Shivastotra By Kalki Avatar In Marathi

॥ Kalki Krita Shiva Stotram in Marathi ॥

॥ कल्किकृतं शिवस्तोत्रम ॥
श्रीगणेशाय नमः ।

गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम ।
त्र्यक्शं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्शम ॥ १ ॥

योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम ।
जटाजूटाटोपरिक्शिप्तभावं महाकालं चन्द्रभालं नमामि ॥ २ ॥

श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च ।
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोको।अस्तमेति ॥ ३ ॥

यो भूतादिः पञ्चभूतैः सिसृक्शुस्तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥ ४ ॥

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति ।
ब्रह्माद्यंशे यो।अभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥ ५ ॥

यस्याद्न्यया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन ।
शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥ ६ ॥

यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ।
मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥ ७ ॥

इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम।

– Chant Stotra in Other Languages –

Kalki Krita Shiva Stotram in SanskritEnglish – Marathi । KannadaTeluguTamil

See Also  Sri Shiva Pratipadana Stotram In Tamil