Sri Maha Ganapati Mantra Vigraha Kavacham In Sanskrit

॥ Sri Maha Ganapathi Mangala Malika Stotram Sanskrit Lyrics ॥

॥ श्री महागणपति मन्त्रविग्रह कवचम् ॥
ओं अस्य श्रीमहागणपति मन्त्रविग्रह कवचस्य । श्रीशिव ऋषिः । देवीगायत्री छन्दः । श्री महागणपतिर्देवता । ओं श्रीं ह्रीं क्लीं ग्लौं गं बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ।
ओं श्रीं ह्रीं क्लीं – अङ्गुष्ठाभ्यां नमः ।
ग्लौं गं गणपतये – तर्जनीभ्यां नमः ।
वरवरद – मध्यमाभ्यां नमः ।
सर्वजनं मे – अनामिकाभ्यां नमः ।
वशमानय – कनिष्ठिकाभ्यां नमः ।
स्वाहा – करतल करपृष्ठाभ्यां नमः ।

न्यासः ।
ओं श्रीं ह्रीं क्लीं – हृदयाय नमः ।
ग्लौं गं गणपतये – शिरसे स्वाहा ।
वरवरद – शिखायै वषट् ।
सर्वजनं मे – कवचाय हुम् ।
वशमानय – नेत्रत्रयाय वौषट् ।
स्वाहा – अस्त्राय फट् ।

ध्यानम् –
बीजापूरगदेक्षुकार्मुक ऋजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ।

इति ध्यात्वा । लं इत्यादि मानसोपचारैः सम्पूज्य कवचं पठेत् ।

ओङ्कारो मे शिरः पातु श्रीङ्कारः पातु फालकम् ।
ह्रीं बीजं मे ललाटेऽव्यात् क्लीं बीजं भ्रूयुगं मम ॥ १ ॥

ग्लौं बीजं नेत्रयोः पातु गं बीजं पातु नासिकाम् ।
गं बीजं मुखपद्मेऽव्याद्महासिद्धिफलप्रदम् ॥ २ ॥

See Also  Sri Navanita Priya Ashtakam In Sanskrit

णकारो दन्तयोः पातु पकारो लम्बिकां मम ।
तकारः पातु मे ताल्वोर्येकार ओष्ठयोर्मम ॥ ३ ॥

वकारः कण्ठदेशेऽव्याद्रकारश्चोपकण्ठके ।
द्वितीयस्तु वकारो मे हृदयं पातु सर्वदा ॥ ४ ॥

रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम ।
दकार उदरे पातु सकारो नाभिमण्डले ॥ ५ ॥

र्वकारः पातु मे लिङ्गं जकारः पातु गुह्यके ।
नकारः पातु मे जङ्घे मेकारो जानुनोर्द्वयोः ॥ ६ ॥

वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः ।
माकारस्तु सदा पातु दक्षपादाङ्गुलीषु च ॥ ७ ॥

नकारस्तु सदा पातु वामपादाङ्गुलीषु च ।
यकारो मे सदा पातु दक्षपादतले तथा ॥ ८ ॥

स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा ।
हाकारः सर्वदा पातु सर्वाङ्गे गणपः प्रभुः ॥ ९ ॥

पूर्वे मां पातु श्रीरुद्रः श्रीं ह्रीं क्लीं फट् कलाधरः ।
आग्नेय्यां मे सदा पातु ह्रीं श्रीं क्लीं लोकमोहनः ॥ १० ॥

दक्षिणे श्रीयमः पातु क्रीं ह्रं ऐं ह्रीं ह्स्रौं नमः ।
नैरृत्ये निरृतिः पातु आं ह्रीं क्रों क्रों नमो नमः ॥ ११ ॥

पश्चिमे वरुणः पातु श्रीं ह्रीं क्लीं फट् ह्स्रौं नमः ।
वायुर्मे पातु वायव्ये ह्रूं ह्रीं श्रीं ह्स्फ्रें नमो नमः ॥ १२ ॥

उत्तरे धनदः पातु श्रीं ह्रीं श्रीं ह्रीं धनेश्वरः ।
ईशान्ये पातु मां देवो ह्रौं ह्रीं जूं सः सदाशिवः ॥ १३ ॥

See Also  109 Names Of Shree Siddhi Vinayaka – Ashtottara Shatanamavali In English

प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः ।
ऊर्ध्वं मे सर्वदा पातु गं ग्लौं क्लीं ह्स्रौं नमो नमः ॥ १४ ॥

अनन्ताय नमः स्वाहा अधस्ताद्दिशि रक्षतु ।
पूर्वे मां गणपः पातु दक्षिणे क्षेत्रपालकः ॥ १५ ॥

पश्चिमे पातु मां दुर्गा ऐं ह्रीं क्लीं चण्डिका शिवा ।
उत्तरे वटुकः पातु ह्रीं वं वं वटुकः शिवः ॥ १६ ॥

स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः ।
पुनः पूर्वे च मां पातु श्रीमानसितभैरवः ॥ १७ ॥

आग्नेय्यां पातु नो ह्रीं ह्रीं ह्रुं क्रों क्रों रुरुभैरवः ।
दक्षिणे पातु मां क्रौं क्रों ह्रैं ह्रैं मे चण्डभैरवः ॥ १८ ॥

नैरृत्ये पातु मां ह्रीं ह्रूं ह्रौं ह्रौं ह्रीं ह्स्रैं नमो नमः ।
स्वाहा मे सर्वभूतात्मा पातु मां क्रोधभैरवः ॥ १९ ॥

पश्चिमे ईश्वरः पातु क्रीं क्लीं उन्मत्तभैरवः ।
वायव्ये पातु मां ह्रीं क्लीं कपाली कमलेक्षणः ॥ २० ॥

उत्तरे पातु मां देवो ह्रीं ह्रीं भीषणभैरवः ।
ईशान्ये पातु मां देवः क्लीं ह्रीं संहारभैरवः ॥ २१ ॥

ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः ।
अधस्ताद्वटुकः पातु सर्वतः कालभैरवः ॥ २२ ॥

इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनः सुखम् ॥ २३ ॥

जननीजारवद्गोप्या विद्यैषेत्यागमा जगुः ।
अष्टम्यां च चतुर्दश्यां सङ्क्रान्तौ ग्रहणेष्वपि ॥ २४ ॥

See Also  Sri Ganesha Ashtottara Shatanamavalih In Telugu

भौमेऽवश्यं पठेद्धीरो मोहयत्यखिलं जगत् ।
एकावृत्या भवेद्विद्या द्विरावृत्या धनं लभेत् ॥ २५ ॥

त्रिरावृत्या राजवश्यं तुर्यावृत्याऽखिलाः प्रजाः ।
पञ्चावृत्या ग्रामवश्यं षडावृत्या च मन्त्रिणः ॥ २६ ॥

सप्तावृत्या सभावश्या अष्टावृत्या भुवः श्रियम् ।
नवावृत्या च नारीणां सर्वाकर्षणकारकम् ॥ २७ ॥

दशावृत्तीः पठेन्नित्यं षण्मासाभ्यासयोगतः ।
देवता वशमायाति किं पुनर्मानवा भुवि ॥ २८ ॥

कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः ।
देवतादर्शनं सद्यो नात्रकार्या विचारणा ॥ २९ ॥

अर्धरात्रे समुत्थाय चतुर्थ्यां भृगुवासरे ।
रक्तमालाम्बरधरो रक्तगन्धानुलेपनः ॥ ३० ॥

सावधानेन मनसा पठेदेकोत्तरं शतम् ।
स्वप्ने मूर्तिमयं देवं पश्यत्येव न संशयः ॥ ३१ ॥

इदं कवचमज्ञात्वा गणेशं भजते नरः ।
कोटिलक्षं प्रजप्त्वापि न मन्त्रं सिद्धिदो भवेत् ॥ ३२ ॥

पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव सकृत् पठेत् ।
अपिवर्षसहस्राणां पूजायाः फलमाप्नुयात् ॥ ३३ ॥

भूर्जे लिखित्वा स्वर्णस्तां गुटिकां धारयेद्यदि ।
कण्ठे वा दक्षिणे बाहौ सकुर्याद्दासवज्जगत् ॥ ३४ ॥

न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ।
अभक्तेभ्योपि पुत्रेभ्यो दत्वा नरकमाप्नुयात् ॥ ३५ ॥

गणेशभक्तियुक्ताय साधवे च प्रयत्नतः ।
दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ ३६ ॥

इति श्रीदेवीरहस्ये श्रीमहागणपति मन्त्रविग्रहकवचं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Maha Ganapati Mantra Vigraha Kavacham in Lyrics in English » Kannada » Telugu » Tamil