1000 Names Of Sri Subrahmanya Sahasranamavali Stotram In Sanskrit

॥ Subramanya Sahasranamavali Sanskrit Lyrics ॥

॥ श्रीसुब्रह्मण्यसहस्रनामावलिः मार्कण्डेयप्रोक्तम् ॥

स्वामिमलै सहस्रनामावलिः

ॐ श्री गणेशाय नमः ।
अस्य श्री सुब्रह्मण्य सहस्रनामस्तोत्रमहामन्त्रस्य,
मार्कण्डेय ऋषिः । अनुष्टुप्छन्दः ।
श्री सुब्रह्मण्यो देवता । शरजन्माऽक्षय इति बीजं,
शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् ।
क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम्,
षण्मुख इति ध्यानम् ।
श्री सुब्रह्मण्य प्रसाद सिद्ध्यर्थे नाम पारायणे विनियोगः ।

करन्यासः
ॐ शं ओङ्कारस्वरूपाय
ओजोधराय ओजस्विने सुहृद्याय
हृष्टचित्तात्मने भास्वद्रूपाय
अङ्गुष्ठाभ्यां नमः । var भास्वरूपाय
ॐ रं षट्कोण मध्यनिलयाय षट्किरीटधराय
श्रीमते षडाधाराय षडाननाय
ललाटषण्णेत्राय अभयवरदहस्ताय
तर्जनीभ्यां नमः ।

ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय
शिखिवाहनाय षडक्षराय स्वामिनाथाय
मध्यमाभ्यां नमः ।

ॐ णं कृशानुसम्भवाय कवचिने
कुक्कुटध्वजाय शूरमर्दनाय कुमाराय
सुब्रह्मण्याय (सुब्रह्मण्य) अनामिकाभ्यां नमः ।

ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे
द्वादशाक्षाय मूलप्रकृतिरहिताय
कनिष्ठिकाभ्यां नमः ।

ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने
खेटधराय खड्गिने शक्तिहस्ताय
ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां
नमः ॥

एवं हृदयादिन्यासः ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युति षट्किरीटविलसत्केयूर हारान्वितम् ।
कर्णालम्बित कुण्डल प्रविलसद्गण्डस्थलैः शोभितं
काञ्ची कङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥

षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिदेधानं सदा
ध्यायामीप्सित सिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥

द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् ।
वन्दे मयूरासनमग्निसम्भवं सेनान्यमध्याहमभीष्टसिद्धये ॥

लमित्यादि पञ्चपूजा ।

अथ नामावलिः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुरेशानाय नमः ।
ॐ सुरारिकुलनाशनाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मविद्यागुरवे नमः ।
ॐ गुरवे नमः ।
ॐ ईशानगुरवे नमः ।
ॐ अव्यक्ताय नमः ।
ॐ व्यक्तरूपाय नमः ।
ॐ सनातनाय नमः ।
ॐ प्रधानपुरुषाय नमः ।
ॐ कर्त्रे नमः ।
ॐ कर्मणे नमः ।
ॐ कार्याय नमः ।
ॐ कारणाय नमः ।
ॐ अधिष्ठानाय नमः ।
ॐ विज्ञानाय नमः ।
ॐ भोक्त्रे नमः ।
ॐ भोगाय नमः ।
ॐ केवलाय नमः ।
ॐ अनादिनिधनाय नमः ।
ॐ साक्षिणे नमः ।
ॐ नियन्त्रे नमः ॥ 25 ॥

ॐ नियमाय नमः ।
ॐ यमाय नमः ।
ॐ वाक्पतये
ॐ वाक्प्रदाय नमः ।
ॐ वाग्मिणे नमः ।
ॐ वाच्याय नमः ।
ॐ वाचे नमः ।
ॐ वाचकाय नमः ।
ॐ पितामहगुरवे नमः ।
ॐ लोकगुरवे नमः ।
ॐ तत्वार्थबोधकाय नमः ।
ॐ प्रणवार्थोपदेष्ट्रे नमः ।
ॐ अजाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ सनातनाय नमः repeat
ॐ वेदान्तवेद्याय नमः ।
ॐ वेदात्मने नमः ।
ॐ वेदादये नमः ।
ॐ वेदबोधकाय नमः ।
ॐ वेदान्ताय नमः ।
ॐ वेदगुह्याय नमः ।
ॐ वेदशास्त्रार्थबोधकाय नमः ।
ॐ सर्वविद्यात्मकाय नमः ।
ॐ शान्ताय नमः ।
ॐ चतुष्षष्टिकलागुरवे नमः ॥ 50 ॥

ॐ मन्त्रार्थाय नमः ।
ॐ मन्त्रमूर्तये नमः ।
ॐ मन्त्रतन्त्रप्रवर्तकाय नमः ।
ॐ मन्त्रिणे नमः ।
ॐ मन्त्राय नमः ।
ॐ मन्त्रबीजाय नमः ।
ॐ महामन्त्रोपदेशकाय नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाशक्तये नमः ।
ॐ महाशक्तिधराय नमः ।
ॐ प्रभवे नमः ।
ॐ जगत्स्रष्ट्रे नमः ।
ॐ जगद्भर्त्रे नमः ।
ॐ जगन्मूर्तये नमः ।
ॐ जगन्मयाय नमः ।
ॐ जगदादये नमः ।
ॐ अनादये नमः ।
ॐ जगद्बीजाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ प्रशान्तात्मने नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ सुखमूर्तये नमः ।
ॐ सुखकराय नमः ।
ॐ सुखिने नमः ॥ 75 ॥

ॐ सुखकराकृतये नमः ।
ॐ ज्ञात्रे नमः ।
ॐ ज्ञेयाय नमः ।
ॐ ज्ञानरूपाय नमः ।
ॐ ज्ञप्तये नमः ।
ॐ ज्ञानफलाय नमः ।
ॐ बुधाय नमः ।
ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ ग्रसिष्णवे नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ सहिष्णुकाय नमः ।
ॐ वर्धिष्णवे नमः ।
ॐ भूष्णवे नमः ।
ॐ अजराय नमः ।
ॐ तितिक्ष्णवे नमः ।
ॐ क्षान्तये नमः ।
ॐ आर्जवाय नमः ।
ॐ ऋजवे नमः ।
ॐ सुगम्याय नमः ।
ॐ सुलभाय नमः ।
ॐ दुर्लभाय नमः ।
ॐ लाभाय नमः ।
ॐ ईप्सिताय नमः ।
ॐ विज्ञाय नमः ॥ 100 ॥

ॐ विज्ञानभोक्त्रे नमः ।
ॐ शिवज्ञानप्रदायकाय नमः ।
ॐ महदादये नमः ।
ॐ अहङ्काराय नमः ।
ॐ भूतादये नमः ।
ॐ भूतभावनाय नमः ।
ॐ भूतभव्यभविष्यते नमः ।
ॐ भूतभव्यभवत्प्रभवे नमः ।
ॐ देवसेनापतये नमः ।
ॐ नेत्रे नमः ।
ॐ कुमाराय नमः ।
ॐ देवनायकाय नमः ।
ॐ तारकारये नमः ।
ॐ महावीर्याय नमः ।
ॐ सिंहवक्त्र शिरोहराय नमः ।
ॐ अनेककोटिब्रह्माण्ड परिपूर्णासुरान्तकाय नमः ।
ॐ सुरानन्दकराय नमः ।
ॐ श्रीमते नमः ।
ॐ असुरादिभयङ्कराय नमः ।
ॐ असुरान्तः पुराक्रन्दकरभेरीनिनादनाय नमः ।
ॐ सुरवन्द्याय नमः ।
ॐ जनानन्दकरशिञ्जन्मणिध्वनये नमः ।
ॐ स्फुटाट्टहाससङ्क्षुभ्यत्तारकासुरमानसाय नमः ।
ॐ महाक्रोधाय नमः ।
ॐ महोत्साहाय नमः ॥ 125 ॥

ॐ महाबलपराक्रमाय नमः ।
ॐ महाबुद्धये नमः ।
ॐ महाबाहवे नमः ।
ॐ महामायाय नमः ।
ॐ महाधृतये नमः ।
ॐ रणभीमाय नमः ।
ॐ शत्रुहराय नमः ।
ॐ धीरोदात्तगुणोत्तराय नमः ।
ॐ महाधनुषे नमः ।
ॐ महाबाणाय नमः ।
ॐ महादेवप्रियात्मजाय नमः ।
ॐ महाखड्गाय नमः ।
ॐ महाखेटाय नमः ।
ॐ महासत्वाय नमः ।
ॐ महाद्युतये नमः ।
ॐ महर्धये नमः ।
ॐ महामायिने नमः ।
ॐ मयूरवरवाहनाय नमः ।
ॐ मयूरबर्हातपत्राय नमः ।
ॐ मयूरनटनप्रियाय नमः ।
ॐ महानुभावाय नमः ।
ॐ अमेयात्मने नमः ।
ॐ अमेयश्रिये नमः ।
ॐ महाप्रभवे नमः ।
ॐ सुगुणाय नमः ॥ 150 ॥

ॐ दुर्गुणद्वेषिणे नमः ।
ॐ निर्गुणाय नमः ।
ॐ निर्मलाय नमः ।
ॐ अमलाय नमः ।
ॐ सुबलाय नमः ।
ॐ विमलाय नमः ।
ॐ कान्ताय नमः ।
ॐ कमलासनपूजिताय नमः ।
ॐ कालाय नमः ।
ॐ कमलपत्राक्षाय नमः ।
ॐ कलिकल्मषनाशकाय नमः ।
ॐ महारणाय नमः ।
ॐ महायोद्दघ्ने नमः ।
ॐ महायुद्धप्रियाय नमः ।
ॐ अभयाय नमः ।
ॐ महारथाय नमः ।
ॐ महाभागाय नमः ।
ॐ भक्ताभीष्टफलप्रदाय नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ प्रियाय नमः ।
ॐ प्रेम्णे नमः ।
ॐ प्रेयसे नमः ।
ॐ प्रीतिधराय नमः ।
ॐ सख्ये नमः ।
ॐ गौरीकरसरोजाग्र लालनीय मुखाम्बुजाय नमः ॥ 175 ॥

ॐ कृत्तिकास्तन्यपानैकव्यग्रषड्वदनाम्बुजाय नमः ।
ॐ चन्द्रचूडाङ्गभूभाग विहारणविशारदाय नमः ।
ॐ ईशाननयनानन्दकन्दलावण्यनासिकाय नमः ।
ॐ चन्द्रचूडकराम्भोअ परिमृष्टभुजावलये नमः ।
ॐ लम्बोदरसहक्रीडा लम्पटाय नमः ।
ॐ शरसम्भवाय नमः ।
ॐ अमरानननालीक चकोरीपूर्णचन्द्रमसे नमः ।
ॐ सर्वाङ्ग सुन्दराय नमः ।
ॐ श्रीशाय नमः ।
ॐ श्रीकराय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ शिवाय नमः ।
ॐ वल्लीसखाय नमः ।
ॐ वनचराय नमः ।
ॐ वक्त्रे नमः ।
ॐ वाचस्पतये नमः ।
ॐ वराय नमः ।
ॐ चन्द्रचूडाय नमः ।
ॐ बर्हिपिञ्छशेखराय नमः ।
ॐ मकुटोज्ज्वलाय नमः ।
ॐ गुडाकेशाय नमः ।
ॐ सुवृत्तोरुशिरसे नमः ।
ॐ मन्दारशेखराय नमः ।
ॐ बिम्बाधराय नमः ।
ॐ कुन्ददन्ताय नमः ॥ 200 ॥

ॐ जपाशोणाग्रलोचनाय नमः ।
ॐ षड्दर्शनीनटीरङ्गरसनाय नमः ।
ॐ मधुरस्वनाय नमः ।
ॐ मेघगम्भीरनिर्घोषाय नमः ।
ॐ प्रियवाचे नमः ।
ॐ प्रस्फुटाक्षराय नमः ।
ॐ स्मितवक्त्राय नमः ।
ॐ उत्पलाक्षाय नमः ।
ॐ चारुगम्भीरवीक्षणाय नमः ।
ॐ कर्णान्तदीर्घनयनाय नमः ।
ॐ कर्णभूषणभूषिताय नमः ।
ॐ सुकुण्डलाय नमः ।
ॐ चारुगण्डाय नमः ।
ॐ कम्बुग्रीवाय नमः ।
ॐ महाहनवे नमः ।
ॐ पीनांसाय नमः ।
ॐ गूढजत्रवे नमः ।
ॐ पीनवृत्तभुजावलये नमः ।
ॐ रक्ताङ्गाय नमः ।
ॐ रत्नकेयूराय नमः ।
ॐ रत्नकङ्कणभूषिताय नमः ।
ॐ ज्याकिणाङ्कलसद्वामप्रकोष्ठवलयोज्ज्वलाय नमः ।
ॐ रेखाङ्कुशध्वजच्छत्रपाणिपद्माय नमः ।
ॐ महायुधाय नमः ।
ॐ सुरलोकभयध्वान्तबालारुणकरोदयाय नमः ॥ 225 ॥

See Also  1000 Names Of Virabhadra – Sahasranama Stotram In Malayalam

ॐ अङ्गुलीयकरत्नांशु द्विगुणोद्यन्नखाङ्कुराय नमः ।
ॐ पीनवक्षसे नमः ।
ॐ महाहाराय नमः ।
ॐ नवरत्नविभूषणाय नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ हेमाङ्गाय नमः ।
ॐ हिरण्यकवचाय नमः ।
ॐ हराय नमः ।
ॐ हिरण्मय शिरस्त्राणाय नमः ।
ॐ हिरण्याक्षाय नमः ।
ॐ हिरण्यदाय नमः ।
ॐ हिरण्यनाभये नमः ।
ॐ त्रिवलीललितोदरसुन्दराय नमः ।
ॐ सुवर्णसूत्रविलसद्विशङ्कटकटीतटाय नमः ।
ॐ पीताम्बरधराय नमः ।
ॐ रत्नमेखलावृत मध्यकाय नमः ।
ॐ पीवरालोमवृत्तोद्यत्सुजानवे नमः ।
ॐ गुप्तगुल्फकाय नमः ।
ॐ शङ्खचक्राब्जकुलिशध्वजरेखाङ्घ्रिपङ्कजाय नमः ।
ॐ नवरत्नोज्ज्वलत्पादकटकाय नमः ।
ॐ परमायुधाय नमः ।
ॐ सुरेन्द्रमकुटप्रोद्यन्मणि रञ्जितपादुकाय नमः ।
ॐ पूज्याङ्घ्रये नमः ।
ॐ चारुनखराय नमः ।
ॐ देवसेव्यस्वपादुकाय नमः ॥ 250 ॥

ॐ पार्वतीपाणिकमलपरिमृष्टपदाम्बुजाय नमः ।
ॐ मत्तमातङ्गगमनाय नमः ।
ॐ मान्याय नमः ।
ॐ मान्यगुणाकराय नमः ।
ॐ क्रौञ्च दारणदक्षौजसे नमः ।
ॐ क्षणाय नमः ।
ॐ क्षणविभागकृते नमः ।
ॐ सुगमाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दुर्गाय नमः ।
ॐ दुरारोहाय नमः ।
ॐ अरिदुःसहाय नमः ।
ॐ सुभगाय नमः ।
ॐ सुमुखाय नमः ।
ॐ सूर्याय नमः ।
ॐ सूर्यमण्डलमध्यगाय नमः ।
ॐ स्वकिङ्करोपसंसृष्टसृष्टिसंरक्षिताखिलाय नमः ।
ॐ जगत्स्रष्ट्रे नमः ।
ॐ जगद्भर्त्रे नमः ।
ॐ जगत्संहारकारकाय नमः ।
ॐ स्थावराय नमः ।
ॐ जङ्गमाय नमः ।
ॐ जेत्रे नमः ।
ॐ विजयाय नमः ।
ॐ विजयप्रदाय नमः ॥ 275 ॥

ॐ जयशीलाय नमः ।
ॐ जितारातये नमः ।
ॐ जितमायाय नमः ।
ॐ जितासुराय नमः ।
ॐ जितकामाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितमोहाय नमः ।
ॐ सुमोहनाय नमः ।
ॐ कामदाय नमः ।
ॐ कामभृते नमः ।
ॐ कामिने नमः ।
ॐ कामरूपाय नमः ।
ॐ कृतागमाय नमः ।
ॐ कान्ताय नमः ।
ॐ कल्याय नमः ।
ॐ कलिध्वंसिने नमः ।
ॐ कल्हारकुसुमप्रियाय नमः ।
ॐ रामाय नमः ।
ॐ रमयित्रे नमः ।
ॐ रम्याय नमः ।
ॐ रमणीजनवल्लभाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ रसमूर्तये नमः ।
ॐ रसाय नमः ।
ॐ नवरसात्मकाय नमः ॥ 300 ॥

ॐ रसात्मने नमः ।
ॐ रसिकात्मने नमः ।
ॐ रासक्रीडापराय नमः ।
ॐ रतये नमः ।
ॐ सूर्यकोटिप्रतीकाशाय नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ कलाभिज्ञाय नमः ।
ॐ कलारूपिणे नमः ।
ॐ कलापिणे नमः ।
ॐ सकलप्रभवे नमः ।
ॐ बिन्दवे नमः ।
ॐ नादाय नमः ।
ॐ कलामूर्तये नमः ।
ॐ कलातीताय नमः ।
ॐ अक्षरात्मकाय नमः ।
ॐ मात्राकाराय नमः ।
ॐ स्वराकाराय नमः ।
ॐ एकमात्राय नमः ।
ॐ द्विमात्रकाय नमः ।
ॐ त्रिमात्रकाय नमः ।
ॐ चतुर्मात्राय नमः ।
ॐ व्यक्ताय नमः ।
ॐ सन्ध्यक्षरात्मकाय नमः ।
ॐ व्यञ्जनात्मने नमः ।
ॐ वियुक्तात्मने नमः ॥ 325 ॥

ॐ संयुक्तात्मने नमः ।
ॐ स्वरात्मकाय नमः ।
ॐ विसर्जनीयाय नमः ।
ॐ अनुस्वाराय नमः ।
ॐ सर्ववर्णतनवे नमः ।
ॐ महते नमः ।
ॐ अकारात्मने नमः ।
ॐ उकारात्मने नमः ।
ॐ मकारात्मने नमः ।
ॐ त्रिवर्णकाय नमः ।
ॐ ओङ्काराय नमः ।
ॐ वषट्काराय नमः ।
ॐ स्वाहाकाराय नमः ।
ॐ स्वधाकृतये नमः ।
ॐ आहुतये नमः ।
ॐ हवनाय नमः ।
ॐ हव्याय नमः ।
ॐ होत्रे नमः ।
ॐ अध्वर्यवे नमः ।
ॐ महाहविषे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ उद्गात्रे नमः ।
ॐ सदस्याय नमः ।
ॐ बर्हिषे नमः ।
ॐ इध्माय नमः ॥ 350 ॥

ॐ समिधे नमः ।
ॐ चरवे नमः ।
ॐ कव्याय नमः ।
ॐ पशवे नमः ।
ॐ पुरोडाशाय नमः ।
ॐ आमिक्षाय नमः ।
ॐ वाजाय नमः ।
ॐ वाजिनाय नमः ।
ॐ पवनाय नमः ।
ॐ पावनाय नमः ।
ॐ पूताय नमः ।
ॐ पवमानाय नमः ।
ॐ पराकृतये नमः ।
ॐ पवित्राय नमः ।
ॐ परिधये नमः ।
ॐ पूर्णपात्राय नमः ।
ॐ उद्भूतये नमः ।
ॐ इन्धनाय नमः ।
ॐ विशोधनाय नमः ।
ॐ पशुपतये नमः ।
ॐ पशुपाशविमोचकाय नमः ।
ॐ पाकयज्ञाय नमः ।
ॐ महायज्ञाय नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञपतये नमः ॥ 375 ॥

ॐ यजुषे नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ यज्ञगम्याय नमः ।
ॐ यज्वने नमः ।
ॐ यज्ञफलप्रदाय नमः ।
ॐ यज्ञाङ्गभुवे नमः ।
ॐ यज्ञपतये नमः ।
ॐ यज्ञश्रिये नमः ।
ॐ यज्ञवाहनाय नमः ।
ॐ यज्ञराजे नमः ।
ॐ यज्ञविध्वंसिने नमः ।
ॐ यज्ञेशाय नमः ।
ॐ यज्ञरक्षकाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वात्मने नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपादे नमः ।
ॐ सहस्रवदनाय नमः ।
ॐ नित्याय नमः ।
ॐ सहस्रात्मने नमः ।
ॐ विराजे नमः ।
ॐ स्वराजे नमः ।
ॐ सहस्रशीर्षाय नमः ।
ॐ विश्वाय नमः ।
ॐ तैजसाय नमः ॥ 400 ॥

ॐ प्राज्ञाय नमः ।
ॐ आत्मवते नमः ।
ॐ अणवे नमः ।
ॐ बृहते नमः ।
ॐ कृशाय नमः ।
ॐ स्थूलाय नमः ।
ॐ दीर्घाय नमः ।
ॐ ह्रस्वाय नमः ।
ॐ वामनाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सूक्ष्मतराय नमः ।
ॐ अनन्ताय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ अमृतेशाय नमः ।
ॐ अमृताहाराय नमः ।
ॐ अमृतदात्रे नमः ।
ॐ अमृताङ्गवते नमः ।
ॐ अहोरूपाय नमः ।
ॐ स्त्रियामायै नमः ।
ॐ सन्ध्यारूपाय नमः ।
ॐ दिनात्मकाय नमः ।
ॐ अनिमेषाय नमः ।
ॐ निमेषात्मने नमः ।
ॐ कलायै नमः ॥ 425 ॥

ॐ काष्टायै नमः ।
ॐ क्षणात्मकाय नमः ।
ॐ मुहूर्ताय नमः ।
ॐ घटिकारूपाय नमः ।
ॐ यामाय नमः ।
ॐ यामात्मकाय नमः ।
ॐ पूर्वाह्णरूपाय नमः ।
ॐ मध्याह्नरूपाय नमः ।
ॐ सायाह्नरूपकाय नमः ।
ॐ अपराह्णाय नमः ।
ॐ अतिनिपुणाय नमः ।
ॐ सवनात्मने नमः ।
ॐ प्रजागराय नमः ।
ॐ वेद्याय नमः ।
ॐ वेदयित्रे नमः ।
ॐ वेदाय नमः ।
ॐ वेददृष्टाय नमः ।
ॐ विदांवराय नमः ।
ॐ विनयाय नमः ।
ॐ नयनेत्रे नमः ।
ॐ विद्वज्जनबहुप्रियाय नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विश्वभोक्त्रे नमः ।
ॐ विश्वकृते नमः ।
ॐ विश्वभेषजाय । नमः ॥ 450 ॥

ॐ विश्वम्भराय नमः ।
ॐ विश्वपतये नमः ।
ॐ विश्वराजे नमः ।
ॐ विश्वमोहनाय नमः ।
ॐ विश्वसाक्षिणे नमः ।
ॐ विश्वहन्त्रे नमः ।
ॐ वीराय नमः ।
ॐ विश्वम्भराधिपाय नमः ।
ॐ वीरबाहवे नमः ।
ॐ वीरहन्त्रे नमः ।
ॐ वीराग्र्याय नमः ।
ॐ वीरसैनिकाय नमः ।
ॐ वीरवादप्रियाय नमः ।
ॐ शूराय नमः ।
ॐ एकवीराय नमः ।
ॐ सुराधिपाय नमः ।
ॐ शूरपद्मासुरद्वेषिणे नमः ।
ॐ तारकासुरभञ्जनाय नमः ।
ॐ ताराधिपाय नमः ।
ॐ तारहाराय नमः ।
ॐ शूरहन्त्रे नमः ।
ॐ अश्ववाहनाय नमः ।
ॐ शरभाय नमः ।
ॐ शरसम्भूताय नमः ।
ॐ शक्ताय नमः ॥ 475 ॥

ॐ शरवणेशयाय नमः ।
ॐ शाङ्करये नमः ।
ॐ शाम्भवाय नमः ।
ॐ शम्भवे नमः ।
ॐ साधवे नमः ।
ॐ साधुजनप्रियाय नमः ।
ॐ साराङ्गाय नमः ।
ॐ सारकाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ शार्वाय नमः ।
ॐ शार्वजनप्रियाय नमः ।
ॐ गङ्गासुताय नमः ।
ॐ अतिगम्भीराय नमः ।
ॐ गम्भीरहृदयाय नमः ।
ॐ अनघाय नमः ।
ॐ अमोघविक्रमाय नमः ।
ॐ चक्राय नमः ।
ॐ चक्रभुवे नमः ।
ॐ शक्रपूजिताय नमः ।
ॐ चक्रपाणये नमः ।
ॐ चक्रपतये नमः ।
ॐ चक्रवालान्तभूपतये नमः ।
ॐ सार्वभौमाय नमः ।
ॐ सुरपतये नमः ।
ॐ सर्वलोकाधिरक्षकाय नमः ॥ 500 ॥

See Also  Bala Tripura Sundari Ashtottara Shatanama Stotram 3 In Sanskrit

ॐ साधुपाय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सत्याय नमः ।
ॐ सत्यवतां वराय नमः ।
ॐ सत्यप्रियाय नमः ।
ॐ सत्यगतये नमः ।
ॐ सत्यलोकजनप्रियाय नमः ।
ॐ भूतभव्यभवद्रूपाय नमः ।
ॐ भूतभव्यभवत्प्रभवे नमः ।
ॐ भूतादये नमः ।
ॐ भूतमध्यस्थाय नमः ।
ॐ भूतविध्वंसकारकाय नमः ।
ॐ भूतप्रतिष्ठासङ्कर्त्रे नमः ।
ॐ भूताधिष्ठानाय नमः ।
ॐ अव्ययाय नमः ।
ॐ ओजोनिधये नमः ।
ॐ गुणनिधये नमः ।
ॐ तेजोराशये नमः ।
ॐ अकल्मषाय नमः ।
ॐ कल्मषघ्नाय नमः ।
ॐ कलिध्वंसिने नमः ।
ॐ कलौ वरदविग्रहाय नमः ।
ॐ कल्याणमूर्तये नमः ।
ॐ कामात्मने नमः ।
ॐ कामक्रोधविवर्जिताय नमः ॥ 525 ॥

ॐ गोप्त्रे नमः ।
ॐ गोपायित्रे नमः ।
ॐ गुप्तये नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ सत्वमूर्तये नमः ।
ॐ रजोमूर्तये नमः ।
ॐ तमोमूर्तये नमः ।
ॐ चिदात्मकाय नमः ।
ॐ देवसेनापतये नमः ।
ॐ भूम्ने नमः ।
ॐ महिम्ने नमः ।
ॐ महिमाकराय नमः ।
ॐ प्रकाशरूपाय नमः ।
ॐ पापघ्नाय नमः ।
ॐ पवनाय नमः ।
ॐ पावनाय नमः ।
ॐ अनलाय नमः ।
ॐ कैलासनिलयाय नमः ।
ॐ कान्ताय नमः ।
ॐ कनकाचलकार्मुकाय नमः ।
ॐ निर्धूताय नमः ।
ॐ देवभूतये नमः ।
ॐ व्याकृतये नमः ।
ॐ क्रतुरक्षकाय नमः ॥ 550 ॥

ॐ उपेन्द्राय नमः ।
ॐ इन्द्रवन्द्याङ्घ्रये नमः ।
ॐ उरुजङ्घाय नमः ।
ॐ उरुक्रमाय नमः ।
ॐ विक्रान्ताय नमः ।
ॐ विजयक्रान्ताय नमः ।
ॐ विवेकविनयप्रदाय नमः ।
ॐ अविनीतजनध्वंसिने नमः ।
ॐ सर्वावगुणवर्जिताय नमः ।
ॐ कुलशैलैकनिलयाय नमः ।
ॐ वल्लीवाञ्छितविभ्रमाय नमः ।
ॐ शाम्भवाय नमः ।
ॐ शम्भुतनयाय नमः ।
ॐ शङ्कराङ्गविभूषणाय नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ स्ववशाय नमः ।
ॐ स्वस्थाय नमः ।
ॐ पुष्कराक्षाय नमः ।
ॐ पुरूद्भवाय नमः ।
ॐ मनवे नमः ।
ॐ मानवगोप्त्रे नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय नमः ।
ॐ युने नमः ।
ॐ बालाय नमः ॥ 575 ॥

ॐ शिशवे नमः ।
ॐ नित्ययूने नमः ।
ॐ नित्यकौमारवते नमः ।
ॐ महते नमः ।
ॐ अग्राह्यरूपाय नमः ।
ॐ ग्राह्याय नमः ।
ॐ सुग्रहाय नमः ।
ॐ सुन्दराकृतये नमः ।
ॐ प्रमर्दनाय नमः ।
ॐ प्रभूतश्र्ये नमः ।
ॐ लोहिताक्षाय नमः ।
ॐ अरिमर्दनाय नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ त्रिककुदे नमः ।
ॐ त्रिश्रिये नमः ।
ॐ त्रिलोकनिलयाय नमः ।
ॐ अलयाय नमः ।
ॐ शर्मदाय नमः ।
ॐ शर्मवते नमः ।
ॐ शर्मणे नमः ।
ॐ शरण्याय नमः ।
ॐ शरणालयाय नमः ।
ॐ स्थाणवे नमः ।
ॐ स्थिरतराय नमः ।
ॐ स्थेयसे नमः ॥ 600 ॥

ॐ स्थिरश्रिये नमः ।
ॐ स्थिरविक्रमाय नमः ।
ॐ स्थिरप्रतिज्ञाय नमः ।
ॐ स्थिरधिये नमः ।
ॐ विश्वरेतसे नमः ।
ॐ प्रजाभवाय नमः ।
ॐ अत्ययाय नमः ।
ॐ प्रत्ययाय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ सर्वयोगविनिःसृताय नमः ।
ॐ सर्वयोगेश्वराय नमः ।
ॐ सिद्धाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदर्शनाय नमः ।
ॐ वसवे नमः ।
ॐ वसुमनसे नमः ।
ॐ देवाय नमः ।
ॐ वसुरेतसे नमः ।
ॐ वसुप्रदाय नमः ।
ॐ समात्मने नमः ।
ॐ समदर्शिने नमः ।
ॐ समदाय नमः ।
ॐ सर्वदर्शनाय नमः ।
ॐ वृषाकृताय नमः ।
ॐ वृषारूढाय नमः ॥ 625 ॥

ॐ वृषकर्मणे नमः ।
ॐ वृषप्रियाय नमः ।
ॐ शुचये नमः ।
ॐ शुचिमनसे नमः ।
ॐ शुद्धाय नमः ।
ॐ शुद्धकीर्तये नमः ।
ॐ शुचिश्रवसे नमः ।
ॐ रौद्रकर्मणे नमः ।
ॐ महारौद्राय नमः ।
ॐ रुद्रात्मने नमः ।
ॐ रुद्रसम्भवाय नमः ।
ॐ अनेकमूर्तये नमः ।
ॐ विश्वात्मने नमः ।
ॐ अनेकबाहवे नमः ।
ॐ अरिन्दमाय नमः ।
ॐ वीरबाहवे नमः ।
ॐ विश्वसेनाय नमः ।
ॐ विनेयाय नमः ।
ॐ विनयप्रदाय नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वविदाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ सर्ववेदान्तगोचराय नमः ।
ॐ कवये नमः ।
ॐ पुराणाय नमः ॥ 650 ॥

ॐ अनुशास्त्रे नमः ।
ॐ स्थूलस्थूलाय नमः ।
ॐ अणोरणवे नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ विष्णु विनुताय नमः ।
ॐ कृष्णकेशाय नमः ।
ॐ किशोरकाय नमः ।
ॐ भोजनाय नमः ।
ॐ भाजनाय नमः ।
ॐ भोक्त्रे नमः ।
ॐ विश्वभोक्त्रे नमः ।
ॐ विशांपतये नमः ।
ॐ विश्वयोनये नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विरागाय नमः ।
ॐ वीरसेविताय नमः ।
ॐ पुण्याय नमः ।
ॐ पुरुयशसे नमः ।
ॐ पूज्याय नमः ।
ॐ पूतकीर्तये नमः ।
ॐ पुनर्वसवे नमः ।
ॐ सुरेन्द्राय नमः ।
ॐ सर्वलोकेन्द्राय नमः ।
ॐ महेन्द्रोपेन्द्रवन्दिताय नमः ।
ॐ विश्ववेद्याय नमः ॥ 675 ॥

ॐ विश्वपतये नमः ।
ॐ विश्वभृते नमः ।
ॐ विश्वभेषजाय नमः । repeat
ॐ मधवे नमः ।
ॐ मधुरसङ्गीताय नमः ।
ॐ माधवाय नमः ।
ॐ शुचये नमः ।
ॐ ऊष्मलाय नमः ।
ॐ शुक्राय नमः ।
ॐ शुभ्रगुणाय नमः ।
ॐ शुक्लाय नमः ।
ॐ शोकहन्त्रे नमः ।
ॐ शुचिस्मिताय नमः ।
ॐ महेष्वासाय नमः ।
ॐ विष्णुपतये नमः ।
ॐ महीहन्त्रे नमः ।
ॐ महीपतये नमः ।
ॐ मरीचये नमः ।
ॐ मदनाय नमः ।
ॐ मानिने नमः ।
ॐ मातङ्गगतये नमः ।
ॐ अद्भुताय नमः ।
ॐ हंसाय नमः ।
ॐ सुपूर्णाय नमः ।
ॐ सुमनसे नमः ॥ 700 ॥

ॐ भुजङ्गेशभुजावलये नमः ।
ॐ पद्मनाभाय नमः ।
ॐ पशुपतये नमः ।
ॐ पारज्ञाय नमः ।
ॐ वेदपारगाय नमः ।
ॐ पण्डिताय नमः ।
ॐ परघातिने नमः ।
ॐ सन्धात्रे नमः ।
ॐ सन्धिमते नमः ।
ॐ समाय नमः ।
ॐ दुर्मर्षणाय नमः ।
ॐ दुष्टशास्त्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ युद्धधर्षणाय नमः ।
ॐ विख्यातात्मने नमः ।
ॐ विधेयात्मने नमः ।
ॐ विश्वप्रख्यातविक्रमाय नमः ।
ॐ सन्मार्गदेशिकाय नमः ।
ॐ मार्गरक्षकाय नमः ।
ॐ मार्गदायकाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ अनिरुद्धश्रिये नमः ।
ॐ आदित्याय नमः ।
ॐ दैत्यमर्दनाय नमः ।
ॐ अनिमेषाय नमः ॥ 725 ॥

ॐ अनिमेषार्च्याय नमः ।
ॐ त्रिजगद्ग्रामण्ये नमः ।
ॐ गुणिने नमः ।
ॐ सम्पृक्ताय नमः ।
ॐ सम्प्रवृत्तात्मने नमः ।
ॐ निवृत्तात्मने नमः ।
ॐ आत्मवित्तमाय नमः ।
ॐ अर्चिष्मते नमः ।
ॐ अर्चनप्रीताय नमः ।
ॐ पाशभृते नमः ।
ॐ पावकाय नमः ।
ॐ मरुते नमः ।
ॐ सोमाय नमः ।
ॐ सौम्याय नमः ।
ॐ सोमसुताय नमः ।
ॐ सोमसुते नमः ।
ॐ सोमभूषणाय नमः ।
ॐ सर्वसामप्रियाय नमः ।
ॐ सर्वसमाय नमः ।
ॐ सर्वंसहाय नमः ।
ॐ वसवे नमः ।
ॐ उमासूनवे नमः ।
ॐ उमाभक्ताय नमः ।
ॐ उत्फुल्लमुखपङ्कजाय नमः ।
ॐ अमृत्यवे नमः ॥ 750 ॥

ॐ अमरारातिमृत्यवे नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ अजिताय नमः ।
ॐ मन्दारकुसुमापीडाय नमः ।
ॐ मदनान्तकवल्लभाय नमः ।
ॐ माल्यवन्मदनाकाराय नमः ।
ॐ मालतीकुसुमप्रियाय नमः ।
ॐ सुप्रसादाय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुमुखाय नमः ।
ॐ सुमहायशसे नमः ।
ॐ वृषपर्वने नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विष्वक्सेनाय नमः ।
ॐ वृषोदराय नमः ।
ॐ मुक्ताय नमः ।
ॐ मुक्तगतये नमः ।
ॐ मोक्षाय नमः ।
ॐ मुकुन्दाय नमः ।
ॐ मुद्गलिने नमः ।
ॐ मुनये नमः ।
ॐ श्रुतवते नमः ।
ॐ सुश्रुताय नमः ।
ॐ श्रोत्रे नमः ।
ॐ श्रुतिगम्याय नमः ॥ 775 ॥

See Also  108 Names Of Devi Vaibhavashcharya – Ashtottara Shatanamavali In Sanskrit

ॐ श्रुतिस्तुताय नमः ।
ॐ वर्धमानाय नमः ।
ॐ वनरतये नमः ।
ॐ वानप्रस्थनिषेविताय नमः ।
ॐ वाग्मिणे नमः ।
ॐ वराय नमः ।
ॐ वावदूकाय नमः ।
ॐ वसुदेववरप्रदाय नमः ।
ॐ महेश्वराय नमः ।
ॐ मयूरस्थाय नमः ।
ॐ शक्तिहस्ताय नमः ।
ॐ त्रिशूलधृते नमः ।
ॐ ओजसे नमः ।
ॐ तेजसे नमः ।
ॐ तेजस्विने नमः ।
ॐ प्रतापाय नमः ।
ॐ सुप्रतापवते नमः ।
ॐ ऋद्धये नमः ।
ॐ समृद्धये नमः ।
ॐ संसिद्धये नमः ।
ॐ सुसिद्धये नमः ।
ॐ सिद्धसेविताय नमः ।
ॐ अमृताशाय नमः ।
ॐ अमृतवपुषे नमः ।
ॐ अमृताय नमः ॥ 800 ॥

ॐ अमृतदायकाय नमः ।
ॐ चन्द्रमसे नमः ।
ॐ चन्द्रवदनाय नमः ।
ॐ चन्द्रदृषे नमः ।
ॐ चन्द्रशीतलाय नमः ।
ॐ मतिमते नमः ।
ॐ नीतिमते नमः ।
ॐ नीतये नमः ।
ॐ कीर्तिमते नमः ।
ॐ कीर्तिवर्धनाय नमः ।
ॐ औषधाय नमः ।
ॐ ओषधीनाथाय नमः ।
ॐ प्रदीपाय नमः ।
ॐ भवमोचनाय नमः ।
ॐ भास्कराय नमः ।
ॐ भास्करतनवे नमः ।
ॐ भानवे नमः ।
ॐ भयविनाशनाय नमः ।
ॐ चतुर्युगव्यवस्थात्रे नमः ।
ॐ युगधर्मप्रवर्तकाय नमः ।
ॐ अयुजाय नमः ।
ॐ मिथुनाय नमः ।
ॐ योगाय नमः ।
ॐ योगज्ञाय नमः ।
ॐ योगपारगाय नमः ॥ 825 ॥

ॐ महाशनाय नमः ।
ॐ महाभूताय नमः ।
ॐ महापुरुषविक्रमाय नमः ।
ॐ युगान्तकृते नमः ।
ॐ युगावर्ताय नमः ।
ॐ दृश्यादृश्यस्वरूपकाय नमः ।
ॐ सहस्रजिते नमः ।
ॐ महामूर्तये नमः ।
ॐ सहस्रायुधपण्डिताय नमः ।
ॐ अनन्तासुरसंहर्त्रे नमः ।
ॐ सुप्रतिष्ठाय नमः ।
ॐ सुखाकराय नमः ।
ॐ अक्रोधनाय नमः ।
ॐ क्रोधहन्त्रे नमः ।
ॐ शत्रुक्रोधविमर्दनाय नमः ।
ॐ विश्वमुर्तये नमः ।
ॐ विश्वबाहवे नमः ।
ॐ विश्वदृङ्शे नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वसंसेव्याय नमः ।
ॐ द्यावाभूमिविवर्धनाय नमः ।
ॐ अपान्निधये नमः ।
ॐ अकर्त्रे नमः ।
ॐ अन्नाय नमः ॥ 850 ॥

ॐ अन्नदात्रे नमः ।
ॐ अन्नदारुणाय नमः ।
ॐ अम्भोजमौलये नमः ।
ॐ उज्जीवाय नमः ।
ॐ प्राणाय नमः ।
ॐ प्राणप्रदायकाय नमः ।
ॐ स्कन्दाय नमः ।
ॐ स्कन्दधराय नमः ।
ॐ धुर्याय नमः ।
ॐ धार्याय नमः ।
ॐ धृतये नमः ।
ॐ अनातुराय नमः । ? धृतिरनातुराय
ॐ आतुरौषधये नमः ।
ॐ अव्यग्राय नमः ।
ॐ वैद्यनाथाय नमः ।
ॐ अगदङ्कराय नमः ।
ॐ देवदेवाय नमः ।
ॐ बृहद्भानवे नमः ।
ॐ स्वर्भानवे नमः ।
ॐ पद्मवल्लभाय नमः ।
ॐ अकुलाय नमः ।
ॐ कुलनेत्रे नमः ।
ॐ कुलस्रष्ट्रे नमः ।
ॐ कुलेश्वराय ।११८नमः ।
ॐ निधये नमः ॥ 875 ॥

ॐ निधिप्रियाय नमः ।
ॐ शङ्खपद्मादिनिधिसेविताय नमः ।
ॐ शतानन्दाय नमः ।
ॐ शतावर्ताय नमः ।
ॐ शतमूर्तये नमः ।
ॐ शतायुधाय नमः ।
ॐ पद्मासनाय नमः ।
ॐ पद्मनेत्राय नमः ।
ॐ पद्माङ्घ्रये नमः ।
ॐ पद्मपाणिकाय नमः ।
ॐ ईशाय नमः ।
ॐ कारणकार्यात्मने नमः ।
ॐ सूक्ष्मात्मने नमः ।
ॐ स्थूलमूर्तिमते नमः ।
ॐ अशरीरिणे नमः ।
ॐ त्रिशरीरिणे नमः ।
ॐ शरीरत्रयनायकाय नमः ।
ॐ जाग्रत्प्रपञ्चाधिपतये नमः ।
ॐ स्वप्नलोकाभिमानवते नमः ।
ॐ सुषुप्त्यवस्थाभिमानिने नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ तुरीयकाय नाम्ः । var?? तुरीयगाय
ॐ स्वापनाय नमः ।
ॐ स्ववशाय नमः ।
ॐ व्यापिणे नमः ॥ 900 ॥

ॐ विश्वमूर्तये नमः ।
ॐ विरोचनाय नमः ।
ॐ वीरसेनाय नमः ।
ॐ वीरवेषाय नमः ।
ॐ वीरायुधसमावृताय नमः ।
ॐ सर्वलक्षणलक्षण्याय नमः ।
ॐ लक्ष्मीवते नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ समयज्ञाय नमः ।
ॐ सुसमयसमाधिजनवल्लभाय नमः ।
ॐ अतुल्याय नमः ।
ॐ अतुल्यमहिम्ने नमः ।
ॐ शरभोपमविक्रमाय नमः ।
ॐ अहेतवे नमः ।
ॐ हेतुमते नमः ।
ॐ हेतवे नमः ।
ॐ हेतुहेतुमदाश्रयाय नमः ।
ॐ विक्षराय नमः ।
ॐ रोहिताय नमः ।
ॐ रक्ताय नमः ।
ॐ विरक्ताय नमः ।
ॐ विजनप्रियाय नमः ।
ॐ महीधराय नमः ।
ॐ मातरिश्वने नमः ।
ॐ माङ्गल्यमकरालयाय नमः ॥ 925 ॥

ॐ मध्यमान्तादये नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ रक्षोविक्षोभकारकाय नमः ।
ॐ गुहाय नमः ।
ॐ गुहाशयाय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गुह्याय नमः ।
ॐ गुणमहार्णवाय नमः ।
ॐ निरुद्योगाय नमः ।
ॐ महोद्योगिने नमः ।
ॐ निर्निरोधाय नमः ।
ॐ निरङ्कुशःनमः ।
ॐ महावेगाय नमः ।
ॐ महाप्राणाय नमः ।
ॐ महेश्वरमनोहराय नमः ।
ॐ अमृताशाय नमः ।
ॐ अमिताहाराय नमः ।
ॐ मितभाषिणे नमः ।
ॐ अमितार्थवाचे नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ क्षोभकृते नमः ।
ॐ क्षेमाय नमः ।
ॐ क्षेमवते नमः ।
ॐ क्षेमवर्धनाय नमः ।
ॐ ऋद्धाय नमः ॥ 950 ॥

ॐ ऋद्धिप्रदाय नमः ।
ॐ मत्ताय नमः ।
ॐ मत्तकेकिनिषूदनाय नमः ।
ॐ धर्माय नमः ।
ॐ धर्मविदां श्रेष्ठाय नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ वासवप्रियाय नमः ।
ॐ परधीराय नमः ।
ॐ अपराक्रान्ताय नमः ।
ॐ परितुष्टाय नमः ।
ॐ परासुहृते नमः ।
ॐ रामाय नमः ।
ॐ रामनुताय नमः ।
ॐ रम्याय नमः ।
ॐ रमापतिनुताय नमः ।
ॐ हिताय नमः ।
ॐ विरामाय नमः ।
ॐ विनताय नमः ।
ॐ विदिषे नमः ।
ॐ वीरभद्राय नमः ।
ॐ विधिप्रियाय नमः ।
ॐ विनयाय नमः ।
ॐ विनयप्रीताय नमः ।
ॐ विमतोरुमदापहाय नमः ।
ॐ सर्वशक्तिमतां श्रेष्ठाय नमः ॥ 975 ॥

ॐ सर्वदैत्यभयङ्कराय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ शत्रुविनताय नमः ।
ॐ शत्रुसङ्घप्रधर्षकाय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ ऋतुपतये नमः ।
ॐ वसन्ताय नमः ।
ॐ माधवाय नमः । repeat
ॐ मधवे नमः ।
ॐ वसन्तकेलिनिरताय नमः ।
ॐ वनकेलिविशारदाय नमः ।
ॐ पुष्पधूलीपरिवृताय नमः ।
ॐ नवपल्लवशेखराय नमः ।
ॐ जलकेलिपराय नमः ।
ॐ जन्याय नमः ।
ॐ जह्नुकन्योपलालिताय नमः ।
ॐ गाङ्गेयाय नमः ।
ॐ गीतकुशलाय नमः ।
ॐ गङ्गापूरविहारवते नमः ।
ॐ गङ्गाधराय नमः ।
ॐ गणपतये नमः ।
ॐ गणनाथसमावृताय नमः ।
ॐ विश्रामाय नमः ।
ॐ विश्रमयुताय नमः ।
ॐ विश्वभुजे नमः ॥ 1000 ॥

ॐ विश्वदक्षिणाय नमः ।
ॐ विस्ताराय नमः ।
ॐ विग्रहाय नमः ।
ॐ व्यासाय नमः ।
ॐ विश्वरक्षणतत्पराय नमः ।
ॐ विनतानन्दकारिणे नमः ।
ॐ पार्वतीप्राणनन्दनाय नमः ।
ॐ विशाखाय नमः ।
ॐ षण्मुखाय नमः ।
ॐ कार्तिकेयाय नमः ।
ॐ कामप्रदायकाय नमः ॥ 1011 ॥

इति श्रीसुब्रह्मण्यसहस्रनामावली सम्पूर्णा ।

। ॐ शरवणभव ॐ ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1000 Names of Sri Subrahmanya Sahasranamavali Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil