Marathi