Sri Muruka Ashtakam In Sanskrit

॥ Sri Subrahmanya Ashtakam Sanskrit Lyrics ॥

॥ मुरुकाष्टकम् ॥
ॐ श्री गणेशाय नमः
मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः ।
वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ १ ॥

मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो ।
देवदेव महासेन पाहि पाहि सदा विभो ॥ २ ॥

मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् ।
मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ ३ ॥

मुरुकेण मुकुन्देन मुनीनां हार्दवासिना ।
वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ ४ ॥

मुरुकाय नमः प्रातः मुरुकाय नमो निशि ।
मुरुकाय नमः सायं मुरुकाय नमो नमः ॥ ५ ॥

मुरुकात्परमात्सत्याद्गाङ्गेयाच्छिखिवाहनात् ।
गुहात्परं न जानेऽहं तत्वं किमपि सर्वदा ॥ ६ ॥

मुरुकस्य महेशस्य वल्लीसेनापतेः प्रभोः ।
चिदम्बरविलासस्य चरणौ सर्वदा भजे ॥ ७ ॥

मुरुके देवसेनेशे शिखिवाहे द्विषड्भुजे ।
कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ८ ॥

इति मुरुकाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » Sri Muruga Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Hymn To Nitai Or Nityananda In Odia