Shri Subrahmanya Shadakshara Ashtottara Shatanamavali In Sanskrit

॥ Subrahmanya Shadakshara Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्री सुब्रह्मण्य षडक्षराष्टोत्तरशतनामावली ॥
ओं शरण्याय नमः ।
ओं शर्वतनयाय नमः ।
ओं शर्वाणीप्रियनन्दनाय नमः ।
ओं शरकाननसम्भूताय नमः ।
ओं शर्वरीशमुखाय नमः ।
ओं शमाय नमः ।
ओं शङ्कराय नमः ।
ओं शरणत्रात्रे नमः ।
ओं शशाङ्कमुकुटोज्ज्वलाय नमः ।
ओं शर्मदाय नमः ॥ 10 ॥

ओं शङ्खकण्ठाय नमः ।
ओं शरकार्मुकहेतिभृते नमः ।
ओं शक्तिधारिणे नमः ।
ओं शक्तिकराय नमः ।
ओं शतकोट्यर्कपाटलाय नमः ।
ओं शमदाय नमः ।
ओं शतरुद्रस्थाय नमः ।
ओं शतमन्मथविग्रहाय नमः ।
ओं रणाग्रण्ये नमः ।
ओं रक्षणकृते नमः ॥ 20 ॥

ओं रक्षोबलविमर्दनाय नमः ।
ओं रहस्यज्ञाय नमः ।
ओं रतिकराय नमः ।
ओं रक्तचन्दनलेपनाय नमः ।
ओं रत्नधारिणे नमः ।
ओं रत्नभूषाय नमः ।
ओं रत्नकुण्डलमण्डिताय नमः ।
ओं रक्ताम्बराय नमः ।
ओं रम्यमुखाय नमः ।
ओं रविचन्द्राग्निलोचनाय नमः ॥ 30 ॥

ओं रमाकलत्रजामात्रे नमः ।
ओं रहस्याय नमः ।
ओं रघुपूजिताय नमः ।
ओं रसकोणान्तरालस्थाय नमः ।
ओं रजोमूर्तये नमः ।
ओं रतिप्रदाय नमः ।
ओं वसुदाय नमः ।
ओं वटुरूपाय नमः ।
ओं वसन्तऋतुपूजिताय नमः ।
ओं वलवैरिसुतानाथाय नमः ॥ 40 ॥

See Also  Subrahmanya Ashtakam In Bengali » Karavalamba Stotram

ओं वनजाक्षाय नमः ।
ओं वराकृतये नमः ।
ओं वक्रतुण्डानुजाय नमः ।
ओं वत्साय नमः ।
ओं वरदाभयहस्तकाय नमः ।
ओं वत्सलाय नमः ।
ओं वर्षकाराय नमः ।
ओं वसिष्ठादिप्रपूजिताय नमः ।
ओं वणिग्रूपाय नमः ।
ओं वरेण्याय नमः ॥ 50 ॥

ओं वर्णाश्रमविधायकाय नमः ।
ओं वरदाय नमः ।
ओं वज्रभृद्वन्द्याय नमः ।
ओं वन्दारुजनवत्सलाय नमः ।
ओं नकाररूपाय नमः ।
ओं नलिनाय नमः ।
ओं नकारयुतमन्त्रकाय नमः ।
ओं नकारवर्णनिलयाय नमः ।
ओं नन्दनाय नमः ।
ओं नन्दिवन्दिताय नमः ॥ 60 ॥

ओं नटेशपुत्राय नमः ।
ओं नम्रभ्रुवे नमः ।
ओं नक्षत्रग्रहनायकाय नमः ।
ओं नगाग्रनिलयाय नमः ।
ओं नम्याय नमः ।
ओं नमद्भक्तफलप्रदाय नमः ।
ओं नवनागाय नमः ।
ओं नगहराय नमः ।
ओं नवग्रहसुवन्दिताय नमः ।
ओं नववीराग्रजाय नमः ॥ 70 ॥

ओं नव्याय नमः ।
ओं नमस्कारस्तुतिप्रियाय नमः ।
ओं भद्रप्रदाय नमः ।
ओं भगवते नमः ।
ओं भवारण्यदवानलाय नमः ।
ओं भवोद्भवाय नमः ।
ओं भद्रमूर्तये नमः ।
ओं भर्त्सितासुरमण्डलाय नमः ।
ओं भयापहाय नमः ।
ओं भर्गरूपाय नमः ॥ 80 ॥

See Also  Sri Adi Shankaracharya 108 Names In English

ओं भक्ताभीष्टफलप्रदाय नमः ।
ओं भक्तिगम्याय नमः ।
ओं भक्तनिधये नमः ।
ओं भयक्लेशविमोचनाय नमः ।
ओं भरतागमसुप्रीताय नमः ।
ओं भक्ताय नमः ।
ओं भक्तार्तिभञ्जनाय नमः ।
ओं भयकृते नमः ।
ओं भरताराध्याय नमः ।
ओं भरद्वाजऋषिस्तुताय नमः ॥ 90 ॥

ओं वरुणाय नमः ।
ओं वरुणाराध्याय नमः ।
ओं वलारातिमुखस्तुताय नमः ।
ओं वज्रशक्त्यायुधोपेताय नमः ।
ओं वराय नमः ।
ओं वक्षःस्थलोज्ज्वलाय नमः ।
ओं वस्तुरूपाय नमः ।
ओं वशिध्येयाय नमः ।
ओं वलित्रयविराजिताय नमः ।
ओं वक्रालकाय नमः ॥ 100 ॥

ओं वलयधृते नमः ।
ओं वलत्पीताम्बरोज्ज्वलाय नमः ।
ओं वचोरूपाय नमः ।
ओं वचनदाय नमः ।
ओं वचोऽतीतचरित्रकाय नमः ।
ओं वरदाय नमः ।
ओं वश्यफलदाय नमः ।
ओं वल्लीदेवीमनोहराय नमः ॥ 108 ॥

इति श्रीसुब्रह्मण्य षडक्षराष्टोत्तरशतनामावली ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Astottarasatanamani » Shri Subrahmanya Shadakshara Ashtottara Shatanamavali Lyrics in English » Kannada » Telugu » Tamil