॥ Mantra Pushpam Sanskrit Lyrics ॥
॥ मन्त्रपुष्पम् ॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
ओं स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् ।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् ।
वि॒श्वत॒: पर॑मं नि॒त्य॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ।
पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् ।
ना॒राय॒णः प॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
ना॒राय॒णः प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः ।
ना॒राय॒णः प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ।
यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः ।
अन॑न्त॒मव्य॑यं क॒विग्ं स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒श प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् ।
अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ।
सन्त॑तग्ं सि॒राभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् ।
तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ।
स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑ता ।
नी॒लतो॑यद॑मध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ।
तस्या᳚: शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिव॒: (स हरि॒:) सेन्द्र॒: सोऽक्ष॑रः पर॒मः स्व॒राट् ॥
यो॑ऽपां पुष्पं॒ वेद॑ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥
किं तद्विष्णोर्बलमाहुः का दीप्तिः किं परायणं
एको यद्धारयद्देवः रेजती रोदसी उभे
वाताद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यते
त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् ।
[** पाठभेदः **
आत॑नुष्व॒ प्रत॑नुष्व ।
उ॒द्धमाऽऽध॑म॒ सन्ध॑म ।
आदित्ये चन्द्र॑वर्णा॒नाम् ।
गर्भ॒माधे॑हि॒ यः पुमान्॑ ।
इ॒तस्सि॒क्तग्ं सूर्य॑गतम् ।
च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वारादञ्जन॑याग्रे॒ऽग्निम् ।
य एको॑ रुद्र॒ उच्य॑ते ॥ **]
ओं रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒रा॒जाय॒ नम॑: ॥
ओं᳚ तद्ब्र॒ह्म ओं᳚ तद्वा॒युः ओं᳚ तदा॒त्मा
ओं᳚ तत्स॒त्यं ओं᳚ तत्सर्वम्᳚ ओं᳚ तत्पुरो॒र्नम॑: ।
अन्तश्चरति॑ भूते॒षु॒ गु॒हायां वि॑श्वमू॒र्तिषु ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वग्ं रुद्रस्त्वं
विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः ।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒
ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
तद्विष्णो᳚: पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रय॑: ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वां स॒स्समि॑न्धते ।
विष्णो॒र्यत्प॑र॒मं प॒दम् ।
ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॑: ।
ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
[** पाठभेदः **
ओं पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि ।
तन्नः षण्मुखः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।
तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥
ओं वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि ।
तन्नो॑ ब्रह्म प्रचो॒दया᳚त् ॥
ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ओं व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ग्ंष्ट्राय॑ धीमहि ।
तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥
ओं भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥
ओं वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय धीमहि ।
तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥
ओं का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥
स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा ।
स॒र्वग्ंहरतु॑ मे पा॒पं॒ दू॒र्वा दु॑:स्वप्न॒नाशि॑नी ॥
काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुष॒: परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।
तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
अश्वक्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा ।
शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ **]
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥
ओं शान्तिः शान्तिः शान्तिः ॥