Sri Hayagriva Ashtottara Shatanama Stotram In Sanskrit

॥ Hayagriva Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रम् ॥

अथ विनियोगः –
ॐ अस्य श्रीहयग्रीवस्तोत्रमन्त्रस्य सङ्कर्षण ऋषिः,
अनुष्टुप्छन्दः, श्रीहयग्रीवो देवता ऋं बीजं
नमः शक्तिः विद्यार्थे जपे विनियोगः ॥

अथ ध्यानम् –
वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं
मन्दाकिन्यमृताब्धिकुन्दकुमुदक्षीरेन्दुहासं हरिम् ।
मुद्रापुस्तकशङ्खचक्रविलसच्छ्रीमद्भुजामण्डितम्
नित्यं निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥

अथ मन्त्रः –
ॐ ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवचसे महाश्वशिरसे नमः ॥

श्रीहयग्रीवाय नमः ।

अथ स्तोत्रम् –
ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ ॥

हयग्रीवो महाविष्णुः केशवो मधुसूदनः ।
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥ २ ॥

आदीशः सर्ववागीशः सर्वाधारः सनातनः ।
निराधारो निराकारो निरीशो निरुपद्रवः ॥ ३ ॥

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः ।
चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥ ४ ॥ शुभदायकः
श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः ।
वेदोद्धर्त्तावेदनिधिर्वेदवेद्यः पुरातनः ॥ ५ ॥

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः ।
परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥ ६ ॥

सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ।
अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ॥ ७ ॥

पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ।
शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ॥ ८ ॥

See Also  Nrisimha Ashtottara Shatanama Stotram In Odia

जरामृत्युहरो जीवो जयदो जाड्यनाशनः । गरुडासनः
जपप्रियो जपस्तुत्यो जपकृत्प्रियकृद्विभुः ॥ ९ ॥

var जयश्रियोर्जितस्तुल्यो जापकप्रियकृद्विभुः
विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः । विराट् स्वराट्
विधिविष्णुशिवस्तुत्यः शान्तिदः क्षान्तिकारकः ॥ १० ॥

श्रेयःप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ।
अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ॥ ११ ॥

अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ।
अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ॥ १२ ॥

ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ।
योगारूढो महापुण्यः पुण्यकीर्तिरमित्रहा ॥ १३ ॥

विश्वसाक्षी चिदाकारः परमानन्दकारकः ।
महायोगी महामौनी मुनीशः श्रेयसां निधिः ॥ १४ ॥

हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् ।
शुद्धस्फटिकसङ्काशः जटामण्डलसंयुतः ॥ १५ ॥

आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ।
प्रणवोद्गीथरूपश्च वेदाहरणकर्मकृत् ॥ १६ ॥

नाम्नामष्टोत्तरशतं हयग्रीवस्य यः पठेत् ।
स सर्ववेदवेदाङ्गशास्त्राणां पारगः कविः ॥ १७ ॥

इदमष्टोत्तरशतं नित्यं मूढोऽपि यः पठेत् ।
वाचस्पतिसमो बुद्ध्या सर्वविद्याविशारदः ॥ १८ ॥

महदैश्वर्यमाप्नोति कलत्राणि च पुत्रकान् ।
नश्यन्ति सकलान् रोगान् अन्ते हरिपुरं व्रजेत् ॥ १९ ॥

॥ इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Hayagriva Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Chamundeshwari Ashtottara Shatanama Stotram In Kannada