Sri Padmanabha Shatakam In Sanskrit

॥ Padmanabha Shatakam Sanskrit Lyrics ॥

॥ श्रीपद्मनाभशतकम् ॥
महाराजा स्वाति तिरुनाळ् विरचितम्
॥ श्री गणेशाय नमः ॥
॥ प्रथमं दशकम् ॥
या ते पादसरोजधूलिरनिशं ब्रह्मादिभिर्निस्पृहैः
भक्त्या सन्नतकन्धरैः सकुतुकं सन्धार्यमाणा हरे ।
या विश्वं प्रपुनाति जालमचिरात् संशोषयत्यंहसां
सा मां हीनगुणं पुनातु नितरां श्रीपद्मनाभान्वहम् ॥ १ ॥

सत्त्वैकप्रवणाशया मुनिवरा वेदैः स्तुवन्तः परैः
त्वन्माहात्म्यपयोनिधेरिहपरं नाद्यापि पारङ्गताः ।
एवं सत्यहमल्पबुद्धिरवशः स्तोतुं कथं शक्नुयां
त्वत्कारुण्यमृते हरे! तरति कः पोतं विना सागरम् ॥ २ ॥

तस्माच्छिन्धि मदीयमोहमखिलं संसारबन्धावहं
भक्तिं त्वत्पदयोर्दिश स्थिरतरां सर्वापदुन्मीलिनीम् ।
वाणीं त्वत्पदवर्णने पटुतमां विद्वज्जनाह्लादिनीं
देहि त्वत्पदसेवकाय ननु मे कारुण्यवारांनिधे ॥ ३ ॥

येनेदं भुवनं ततं स्वबलतो यस्याज्ञयोदेत्यहर्-
नाथो वात्यनिलो दहत्यपि शिखिः सर्वेऽपि यन्निर्मिताः ।
यश्चेदं सकलं जगत्स्वजठरे धत्ते च कल्पावधौ
तत्तादृग्विभवे त्वयि प्रमुदिते किं वा दुरापं नृणाम् ॥ ४ ॥

भक्तानामखिलेप्सितार्थघटने बद्धोद्यमस्त्वं हरे!
नित्यं खल्विति बोद्ध्यमस्ति बहुशो देव! प्रमाणं मम ।
नो चेद्व्यासवचस्तवैव वचनं वेदोपगीतं वचो
हा रथ्याजनवादवद्बत भवेन्मिथ्या रमावल्लभ! ॥ ५ ॥

इन्द्रद्युम्ननृपः करीन्द्रजननं प्राप्तोऽथ शापेन वै
नक्राक्रान्तपदो विमोचनपटुर्नाभूत्सहस्रं समाः ।
भूयस्त्वामयमर्चयन् सरसिजैः शुण्डोद्धृतैः सादरं
सारूप्यं समवाप देव भवतो नक्रोऽपि गन्धर्वताम् ॥ ६ ॥

पापः कश्चिदजामिलाख्यधरणीदेवोऽवसत्सन्ततं
स्वैरिण्या सह काममोहितमतिस्त्वां विस्मरन् मुक्तिदम् ।
अन्ते चाह्वयदीश! भीतहृदयो नारायणेत्यात्मजं
नीतः सोऽपि भवद्भटैस्तवपदं संरुध्य याम्यान् भटान् ॥ ७ ॥

पाञ्चालीं नृपसन्निधौ खलमतिर्दुश्शासनः पुष्पिणीं
आकर्षश्चिकुरेण दीनवदनां वासः समाक्षिप्तवान् ।
यावत्सा भुवनैकबन्धुमवशा सस्मार लज्जाकुला
क्रोशन्ती व्यतनोः पटौघममलं तस्यास्त्वनन्तं हरे ! ॥ ८ ॥

यामार्धेन तु पिङ्गला तव पदं प्राप्ता हि वाराङ्गना
बालः पञ्चवयोयुतो ध्रुवपदं चौत्तानपादिर्गतः ।
यातश्चापि मृकण्डुमौनितनयः शौरे! चिरं जीवितं
नाहं वक्तुमिह क्षमस्तव कृपालभ्यं शुभं प्राणिनाम् ॥ ९ ॥

एवं भक्तजनौघकल्पकतरुं तं त्वां भजन्तः क्षणं
पापिष्ठा अपि मुक्तिमार्गममलं के के न याता विभो! ।
स त्वं मामपि तावकीनचरणे भक्तं विधायानतं
स्यानन्दूरपुरेश! पालय मुदा तापान्ममापाकुरु ॥ १० ॥

॥ द्वितीयं दशकम् ॥
पिबन्ति ये त्वच्चरितामृतौघं
स्मरन्ति रूपं तव विश्वरम्यम् ।
हरन्ति कालं च सह त्वदीयैः
मन्येऽत्र तान् माधव धन्यधन्यान् ॥ १ ॥

सदा प्रसक्तां विषयेष्वशान्तां
मतिं मदीयां जगदेकबन्धो! ।
तवैव कारुण्यवशादिदानीं
सन्मार्गगां प्रेरय वासुदेव! ॥ २ ॥

दृशौ भवन्मूर्तिविलोकलोले
श्रुती च ते चारुकथाप्रसक्ते ।
करौ च ते पूजनबद्धतृष्णौ
विधेहि नित्यं मम पङ्कजाक्ष ! ॥ ३ ॥

नृणां भवत्पादनिषेवणं तु
महौषधं संसृतिरोगहारी ।
तदेव मे पङ्कजनाभ भूयात्
त्वन्मायया मोहितमानसस्य ॥ ४ ॥

यदीह भक्तिस्तवपादपद्मे
स्थिरा जनानामखिलार्तिहन्त्री ।
तदा भवेन्मुक्तिरहो करस्था
धर्मार्थकामाः किमु वर्णनीयाः ॥ ५ ॥
वेदोदिताभिर्व्रतसत्क्रियाभिर्-
नश्यत्यघौघो न हि वासना तु ।
त्वत्पादसेवा हरति द्वयं यत्
तस्मात्स्थिरा सैव ममाशु भूयात् ॥ ६ ॥

त्वदीयनामस्मृतिरप्यकस्माद्
धुनोति पापौघमसंशयं तत् ।
यद्वद्गदानौषधमाशु हन्ति
यथा कृशानुर्भुवि दारुकूटम् ॥ ७ ॥

यद्यत्स्मरन् प्रोज्झति देहमेतत्
प्रयाणकाले विवशोऽत्र देही ।
तत्तत्किलाप्नोति यदन्यभावे
तस्मात्तवैव स्मृतिरस्तु नित्यम् ॥ ८ ॥

अनेकधर्मान् प्रचरन्मनुष्यः
नाके नु भुङ्क्ते सुखमव्यलीकम् ।
तस्यावधौ सम्पततीहभूमौ
त्वत्सेवको जातु न विच्युतः स्यात् ॥ ९ ॥

तस्मात्समस्तार्तिहरं जनानां
स्वपादभाजां श्रुतिसारमृग्यम् ।
तवाद्य रूपं परिपूर्णसत्वं
रमामनोहारि विभातु चित्ते ॥ १० ॥

॥ तृतीयं दशकम् ॥
दिनमनुपदयुग्मं भावयेयं मुरारे
कुलिशशफरमुख्यैश्चिह्निते चारु चिह्नैः ।
नखमणिविधुदीप्त्या ध्वस्तयोगीन्द्रचेतो –
गततिमिरसमूहं पाटलाम्भोजशोभम् ॥ १ ॥

यदुदितजलधारा पावनी जह्नुकन्या
पुरभिदपि महात्मा यां बिभर्ति स्वमूर्ध्ना ।
भुजगशयन! तत्ते मञ्जुमञ्जीरयुक्तं
मुहुरपि हृदि सेवे पादपद्मं मनोज्ञम् ॥ २ ॥

मुरहर! तव जङ्घे जानुयुग्मं च सेवे
दुरितहर तथोरू मांसळौ चारुशोभौ ।
कनकरुचिरचेलेनावृतौ देव! नित्यं
भुवनहृदयमोहं सम्यगाशङ्क्य नूनम् ॥ ३ ॥

मणिगणयुतकाञ्चीदाम सत्किङ्किणीभिः
मुखरतमममेयं भावये मध्यदेशम् ।
निखिलभुवनवासस्थानमप्यद्य कुक्षिं
मुहुरजित! निषेवे सादरं पद्मनाभ! ॥ ४ ॥

भवहरण! तथा श्रीवत्सयुक्तं च वक्षो-
विलसदरुणभासं कौस्तुभेनाङ्ग कण्ठम् ।
मणिवलययुतं ते बाहुयुग्मं च सेवे
दनुजकुलविनाशायोद्यतं सन्ततं यत् ॥ ५ ॥

वरद जलधिपुत्र्या साधु पीतामृतं ते
त्वधरमिह भजेऽहं चारुबिम्बारुणाभम् ।
विमलदशनपङ्क्तिं कुन्दसद्कुड्मलाभां
मकरनिभविराजत्कुण्डलोल्लासि गण्डम् ॥ ६ ॥

See Also  Surya Shatakam In Bengali – Sun God Shatakam

तिलकुसुमसमानां नासिकां चाद्य सेवे
गरुडगमन! चिल्यौ दर्पकेष्वासतुल्यौ ।
मृगमदकृतपुण्ड्रं तावकं फालदेशं
कुटिलमळकजालं नाथ नित्यं निषेवे ॥ ७ ॥

सजलजलदनीलं भावये केशजालं
मणिमकुटमुदञ्चत्कोटिसूर्यप्रकाशम् ।
पुनरनघ! मतिं मे देव! सङ्कोच्य युञ्जे
तव वदनसरोजे मन्दहासे मनोज्ञे ॥ ८ ॥

गिरिधर तव रूपं त्वीदृशं विश्वरम्यं
मम विहरतु नित्यं मानसाम्भोजमध्ये ।
मनसिजशतकान्तं मञ्जुमाधुर्यसारं
सततमपि विचिन्त्यं योगिभिः त्यक्तमोहैः ॥ ९ ॥

अथ भुवनपतेऽहं सर्गवृद्धिक्रमं वै
किमपि किमपि वक्तुं प्रारभे दीनबन्धो ।
परपुरुष! तदर्थं त्वत्कृपा सम्पतेन्म-
य्यकृतसुकृतजालैर्दुर्लभा पङ्कजाक्ष ! ॥ १० ॥

॥ चतुर्थं दशकम् ॥
तावकनाभिसरोजात्
जातो धाता समस्तवेदमयः ।
शंसति सकलो लोको
यं किल हिरण्यगर्भ इति ॥ १ ॥

तदनु स विस्मितचेताः
चतसृषु दिक्षु साधु सम्पश्यन् ।
समगादच्युत तूर्णं
चतुराननतामिहाष्टनयनयुताम् ॥ २ ॥

दृष्ट्वा कमलं सोऽयं
तन्मूलां तव तनुं त्वसम्पश्यन् ।
कोऽहं निश्शरणोऽजं
कस्मादजनीति देव! चिन्तितवान् ॥ ३ ॥

ज्ञातुं तत्वं सोऽयं
सरसिजनाळाध्वना त्वधो गत्वा ।
योगबलेन मनोज्ञां
तव तनुमखिलेश! नाप्यपश्यदहो ॥ ४ ॥

तावद्दुखितहृदयः
पुनरपि च निवृत्य पूर्ववज्जलजे ।
तावक करुणामिच्छन्
चक्रे समाधिमयि! भगवन् ॥ ५ ॥

वत्सरशतकस्यान्ते
दृढतरतपसा परिविधूतहृदयमलः ।
स विधिरपश्यत्स्वान्ते
सूक्ष्मतया तव तनुं तु सुभगतमाम् ॥ ६ ॥

पुनरिह तेन नुतस्त्वं
शक्तिमदास्तस्य भुवननिर्माणे ।
पूर्वं त्वसृजत्सोऽयं
स्थावरजङ्गममयं तु सकलजगत् ॥ ७ ॥

सनकमुखान् मुनिवर्यान्
मनसाह्यसृजत्तवाङ्घ्रिरतहृदयान् ।
सृष्टौ तु ते नियुक्ताः
जगृहुर्वाणीं न वैधसीं भूमन्! ॥ ८ ॥

अङ्गादभवंस्तूर्णं
नारदमुख्या मुनीश्वरास्तस्य ।
मनुशतरूपात्मासौ
मानुषसृष्टिं चकार कमलभवः ॥ ९ ॥

सर्गस्थितिलयमूलं
सुरमुनिजालैरमेयमहिमानम् ।
तं त्वामेव प्रणमन्
मुदमतुलां पद्मनाभ! कलयामि ॥ १० ॥

॥ पञ्चमं दशकम् ॥
भुवो भारं हर्तुं नियतमवतारांस्तु भवतो
नियुङ्क्ते वक्तुं मामपि जडधियं भक्तिरधुना ।
तदर्थं कृत्वा मामनुपमपटुं पालय हरे
भवत्पादाम्भोजप्रवणहृदयं देव सदयम् ॥ १ ॥

हयग्रीवाख्येन त्रिदशरिपुणा वेदनिवहे
हृते निद्राणस्याम्बुरुहजनुषो हन्त वदनात् ।
निहन्तुं दुष्टं तं विनिहितमतिस्त्वं पुरुदया-
पयोधिस्तूर्णं वै दधित बत मात्स्यं किल वपुः ॥ २ ॥

नदीतोये सन्तर्पयति किल सत्यव्रतनृपे
भवान् दृष्टो हस्ते परमतनुवैसारिणवपुः ।
ततो निन्ये कूपं पुनरपि तटाकं च तटिनीं
महाब्धिं तेनाहो सपदि ववृधे तावक वपुः ॥ ३ ॥

ततस्तं भूपालं प्रलयसमयालोकनपरं
मुनीन्द्रान् सप्तापि क्षितितरणिमारोप्य च भवान् ।
समाकर्षन् बद्धां निज विपुलश‍ृङ्गे पुनरिमां
मुदा तेभ्यः सन्दर्शितभुवनभागः समचरत् ॥ ४ ॥

पुनस्संहृत्य त्वं निजपरुषश‍ृङ्गेण दितिजं
क्षणाद्वेदान् प्रादा मुदितमनसे देव विधये ।
तथाभूताऽमेयप्रणतजनसौभ्याग्यद! हरे!
मुदा पाहि त्वं मां सरसिरुहनाभाऽखिलगुरो! ॥ ५ ॥

वहंस्त्वं मन्थानं कमठवपुषा मन्दरगिरिं
दधानः पाणिभ्यां स्वयमपि वरत्रां फणिपतिम् ।
सुरेभ्यः सम्प्रदास्त्वमृतमिह मथ्नन् किल जवात्
हरे दुग्धाम्भोधेः सपदि कमलाऽजायत ततः ॥ ६ ॥

ततो निक्षिप्ता वै सपदि वरणस्रक् खलु तया
भवत्कण्ठे मात्रा निखिलभुवनानां सकुतुकम् ।
पपौ त्वत्प्रीत्यर्थं सपदि बत हालाहलविषं
गिरीशः प्रादास्त्वं सुरतरुगजादीनि हरये ॥ ७ ॥

पुरा ते द्वास्थौ द्वौ सनकमुखशापेन तु गतौ
हरे! सर्वैर्निन्द्यं खलु दनुजजन्मातिकठिनम् ।
तयोर्भ्राता दुष्टो मुरहर कनीयान् वरबलात्
हिरण्याक्षो नाम क्षितिमिह जले मज्जयदसौ ॥ ८ ॥

महीं मग्नां दृष्ट्वा तदनु मनुना सेवितपदात्
विधेर्नासारन्ध्रात्समभवदहो सूकरशिशुः ।
ततो दैत्यं हत्वा परममहितः पीवरतनुः
भवान् निन्ये भूमिं सकलविनुत प्राक्तनदशाम् ॥ ९ ॥

वधेन स्वभ्रातुः परमकुपितो दानववरो
हिरण्यप्रारम्भः कशिपुरिह मोहाकुलमतिः ।
विजेतुं त्वां सोऽयं निखिलजगदाधारवपुषं
प्रतिज्ञां चाकार्षीद्दनुसुतसभामध्यनिलयः ॥ १० ॥

॥ षष्ठं दशकम् ॥
पुत्रोऽस्य वै समजनीह तवाङ्घ्रिभक्तः
प्रह्लाद इत्यभिमतः खलु सज्जनानाम् ।
तं तत्पिता परमदुष्टमतिर्न्यरौत्सीत्
त्वत्सेविनं किमिह दुष्करमीश पापैः ॥ १ ॥

भूयोऽपि सोऽथ जगदीश्वर! गर्भवासे
श्रीनारदेन मुनिनोक्तभवत्प्रभावः ।
शुश्राव नो जनकवाक्यमसौ तदानीं
तत्प्रेरितैर्गुरुजनैरपि शिक्षितश्च ॥ २ ॥

दृष्ट्वा पिताऽस्य निजपुत्रमतिं त्वकम्पां
त्वत्पादपद्मयुगळादतिरुष्टचेताः ।
शूलैश्च दिग्गजगणैरपि दन्तशूकैः
एनं निहन्तुमिह यत्नशतं चकार ॥ ३ ॥

सोऽयं दृढं तव कृपाकवचावृताङ्गः
नो किञ्चिदाप किल देहरुजामनन्त ! ।
“कस्ते बलं खल! वदे”त्यथ देव ! पृष्टो
“लोकत्रयस्य तु बलं हरि”रित्यवादीत् ॥ ४ ॥

See Also  Devyashtakam In Sanskrit

स्तम्भे विघट्टयति कुत्र हरिस्तवेति
रूपं ततः समभवत्तव घोरघोरम् ।
नो वा मृगात्म न नरात्म च सिंहनाद-
सन्त्रासिताखिलजगन्निकरान्तराळम् ॥ ५ ॥

तूर्णं प्रगृह्य दनुजं प्रणिपात्य चोरौ
वक्षो विदार्य नखरैः रुधिरं निपीय ।
पादाम्बुजैकनिरतस्य तु बालकस्य
कायाधवस्य शिरसि स्वकरं न्यधास्त्वम् ॥ ६ ॥

एवं स्वभक्तजनकामितदानलोल !
निर्लेप! निर्गुण! निरीह! समस्तमूल ! ।
मां पाहि तावक पदाब्जनिविष्टचित्तं
श्रीपद्मनाभ! परपूरष! ते नमस्ते ॥ ७ ॥

दृष्टो भवानदितिजो वटुरूपधारी
दैत्याधिपेन बलिना निज यज्ञगेहे ।
पृष्टश्च तेन “किमु वाञ्छसि बालके”ति
पादत्रयी प्रमितभूमितलं ययाचे ॥ ८ ॥

युग्मेन देव! चरणस्य तु सर्वलोके
पूर्णे तृतीयचरणं त्ववशः प्रदातुम् ।
बद्धश्च देहि मम मूर्ध्नि तृतीयपादं
इत्यब्रवीद्गतमदोऽनुगृहीत एषः ॥ ९ ॥

जातोऽसि देव! जमदग्निसुतो महात्मा
त्वं रेणुकाजठर ईश्वर! भार्गवाख्यः ।
शम्भुप्रसाद! सुगृहीतवरास्त्रजालः
कृत्ताखिलारिनिकरोरुकुठारपाणिः ॥ १० ॥

॥ सप्तमं दशकम् ॥
याञ्चाभिस्त्वं खलु दिविषदां रावणोपद्रुतानां
पुत्रीयेष्ट्या फलविलसितं मानवे देव! वंशे ।
जातो रामो दशरथनृपाल्लक्ष्मणेनानुजेन
भ्रात्रा युक्तो वरद! भरतेनाथ शत्रुघ्ननाम्ना ॥ १ ॥

धृत्वा चापं सहजसहितः पालयन् कौशिकीयं
यज्ञं मारीचमुखसुमहाराक्षसेभ्यः परं त्वम् ।
कृत्वाऽहल्यां चरणरजसा गौतमस्येश! पत्नीं
भित्वा शैवं धनुरथ तदा लब्धवांश्चापि सीताम् ॥ २ ॥

मध्येमार्गागत भृगुपतिं देव! जित्वाऽतिरुष्टं
भूयो गत्वा परम! नगरीं स्वामयोध्यां वसंस्त्वम् ।
कैकेयीवाग्भ्रमितमनसो हन्त तातस्य वाचा
त्यक्त्वा राज्यं विपिनमगमो दुःखिताशेषलोकः ॥ ३ ॥

गत्वाऽरण्यं सह दयितया चाथ सौमित्रिणा त्वं
गङ्गां तीर्त्वा सुसुखमवसच्चित्रकूटाख्यशैले ।
तत्र श्रुत्वा भरतवचनात्तातमृत्युं विषण्णः
तस्मै प्रादा वरद! धरणिं पादुकां चात्मनस्त्वम् ॥ ४ ॥

भूयो हत्वा निशिचरवरान् द्राग्विराधादिकांस्त्वं
कुम्भोद्भूतेन खलु मुनिना दत्तदिव्यास्त्रजालः ।
भ्रातृच्छिन्नश्रवणविनदच्छूर्पणख्या वचोभिः
त्वायातांस्तान् खरमुखमहाराक्षसान् प्रावधीश्च ॥ ५ ॥

मारीचं तं कनकहरिणछद्मनायातमारात्
जायावाक्यादलमनुगतः प्रावधीः सायकेन ।
तावद्भूमन्! कपटयतिवेषोऽथ लङ्काधिनाथः
सीतादेवीमहरत तदा दुःखितात्माऽभवस्त्वम् ॥ ६ ॥

दृष्ट्वा लङ्केश्वरविनिहतं तातमित्रं जटायुं
तस्याऽथ त्वं वरद कृतवान् प्रेतकार्यं विषण्णः ।
दृष्टस्तत्राऽनुपम! भवता मारुतिर्भक्तवर्यः
भूयस्तुष्टः सरसमकरोः साधु सुग्रीवसख्यम् ॥ ७ ॥

छित्वा सालान् सरसमिषुणा सप्तसङ्ख्यान् क्षणेन
व्याजेन त्वं बत निहतवान् बालिनं शक्रसूनुम् ।
भूयोऽन्वेष्टुं जनकतनयां दिक्षु सम्प्रेष्य कीशान्
सुग्रीवोक्तान् पवनजकरे दत्तवांश्चाङ्गुलीयम् ॥ ८ ॥

दृष्ट्वा सीतां निशिचरगृहे तावकं देव! वृत्तं
कृत्स्नं तूक्त्वाप्यविदित भवते मारुतिर्मौलिरत्नम् ।
तुष्टस्तावत्किल जलनिधौ बाणवित्रासिते त्वं
सेतुं बद्ध्वा निशिचरपुरं यातवान् पद्मनाभ! ॥ ९ ॥

हत्वा युद्धे किल दशमुखं देव! सामात्यबन्धुं
सीतां गृह्णन् परिहृतमलां पुष्पके राजमानः ।
प्राप्यायोध्यां हरिवरनिषादेन्द्रयुक्तोऽभिषिक्तः
त्राताशेषो रहितदयितश्चागमोऽन्ते स्वधिष्ण्यम् ॥ १० ॥

॥ अष्टमं दशकम् ॥
देव! दुष्टजनौघभरेण
व्याकुलाऽथ वसुधाम्बुजयोनिम् ।
प्राप्य देवनिकरैः श्रितपादं
स्वीयतापमिह सम्यगुवाच ॥ १ ॥

पद्मभूरथ निशम्य च तापं
चिन्तयन् सपदि देव! भवन्तम् ।
युष्मदीय सकलाधिहरः श्री
पद्मनाभ इति तानवदत्सः ॥ २ ॥

भूय एत्य तव मन्दिरमेते
हीनपुण्यनिकरैरनवाप्यम् ।
तुष्टुवुः सविबुधो द्रुहिणस्त्वां
तापमाश्वकथयद्वसुधायाः ॥ ३ ॥

“संभवामि तरसा यदुवंशे
यादवाः किल भवन्त्विह देवाः” ।
एवमीश! कथिते तव वाक्ये
वेधसा किल सुरा मुदमापन् ॥ ४ ॥

रोहिणीजठरतः किल जातः
प्रेरणात्तव परं त्वहिराजः ।
त्वं च विश्वगतकल्मषहारी
देवकीजठरमाशु निविष्टः ॥ ५ ॥

अर्धरात्रसमये तु भवन्तं
देवकी प्रसुषुवेऽधिकधन्या ।
शङ्खचक्रकमलोरुगदाभी –
राजितातिरुचिबाहुचतुष्कम् ॥ ६ ॥

तावदीश! सकलो बत लोको
तुष्टिमाप तमृते किल कंसम् ।
अष्टमः किल सुतोऽथ भगिन्या-
स्तद्वधं कलयतीति च वाक्यात् ॥ ७ ॥

बाष्पपूर्णनयनो वसुदवो
नीतवान् व्रजपदेऽथ भवन्तम् ।
तत्र नन्दसदने किल जाता –
मम्बिकामनयदात्मनिकेतम् ॥ ८ ॥

कंस एत्य किल सूतिगृहे ते
कन्यकां तु शयितां स निशाम्य ।
नूनमेवमजितस्य तु माया
सेयमित्ययमतुष्टिमयासीत् ॥ ९ ॥

तूर्णमेष निधने निरतांस्ते
पूतनाशकटधेनुकमुख्यान् ।
प्राहिणोदजित! मन्दमतिस्तान्
दुष्करं किमिह विस्मृतपापैः ॥ १० ॥

॥ नवमं दशकम् ॥
एवं घोषे विराजत्ययि! भवति जगन्नेत्रपीयूषमूर्तौ
दुष्टा काचिन्निशाचर्यथ समधिगता चारुयोषित्स्वरूपा ।
स्तन्यं दातुं कुचाग्रं तवमुखजलजे देव! चिक्षेप यावत्
तावत्क्षीरं सजीवं कपटशिशुरहो पीतवांस्त्वं क्षणेन ॥ १ ॥

See Also  Sri Hanuman Chalisa In Sanskrit

भूयः शौरे! व्रजे वै शकटदनुसुत प्राप्तवान् संहृतोऽयं
वातात्मा दानवश्च प्रवितत धरणीभारनाशेन कृत्तः ।
दृष्ट्वैवं ते महत्वं दनुजहृतिचणं तादृशीं बाललीलां
त्वन्मायामोहितत्वादयि! बत! पशुपा विस्मयं मोदमापन् ॥ २ ॥

नन्दः पश्यन् कदाचिन्निजनिलयगतं यादवाचार्यवर्यं
गर्गं ते कारयामास च विधिवदसौ नाम कृष्णेति तेन ।
रामाख्यां सोदरे ते मुनिरथ कलयन् वैभवं च त्वदीयं
नन्दादिभ्यः प्रशंसन् निजपदमिह सम्प्राप्तवान् भक्तवर्यः ॥ ३ ॥

दृष्टं मात्रा समस्तं जगदिह वदने मृत्तिकाभक्षणं ते
व्याकुर्वन्त्या शिशूनामथ वचनवशात्किं त्वितो हन्त चित्रम् ।
भूयस्तूर्णं भवान् मङ्गळगुण! गतवान्देव! वृन्दावनं तत्
युष्मद्गात्रोरुशोभा प्रतुलित यमुनातीरसंस्थं मनोज्ञम् ॥ ४ ॥

वन्याशं त्वय्यधीशे कलयति तरसा श्रीधराहो विरिञ्चो
गोपान् वत्सान् त्वदीयानहरदयि! विभो! तावदेव स्वरूपम् ।
सङ्ख्याहीनं परं त्वामपि कबळधरं वीक्ष्य सम्भ्रान्तचेताः
त्वत्पादाब्जे पतित्वा मुहुरपि भगवन्नस्तवीदच्युतं त्वाम् ॥ ५ ॥

सर्पं तोये निमग्नं परमसुकुटिलं काळियं वीक्ष्य शौरे!
नृत्यन् नृत्यन् फणे त्वं तदनु गतमदं चाकरोस्तं गतं च ।
भूयस्त्वद्वेणुगानादजित! जगदलं मोहितं सर्वमासीत्
योषिच्चित्तापहारे निपुणमिदमिति श्रीश! किं वर्णनीयम् ॥ ६ ॥

धृत्वा गोवर्धनं त्वं गिरिमलमतनोर्वासवं वीतगर्वं
योषिद्भिस्त्वं सलीलं रजनिषु कृतवान् रासकेळिं मनोज्ञाम् ।
भक्ताग्र्यं गान्दिनेयं तव खलु निकटे प्रेषयामास कंसः
हत्वेभेन्द्रं च मल्लान् यदुवर! सबलो मातुलं चावधीस्त्वम् ॥ ७ ॥

गत्वा सान्दीपनिं त्वं कतिपयदिवसैः ज्ञातवान् सर्वविद्याः
कृत्वा राज्ये नरेन्द्रं विमलतमगुणं चोग्रसेनं जवेन ।
राजानं धर्मसूनुं चरणरतमवन् चैद्यमुख्यादिहन्ता
रुग्मिण्याद्यष्टयोषायुतबहुवनिताश्चारमो द्वारकायाम् ॥ ८ ॥

विप्रं निस्स्वं कुचेलं सदनमुपगतं बाल्यकालैकमित्रं
पश्यन् कारुण्यलोलः पृथुकमिह करात्तस्य सङ्गृह्य तूर्णम् ।
लक्ष्मीसंवारितोऽपि स्वयमपरिमितं वित्तमस्मै ददानः
कारुण्याम्भोनिधिस्त्वं जय जय भगवन्! सर्वलोकाधिनाथ! ॥ ९ ॥

यावद्वृद्धिः कलेर्वै भवति बत तदा कल्किरूपोऽतिहीनान्
म्लेच्छान् धर्मैकशत्रून् भरितपुरुरुषा नाशयिष्यत्यशान्तान् ।
स त्वं सत्वैकतानां मम मतिमनिशं देहि शौरे! तदर्थं
त्वत्पादाब्जे पतित्वा मुहुरहमवशः प्रार्थये पद्मनाभ! ॥ १० ॥

॥ दशमं दशकम् ॥
भूषणेषु किल हेमवज्जगति मृत्तिकावदथवा घटे
तन्तुजालवदहो पटेष्वपि राजिताद्वयरसात्मकम् ।
सर्वसत्वहृदयैकसाक्षिणमिहातिमाय निजवैभवं
भावयामि हृदये भवन्तमिह पद्मनाभ! परिपाहि माम् ॥ १ ॥

चिन्मयाम्बुनिधिवीचिरूप! सनकादिचिन्त्यविमलाकृते !
जातिकर्मगुणभेदहीन! सकलादिमूल! जगतां गुरो ! ।
ब्रह्मशङ्करमुखैरमेयविपुलानुभाव! करुणानिधे!
भावयामि हृदये भवन्तमिह पद्मनाभ! परिपाहि माम् ॥ २ ॥

माययावृततनुर्बहिः सृजसि लोकजालमखिलं भवान्
स्वप्नसन्निभमिदं पुनस्सपदि संहरन्निजबलादहो! ।
हन्त! कूर्म इव पादमात्मनि तु धारयत्यथ यदा तदा
दारुणे तमसि विस्तृते वितिमिरो लसत्यनिशमात्मना ॥ ३ ॥

देवदेव! तनुवाङ्मनोभिरिह यत्करोमि सततं हरे!
त्वय्यसावहमर्पयाम्यखिलमेतदीश! परितुष्यताम् ।
त्वत्पदैकमतिरन्त्यजोऽपि खलु लोकमीश्वर! पुनात्यहो!
नो रमेश! विमुखाशयो भवति विप्रजातिरपि केवलम् ॥ ४ ॥

पाप एष किल गूहितुं निज दुश्चरित्रमिह सर्वदा
कृष्ण! राम! मधुसूदनेत्यनिशमालपत्यहह! निष्फलम् ।
एवमीश! तव सेवको भवति निन्दितः खलजनैः कलौ
तादृशं त्वनघ! मा कृथा वरद! मामसीमतमवैभव! ॥ ५ ॥

कस्तु लोक इह निर्भयो भवति तावकं किल विना पदं
सत्यलोकवसति स्थितोऽपि बत न स्थिरो वसति पद्मभूः ।
एवमीश सति का कथा परम! पापिनां तु निरयात्मनां
तन्मदीय भवबन्धमोहमयि! खण्डयाऽनघ! नमोऽस्तु ते ॥ ६ ॥

भावयन्ति हि परे भवन्तमयि! चारु बद्धविमलासनाः
नासिकाग्रधृतलोचना परम! पूरकादिजितमारुताः ।
उद्गताग्रमथ चित्तपद्ममयि! भावयन्त इह सादरं
भानुसोमशिखिमण्डलोपरि तु नीलनीरदसमप्रभम् ॥ ७ ॥

श्लक्ष्णनीलकुटिलाळकं मकरकुण्डलद्युतिविराजितं
मन्दहासहृतसर्वलोकविपुलातिभारमतिमोहनम् ।
कौस्तुभेन वनमालयापि च विराजितं मदनसुन्दरं
काञ्चनाभवसनं भवन्तमयि! भावयन्ति हृतकल्मषाः ॥ ८ ॥

ज्ञानमीश! बत! कर्म भक्तिरपि तत्त्रयं भवदवापकं
ज्ञानयोगविषयेऽधिकार इह वै विरक्तजनताहितः ।
कर्मणीह तु भवेन्नृणामधिकसक्तमानसजुषां हरे!
ये तु नाधिकविरक्तसक्तहृदया हि भक्तिरयि! तद्धिता ॥ ९ ॥

देव! वैभवमजानताद्य तव यन्मया निगदितं हरे!
क्षम्यतां खलु समस्तमेतदिह मोदमीश! कुरु तावके ।
दीर्घमायुरयि! देहसौख्यमपि वर्धतां भवदनुग्रहात्
पङ्कजाभनयनापदो दलय पद्मनाभ! विजयी भव! ॥ १० ॥

॥ इति महाराजा स्वाति तिरुनाळ् विरचितं पद्मनाभशतकम् ॥

– Chant Stotra in Other Languages –

Hind Shataka » Sri Padmanabha Shatakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil