Shri Shanmukha Dandakam In Sanskrit

॥ Shri Shanmukha Dandakam Sanskrit Lyrics ॥ ॥ श्री षण्मुख दण्डकम् ॥श्रीपार्वतीपुत्र, मां पाहि वल्लीश, त्वत्पादपङ्केज सेवारतोऽहं, त्वदीयां नुतिं देवभाषागतां कर्तुमारब्धवानस्मि, सङ्कल्पसिद्धिं कृतार्थं कुरु त्वम् । भजे त्वां सदानन्दरूपं, महानन्ददातारमाद्यं, परेशं, कलत्रोल्लसत्पार्श्वयुग्मं, वरेण्यं, विरूपाक्षपुत्रं, सुराराध्यमीशं, रवीन्द्वग्निनेत्रं, द्विषड्बाहु संशोभितं, नारदागस्त्यकण्वात्रिजाबालिवाल्मीकिव्यासादि सङ्कीर्तितं, देवराट्पुत्रिकालिङ्गिताङ्गं, वियद्वाहिनीनन्दनं, विष्णुरूपं, महोग्रं, उदग्रं, सुतीक्षं, महादेववक्त्राब्जभानुं, पदाम्भोजसेवा समायात भक्तालि संरक्षणायत्त चित्तं, उमा शर्व गङ्गाग्नि … Read more

Shadanana Ashtakam In Sanskrit

॥ Shadanana Ashtakam Sanskrit Lyrics ॥ ॥ षडाननाष्टकम् ॥अगस्तिरुवाच ।नमोऽस्तु वृन्दारकवृन्दवन्द्य-पादारविन्दाय सुधाकराय ।षडाननायामितविक्रमायगौरीहृदानन्दसमुद्भवाय ॥ १ ॥ नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रेकर्त्रे समस्तस्य मनोरथानाम् ।दात्रे रथानां परतारकस्यहन्त्रे प्रचण्डासुर तारकस्य ॥ २ ॥ अमूर्तमूर्ताय सहस्रमूर्तयेगुणाय गुण्याय परात्पराय ।अपारपाराय परापरायनमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥ नमोऽस्तु ते ब्रह्मविदां वरायदिगम्बरायाम्बर संस्थिताय ।हिरण्यवर्णाय हिरण्यबाहवेनमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥ तपःस्वरूपाय तपोधनायतपःफलानां प्रतिपादकाय … Read more

Shadanana Stuti In Sanskrit

॥ Shadanana Stuti Sanskrit Lyrics ॥ ॥ षडानन स्तुतिः ॥श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुग–व्यूढं विष्णुपदीपयः शरवणे सम्भूतमन्यादृशम् ।षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतयेशर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ १ ॥ त्रिषडकृशदृगब्जः षण्मुखाम्भोरुहश्रीःद्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः ।शिखिवरमधिरूढः शिक्षयन् सर्वलोकान्कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ २ ॥ यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यंयच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् ।षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भातिस्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ ३ ॥ यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्नाधर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि … Read more

Saravanabhava Mantrakshara Shatkam In Sanskrit

॥ Saravanabhava Mantrakshara Shatkam Sanskrit Lyrics ॥ ॥ शरवणभव मन्त्राक्षर षट्कम् ॥शक्तिस्वरूपाय शरोद्भवायशक्रार्चितायाथ शचीस्तुताय ।शमाय शम्भुप्रणवार्थदायशकाररूपाय नमो गुहाय ॥ १ ॥ रणन्मणिप्रोज्ज्वलमेखलायरमासनाथप्रणवार्थदाय ।रतीशपूज्याय रविप्रभायरकाररूपाय नमो गुहाय ॥ २ ॥ वराय वर्णाश्रमरक्षकायवरत्रिशूलाभयमण्डिताय ।वलारिकन्यासुकृतालयायवकाररूपाय नमो गुहाय ॥ ३ ॥ नगेन्द्रकन्येश्वरतत्त्वदायनगाधिरूढाय नगार्चिताय ।नगासुरघ्नाय नगालयायनकाररूपाय नमो गुहाय ॥ ४ ॥ भवाय भर्गाय भवात्मजायभस्मायमानाद्भुतविग्रहाय ।भक्तेष्टकामप्रदकल्पकायभकाररूपाय नमो गुहाय ॥ ५ ॥ … Read more

Saravana Bhava Devasenesha Shatkam In Sanskrit

॥ Saravana Bhava Devasenesha Shatkam Sanskrit Lyrics ॥ ॥ शरवणभव देवसेनेश षट्कम् ॥करतलराजच्छक्ते स्वरदपराभूतकुन्दसुमगर्व ।सुरवरनिषेविताङ्घ्रे शरवणभव पाहि देवसेनेश ॥ १ ॥ तटिदाभदेहकान्ते कटिविलसत्पीतवर्णकौशेय ।पाटितशूरासुर भो शरवणभव पाहि देवसेनेश ॥ २ ॥ नीलग्रीवतनूद्भव बालदिनेशानकोटिनिभदेह ।कालप्रतिभटमोदद शरवणभव पाहि देवसेनेश ॥ ३ ॥ पदजितपङ्कज पङ्कजभवपङ्कजनेत्रमुख्यसुरवन्द्य ।पदवीं प्रापय महतीं शरवणभव पाहि देवसेनेश ॥ ४ ॥ तारकदैत्यनिवारक तारापतिगर्वहारिषड्वक्त्र ।तारक भवाम्बुराशेः … Read more

Pragya Vivardhana Karthikeya Stotram In Sanskrit

॥ Pragya Vivardhana Karthikeya Stotram Sanskrit Lyrics ॥ ॥ प्रज्ञाविवर्धन कार्तिकेय स्तोत्रम् ॥स्कन्द उवाच ।योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥ १ ॥ गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥ २ ॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥ ३ ॥ शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः ॥ ४ ॥ अष्टाविंशतिनामानि मदीयानीति … Read more

Shri Dandayudhapani Swamy Ashtakam In Sanskrit

॥ Shri Dandayudhapani Swamy Ashtakam Sanskrit Lyrics ॥ ॥ श्री दण्डायुधपाण्यष्टकम् ॥यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे–णानीते फलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः ।आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत्श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ १ ॥ श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैःनानादेशसमागतैरगणितैर्यः कावडीसम्भृतैः ।भक्तौघैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात्श्रीदण्डायुधपाणिरात्तकरुणः पायादपायत्स माम् ॥ २ ॥ नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीःतासामेत्य निशासु यः सुमशरानन्दानुभूतिच्छलात् ।गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटंश्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ३ ॥ … Read more

Shri Dandapani Pancharatnam In Sanskrit

॥ Shri Dandapani Pancharatnam Sanskrit Lyrics ॥ ॥ श्री दण्डपाणि पञ्चरत्नम् ॥चण्डपापहरपादसेवनंगण्डशोभिवरकुण्डलद्वयम् ।दण्डिताखिलसुरारिमण्डलंदण्डपाणिमनिशं विभावये ॥ १ ॥ कालकालतनुजं कृपालयंबालचन्द्रविलसज्जटाधरम् ।चेलधूतशिशुवासरेश्वरंदण्डपाणिमनिशं विभावये ॥ २ ॥ तारकेशसदृशाननोज्ज्वलंतारकारिमखिलार्थदं जवात् ।तारकं निरवधेर्भवाम्बुधे–र्दण्डपाणिमनिशं विभावये ॥ ३ ॥ तापहारिनिजपादसंस्तुतिंकोपकाममुखवैरिवारकम् ।प्रापकं निजपदस्य सत्वरंदण्डपाणिमनिशं विभावये ॥ ४ ॥ कामनीयकविनिर्जिताङ्गजंरामलक्ष्मणकराम्बुजार्चितम् ।कोमलाङ्गमतिसुन्दराकृतिंदण्डपाणिमनिशं विभावये ॥ ५ ॥ इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्रीदण्डपाणि पञ्चरत्नम् । – Chant … Read more

Jaya Skanda Stotram In Sanskrit

॥ Jaya Skanda Stotram Sanskrit Lyrics ॥ ॥ जय स्कन्द स्तोत्रम् ॥जय देवेन्द्रजाकान्त जय मृत्युञ्जयात्मज ।जय शैलेन्द्रजासूनो जय शम्भुगणावृत ॥ १ ॥ जय तारकदर्पघ्न जय विघ्नेश्वरानुज ।जय देवेन्द्र जामातः जय पङ्कजलोचन ॥ २ ॥ जय शङ्करसम्भूत जय पद्मासनार्चित ।जय दाक्षायणीसूनो जय काशवनोद्भव ॥ ३ ॥ जय भागीरथीसूनो जय पावकसम्भव ।जय पद्मजगर्वघ्न जय वैकुण्ठपूजित ॥ ४ … Read more

Guha Pancharatnam In Sanskrit

॥ Guha Pancharatnam Sanskrit Lyrics ॥ ॥ गुह पञ्चरत्नम् ॥ओङ्कारनगरस्थं तं निगमान्तवनेश्वरम् ।नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम् ॥ १ ॥ वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम् ।गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम् ॥ २ ॥ सच्चिदनन्दरूपेशं संसारध्वान्तदीपकम् ।सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम् ॥ ३ ॥ स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् ।निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम् ॥ ४ ॥ निराकारं निराधारं निर्विकारं निरामयम् ।निर्द्वन्द्वं … Read more