Shri Karthikeya Panchakam In Sanskrit

॥ Shri Karthikeya Panchakam Sanskrit Lyrics ॥

॥ श्री कार्तिकेय पञ्चकम् ॥
विमलनिजपदाब्जं वेदवेदान्तवेद्यं
मम कुलगुरुनाथं वाद्यगानप्रमोदम् ।
रमणसुगुणजालं रङ्गराड्भागिनेयं
कमलजनुतपादं कार्तिकेयं नमामि ॥ १ ॥

शिवशरवणजातं शैवयोगप्रभावं
भवहितगुरुनाथं भक्तबृन्दप्रमोदम् ।
नवरसमृदुपादं नाथ ह्रीङ्काररूपं
कवनमधुरसारं कार्तिकेयं भजामि ॥ २ ॥

पाकारातिसुतामुखाब्जमधुपं बालेन्दुमौलीश्वरं
लोकानुग्रहकारणं शिवसुतं लोकेशतत्त्वप्रदम् ।
राकाचन्द्रसमानचारुवदनं रम्भोरुवल्लीश्वरं
ह्रीङ्कारप्रणवस्वरूपलहरीं श्रीकार्तिकेयं भजे ॥ ३ ॥

महादेवाज्जातं शरवणभवं मन्त्रशरभं
महत्तत्त्वानन्दं परमलहरी मन्त्रमधुरम् ।
महादेवातीतं सुरगणयुतं मन्त्रवरदं
गुहं वल्लीनाथं मम हृदि भजे गृध्रगिरिशम् ॥ ४ ॥

नित्याकारं निखिलवरदं निर्मलं ब्रह्मतत्त्वं
नित्यं देवैर्विनुतचरणं निर्विकल्पादियोगम् ।
नित्यानन्दं निगमविदितं निर्गुणं देवदेवं
नित्यं वन्दे मम गुरुवरं निर्ममं कार्तिकेयम् ॥ ५ ॥

पञ्चकं कार्तिकेयस्य यः पठेच्छृणुयादपि ।
कार्तिकेय प्रसादात्स सर्वाभीष्टमवाप्नुयात् ॥ ६ ॥

इति श्री कार्तिकेय पञ्चकम् ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Sri Karthikeya Panchakam Lyrics in English » Kannada » Telugu » Tamil

See Also  108 Names Of Ganga 2 In Sanskrit