Sri Balakrishna Ashtakam In Sanskrit

॥ Sri Balakrishna Ashtakam Sanskrit Lyrics ॥

॥ श्रीबालकृष्णाष्टकम् ॥
यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् ।

भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १ ॥

प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २ ॥

स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३ ॥

सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४ ॥

सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ५ ॥

अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत् ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ६ ॥

इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम् ।
यत्कृपालेशमात्रेण तं श्रीबालहरि भजे ॥ ७ ॥

श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ८ ॥

अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम् ।
पठेद्वा शृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम् ॥ ९ ॥

इति श्रीमद्वल्लभाचार्यचरणैकतान-
श्रीमद्गोकुलोत्सवात्मजश्रीजीवनेशजीविरचितं
श्रीबालकृष्णाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Balakrishna Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Vrinda Devi Ashtakam In Kannada