Sri Varada Ganesha Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Varada Ganesha Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम् ॥
गणेशो विघ्नराजश्च विघ्नहर्ता गणाधिपः ।
लम्बोदरो वक्रतुण्डो विकटो गणनायकः ॥ १ ॥

गजास्यः सिद्धिदाता च खर्वो मूषकवाहनः ।
मूषको गणराजश्च शैलजानन्ददायकः ॥ २ ॥

गुहाग्रजो महातेजाः कुब्जो भक्तप्रियः प्रभुः ।
सिन्दूराभो गणाध्यक्षस्त्रिनेत्रो धनदायकः ॥ ३ ॥

वामनः शूर्पकर्णश्च धूम्रः शङ्करनन्दनः ।
सर्वार्तिनाशको विज्ञः कपिलो मोदकप्रियः ॥ ४ ॥

सङ्कष्टनाशनो देवः सुरासुरनमस्कृतः ।
उमासुतः कृपालुश्च सर्वज्ञः प्रियदर्शनः ॥ ५ ॥

हेरम्बो रक्तनेत्रश्च स्थूलमूर्तिः प्रतापवान् ।
सुखदः कार्यकर्ता च बुद्धिदो व्याधिनाशकः ॥ ६ ॥

इक्षुदण्डप्रियः शूरः क्षमायुक्तोऽघनाशकः ।
एकदन्तो महोदारः सर्वदा गजकर्षकः ॥ ७ ॥

विनायको जगत्पूज्यः फलदो दीनवत्सलः ।
विद्याप्रदो महोत्साहो दुःखदौर्भाग्यनाशकः ॥ ८ ॥

मिष्टप्रियो फालचन्द्रो नित्यसौभाग्यवर्धनः ।
दानपूरार्द्रगण्डश्च अंशको विबुधप्रियः ॥ ९ ॥

रक्ताम्बरधरः श्रेष्ठः सुभगो नागभूषणः ।
शत्रुध्वंसी चतुर्बाहुः सौम्यो दारिद्र्यनाशकः ॥ १० ॥

आदिपूज्यो दयाशीलो रक्तमुण्डो महोदयः ।
सर्वगः सौख्यकृच्छुद्धः कृत्यपूज्यो बुधप्रियः ॥ ११ ॥

सर्वदेवमयः शान्तो भुक्तिमुक्तिप्रदायकः ।
विद्यावान्दानशीलश्च वेदविन्मन्त्रवित्सुधीः ॥ १२ ॥

See Also  Sri Ganapati Atharvashirsha Upanishat In English

अविज्ञातगतिर्ज्ञानी ज्ञानिगम्यो मुनिस्तुतः ।
योगज्ञो योगपूज्यश्च फालनेत्रः शिवात्मजः ॥ १३ ॥

सर्वमन्त्रमयः श्रीमान् अवशो वशकारकः ।
विघ्नध्वंसी सदा हृष्टो भक्तानां फलदायकः ॥ १४ ॥

इदं स्तोत्रं गणेशस्य पठेच्च सादरं नरः ।
तस्य वाञ्छितकामस्य सिद्धिर्भवति निश्चितम् ॥ १५ ॥

इति श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम् ।

– Chant Stotra in Other Languages –

Sri Ganesha Astottarasatanama » Sri Varada Ganesha Ashtottara Shatanama Stotram in Lyrics in English » Kannada » Telugu » Tamil