Sri Ganapati Mantraksharavali Stotram In Sanskrit

॥ Sri Ganapati Mantraksharavali Stotram Sanskrit Lyrics ॥

॥ श्री गणपति मन्त्राक्षरावलि स्तोत्रम् ॥
रीदेव्युवाच ।
विना तपो विना ध्यानम् विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १ ॥

महेश्वर उवाच ।
मन्त्राक्षरावलिस्तोत्रं महासौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २ ॥

महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३ ॥

ओङ्कारवलयाकारं अच्छकल्लोलमालिकम् ।
ऐक्षवं चेतसा वन्दे सिन्धुं सन्धुक्षितस्वनम् ॥ ४ ॥

श्रीमन्तमिक्षुजलधेः अन्तरभ्युदितं नुमः ।
मणिद्वीपं महाकारं महाकल्पं महोदयम् ॥ ५ ॥

ह्रीप्रदेन महाधाम्ना धाम्नामीशे विभारके ।
कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥ ६ ॥

क्लीबस्यापि स्मरोन्मादकारिशृङ्गारशालिनि ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७ ॥

ग्लौकलाभिरिवाच्छाभिस्तीव्रादिनवशक्तिभिः ।
जुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८ ॥

गम्भीरमिव तत्राब्धिं वसन्तं त्र्यश्रमण्डले ।
उत्सङ्गगतलक्ष्मीकं उद्यत्तिग्मांशुपाटलम् ॥ ९ ॥

गदेक्षुकार्मुकरुजाचक्राम्बुजगुणोत्पलैः ।
व्रीह्यग्रनिजदन्ताग्रकलशीमातुलुङ्गकैः ॥ १० ॥

णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जकैः ।
एतैरेकादशकरान् अलङ्कुर्वाणमुन्मदम् ॥ ११ ॥

परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२ ॥

तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।
रमारमेशौ विमृशाम्यशेषशुभदायकौ ॥ १३ ॥

येन दक्षिणभागस्थन्यग्रोधतलमाश्रितम् ।
साकल्पं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४ ॥

See Also  Ganesha Mahimna Stotram In Sanskrit

वरसम्भोगरुचिरौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ । १५ ॥

रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधरावुदाराभौ भजे भुवनपालकौ ॥ १६ ॥

वलमानवपुर्ज्योतिः कडारितककुप्तटीः ।
हृदयाद्यङ्गषड्देवीरङ्गरक्षाकृते भजे ॥ १७ ॥

रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।
ऋद्ध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८ ॥

दलत्कपोलविगलन्मदधारावलाहकम् ।
समृद्धितटिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९ ॥

सकान्तिं कान्तिलतिकापरिरब्धतनुं भजे ।
भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥ २० ॥

वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गनामृतम् ॥ २१ ॥

जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रदौ ।
अहं मदद्रवाविघ्नौ हतये त्वेनसां श्रये ॥ २२ ॥

नवशृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३ ॥

मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधी वाक्पुष्पाञ्जलिभिः स्तुमः ॥ २४ ॥

वर्षन्तौ रत्नवर्षेण वलद्बालातपत्विषौ ।
वरदौ नमतां वन्दे वसुधापद्मशेवधी ॥ २५ ॥

शमिताधिमहाव्याधीः सान्द्रानन्दकरम्बिताः ।
ब्राह्म्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६ ॥

मामवन्तु महेन्द्राद्या दिक्पाला दर्पशालिनः ।
संनताः श्रीगणाधीशं सवाहायुधशक्तयः ॥ २७ ॥

नवीनपल्लवच्छायादायादवपुरुज्ज्वलम् ।
मेदस्वि मदनिष्यन्दस्रोतस्वि कटकोटरम् ॥ २८ ॥

यजमानतनुं यागरूपिणं यज्ञपूरुषम् ।
यमं यमवतामर्च्यं यत्नभाजामदुर्लभम् ॥ २९ ॥

स्वारस्यपरमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं वेद्यं स्वयं शक्तं स्वयं कृत्यत्रयाकरम् ॥ ३० ॥

See Also  Suklam Baradharam Lyrics, Song, Mp3 And Meaning

हारकेयूर मुकुटकनकाङ्गद कुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥ ३१ ॥

मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२ ॥

इति श्री गणपति मन्त्राक्षरावलि स्तोत्रम् ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ganapati Mantraksharavali Stotram Lyrics in Sanskrit » English » Kannada » Telugu » Tamil