Mrutyunjaya Maanasa Puja Stotram In Marathi

॥ Mrutyunjaya Maanasa Puja Stotram in Marathi ॥

॥ मृत्युञ्जय मानस पूजा स्तोत्रम ॥
मृत्युञ्जयमानसपूजास्तोत्रम ।

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम ।
गङ्गातुङ्गतरङ्गरञ्जित जटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ 1 ॥

आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालङ्कृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥ 2 ॥

भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ 3 ॥

मन्दारमल्लीकरवीरमाधवीपुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युञ्जय पाद्यमुत्तमम ॥ 4 ॥

सुगन्धपुष्पप्रकरैः सुवासितैर्वियन्नदीशीतळवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युञ्जय सर्ववन्दित ॥ 5 ॥

हिमाम्बुवासितैस्तोयैः शीतळैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥ 6 ॥

गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम ।
शुभकर मधुपर्कमाहर त्वं त्रिनयन मॄत्युहर त्रिलोकवन्द्य ॥ 7 ॥

पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥ 8 ।।

जगत्रयीख्यातसमस्ततीर्थसमाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्तगुणाभिराम ॥ 9 ॥

आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥ 10 ॥

नानाहेमविचित्राणि चरिचीनाम्बराणि च
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ 11 ॥

विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम ।
यज्ञोपवीतं परमं पवित्रमाधत्स्व मृत्युञ्जय भक्तिगम्य ॥ 12 ॥

श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम ।

See Also  Pashupati Ashtakam In Bengali

दिव्यं देव मनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥ 13 ॥

अक्षतैर्धवळैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥ 14 ॥

चम्पकपङ्कजकुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमुकुटं मृत्युञ्जय पुणडरीकनयनाप्त ॥ 15 ॥

माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥ 16 ॥

माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुड्मलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञैरङ्गानि मृत्युञ्जय भूषयामि ॥ 17 ॥

गजवदन स्कन्दधृतेनातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥ 18 ॥

मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चन दण्डयुक्तम ।
माणिक्यसंस्थापितहेमकुम्भं सुरेशमृत्युञ्जय तेऽर्पयामि ॥ 19 ॥

मणिमुकुरे निष्पटले त्रिजगद्गढान्धकारसप्ताश्वे ।
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम ॥ 20 ॥

कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च ।
समुद्भवं पावनगन्धधूपितं मॄत्युञ्जयाङ्गं परिकल्पयामि ॥ 21 ॥

वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च ।
राज्यं समस्तामरवर्गहृद्यं सुरेशमृत्युञ्जय वंशदीपम ॥ 22 ॥

राजान्नं मधुरान्वितं च मृदुळं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचमिलितः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपपूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम ॥ 23 ॥

कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवेल्ल्याः ।
सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥ 24 ॥

शीतळं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ 25 ॥

See Also  Vishvanathanagari Stotram In Telugu

शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम ।
कदळीफलसंमिश्रं भुज्यतां मऋत्युसंहर ॥ 26 ॥

केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम ॥ 27 ॥

रम्भाचूतकपित्थकणटकफलैर्द्राक्षारसस्वादुमत-
खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम ॥ 28 ॥

मनोज्ञरम्भावनखण्डखण्डितान रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभन्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥ 29 ॥

हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम ।
बिसखण्डांल्लवणयुतान्मृत्युञ्जय तेऽर्पयामि जगदीश ॥ 30 ॥

एलाशुण्ठीसहितं दध्यन्नं चारु हेमपात्रस्थम ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥ 31 ॥

जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान ।
मृदूपदंशान्सहितोपभुङ्क्ष्व मृत्युञ्जय श्रीकरुणासमुद्र ॥ 32 ॥

नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम ।
मथितं सैन्धवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन ॥ 33

मन्दारहेमाम्बुजगन्धयुक्तैर्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥ 34 ॥

गगनधुनीविमलजलैर्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षाळय चारुहस्तपदयुग्मम ॥ 35 ॥

पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥ 36 ॥

मौक्तिकचूर्णसमेतैर्मृग मदघनसारवासितैः पूगैः ।
पणैंः स्वर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम ॥ 37 ॥

नीराजनं निर्मलदीप्तिमद्भिर्दीपाङ्कुरैरुज्जवलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ 38 ॥

विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ 39 ॥

पुन्नागनीलोत्पलकुन्दजातीमन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदळैस्तुळस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥ 40 ॥

See Also  Sri Shankara Ashtakam 2 In Kannada

पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम ।
प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम ॥ 41 ॥

नमो गौरीशाय स्फटिकधवळाङ्गाय च नमो नमो
लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमो
भालाक्षाय स्मरमदविनाशाय च नमः ॥ 42 ॥

संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकळत्रवित्तविलसत्पाशैर्निबद्धं दृढम ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ 43 ॥

सौधे रत्नमये नवोत्पलदळाक्रीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवळेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ 44 ॥

चतुश्चत्वारिंशद्विलसदुपचारैरमिमतैर्मनःपद्मे
भक्त्या बहिरपि च पूजां शुभकरीम करोति प्रत्यूषे
निशि दिवसमध्येऽपि च पुमान्प्रयाति
श्रीमृत्युञ्जयपदमनेकाद्भुतपदम ॥ 45 ॥

प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम ।
भानोरस्तमये प्रदोषसमये पञ्चक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम ॥ 46 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कराचार्यस्य
कृतं श्रीमृत्युञ्जय मानसपूजास्तोत्रं संपूर्णम ॥

– Chant Stotra in Other Languages –

Mrutyunjaya Maanasa Puja Stotram in English – Marathi – Gujarati । BengaliKannadaMalayalamTelugu