1000 Names Of Sri Subrahmanya – Sahasranama Stotram In Sanskrit

॥ Murugan Sahasranama Stotram Sanskrit Lyrics ॥

॥ श्रीसुब्रह्मण्यसहस्रनामस्तोत्रम् मार्कण्डेयप्रोक्तम् ॥

स्वामिमलै सहस्रनामस्तोत्रम्

ॐ श्री गणेशाय नमः ।
अस्य श्री सुब्रह्मण्य सहस्रनामस्तोत्रमहामन्त्रस्य, मार्कण्डेय ऋषिः ।
अनुष्टुप्छन्दः । श्री सुब्रह्मण्यो देवता । शरजन्माऽक्षय इति बीजं,
शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् ।
क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम्, षण्मुख इति ध्यानम् ।
श्री सुब्रह्मण्य प्रसाद सिद्ध्यर्थे नाम पारायणे विनियोगः ।

करन्यासः
ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय
हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः । var भास्वरूपाय
ॐ रं षट्कोण मध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय
षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय
षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः ।
ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय
शूरमर्दनाय कुमाराय सुब्रह्मण्याय (सुब्रह्मण्य) अनामिकाभ्यां नमः ।
ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षाय
मूलप्रकृतिरहिताय कनिष्ठिकाभ्यां नमः ।
ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने
शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादिन्यासः । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं var वन्दे षण्मुख
बालार्कद्युति षट्किरीटविलसत्केयूर हारान्वितम् ।
कर्णालम्बित कुण्डल प्रविलसद्गण्डस्थलैः शोभितं ?? was missing la?
काञ्ची कङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिदेधानं सदा ?de?
ध्यायामीप्सित सिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् ।
वन्दे मयूरासनमग्निसम्भवं सेनान्यमध्याहमभीष्टसिद्धये ॥

लमित्यादि पञ्चपूजा ।

अथ स्तोत्रम् ।
ॐ सुब्रह्मण्यः सुरेशानः सुरारिकुलनाशनः ।
ब्रह्मण्यो ब्रह्मविद् ब्रह्मा ब्रह्मविद्यागुरूर्गुरुः ॥ १ ॥

ईशानगुरुरव्यक्तो व्यक्तरूपः सनातनः ।
प्रधानपुरुषः कर्ता कर्म कार्यं च कारणम् ॥ २ ॥

अधिष्ठानं च विज्ञानं भोक्ता भोगश्च केवलः ।
अनादिनिधनः साक्षी नियन्ता नियमो यमः ॥ ३ ॥

वाक्पतिर्वाक्प्रदो वाग्मी वाच्यो वाग्वाचकस्तथा ।
पितामहगुरुर्लोकगुरुस्तत्वार्थबोधकः ॥ ४ ॥

प्रणवार्थोपदेष्टा चाप्यजो ब्रह्म सनातनः ।
वेदान्तवेद्यो वेदात्मा वेदादिर्वेदबोधकः ॥ ५ ॥

वेदान्तो वेदगुह्यश्च वेदशास्त्रार्थबोधकः ।
सर्वविद्यात्मकः शान्तश्चतुष्षष्टिकलागुरुः ॥ ६ ॥

मन्त्रार्थो मन्त्रमूर्तिश्च मन्त्रतन्त्रप्रवर्तकः ।
मन्त्री मन्त्रो मन्त्रबीजं महामन्त्रोपदेशकः ॥ ७ ॥

महोत्साहो महाशक्तिर्महाशक्तिधरः प्रभुः ।
जगत्स्रष्टा जगद्भर्ता जगन्मूर्तिर्जगन्मयः ॥ ८ ॥

जगदादिरनादिश्च जगद्बीजं जगद्गुरूः ।
ज्योतिर्मयः प्रशान्तात्मा सच्चिदानन्दविग्रहः ॥ ९ ॥

सुखमूर्तिः सुखकरः सुखी सुखकराकृतिः ।
ज्ञाता ज्ञेयो ज्ञानरूपो ज्ञप्तिर्ज्ञानबलं बुधः ॥ १० ॥

विष्णुर्जिष्णुर्ग्रसिष्णुश्च प्रभविष्णुः सहिष्णुकः ।
वर्धिष्णुर्भूष्णुरजरस्तितिक्ष्णुः क्षान्तिरार्जवम् ॥ ११ ॥

ऋजुः सुगम्यःसुलभो दुर्लभो लाभ ईप्सितः ।
विज्ञो विज्ञानभोक्ता च शिवज्ञानप्रदायकः ॥ १२ ॥

महदादिरहङ्कारो भूतादिर्भूतभावनः ।
भूतभव्य भविष्यच्च भूत भव्यभवत्प्रभुः ॥ १३ ॥

देवसेनापतिर्नेता कुमारो देवनायकः ।
तारकारिर्महावीर्यः सिंहवक्त्रशिरोहरः ॥ १४ ॥

अनेककोटिब्रह्माण्ड परिपूर्णासुरान्तकः ।
सुरानन्दकरः श्रीमानसुरादिभयङ्करः ॥ १५ ॥

असुरान्तः पुराक्रन्दकरभेरीनिनादनः ।
सुरवन्द्यो जनानन्दकरशिञ्जन्मणिध्वनिः ॥ १६ ॥

स्फुटाट्टहाससङ्क्षुभ्यत्तारकासुरमानसः ।
महाक्रोधो महोत्साहो महाबलपराक्रमः ॥ १७ ॥

महाबुद्धिर्महाबाहुर्महामायो महाधृतिः ।
रणभीमः शत्रुहरो धीरोदात्तगुणोत्तरः ॥ १८ ॥

महाधनुर्महाबाणो महादेवप्रियात्मजः ।
महाखड्गो महाखेटो महासत्वो महाद्युतिः ॥ १९ ॥

महर्धिश्च महामायी मयूरवरवाहनः ।
मयूरबर्हातपत्रो मयूरनटनप्रियः ॥ २० ॥

महानुभावोऽमेयात्माऽमेयश्रीश्च महाप्रभुः ।
सुगुणो दुर्गुणद्वेषी निर्गुणो निर्मलोऽमलः ॥ २१ ॥

सुबलो विमलः कान्तः कमलासन पूजितः ।
कालः कमलपत्राक्षः कलिकल्मषनाशनः ॥ २२ ॥

See Also  1000 Names Of Sri Anjaneya In Sanskrit

महारणो महायोद्धा महायुद्धप्रियोऽभयः ।
महारथो महाभागो भक्ताभीष्टफलप्रदः ॥ २३ ॥

भक्तप्रियः प्रियः प्रेम प्रेयान् प्रीतिधरः सखा ।
गौरीकरसरोजाग्र लालनीय मुखाम्बुजः ॥ २४ ॥

कृत्तिकास्तन्यपानैकव्यग्रषड्वदनाम्बुजः ।
चन्द्रचूडाङ्गभूभाग विहारणविशारदः ॥ २५ ॥

ईशाननयनानन्दकन्दलावण्यनासिकः ।
चन्द्रचूडकराम्भोज परिमृष्टभुजावलिः ॥ २६ ॥

लम्बोदर सहक्रीडा लम्पटः शरसम्भवः ।
अमरानननालीक चकोरीपूर्ण चन्द्रमाः ॥ २७ ॥

सर्वाङ्ग सुन्दरः श्रीशः श्रीकरः श्रीप्रदः शिवः ।
वल्लीसखो वनचरो वक्ता वाचस्पतिर्वरः ॥ २८ ॥

चन्द्रचूडो बर्हिपिञ्छ शेखरो मकुटोज्ज्वलः ।
गुडाकेशः सुवृत्तोरुशिरा मन्दारशेखरः ॥ २९ ॥

बिम्बाधरः कुन्ददन्तो जपाशोणाग्रलोचनः ।
षड्दर्शनीनटीरङ्गरसनो मधुरस्वनः ॥ ३० ॥

मेघगम्भीरनिर्घोषः प्रियवाक् प्रस्फुटाक्षरः ।
स्मितवक्त्रश्चोत्पलाक्षश्चारुगम्भीरवीक्षणः ॥ ३१ ॥

कर्णान्तदीर्घनयनः कर्णभूषण भूषितः ।
सुकुण्डलश्चारुगण्डः कम्बुग्रीवो महाहनुः ॥ ३२ ॥

पीनांसो गूढजत्रुश्च पीनवृत्तभुजावलिः ।
रक्ताङ्गो रत्नकेयूरो रत्नकङ्कणभूषितः ॥ ३३ ॥

ज्याकिणाङ्क लसद्वामप्रकोष्ठवलयोज्ज्वलः ।
रेखाङ्कुशध्वजच्छत्रपाणिपद्मो महायुधः ॥ ३४ ॥

सुरलोक भयध्वान्त बालारुणकरोदयः ।
अङ्गुलीयकरत्नांशु द्विगुणोद्यन्नखाङ्कुरः ॥ ३५ ॥

पीनवक्षा महाहारो नवरत्नविभूषणः ।
हिरण्यगर्भो हेमाङ्गो हिरण्यकवचो हरः ॥ ३६ ॥

हिरण्मय शिरस्त्राणो हिरण्याक्षो हिरण्यदः ।
हिरण्यनाभिस्त्रिवली ललितोदरसुन्दरः ॥ ३७ ॥

सुवर्णसूत्रविलसद्विशङ्कटकटीतटः ।
पीताम्बरधरो रत्नमेखलावृत मध्यकः ॥ ३८ ॥

पीवरालोमवृत्तोद्यत्सुजानुर्गुप्तगुल्फकः ।
शङ्खचक्राब्जकुलिशध्वजरेखाङ्घ्रिपङ्कजः ॥ ३९ ॥

नवरत्नोज्ज्वलत्पादकटकः परमायुधः ।
सुरेन्द्रमकुटप्रोद्यन्मणि रञ्जितपादुकः ॥ ४० ॥

पूज्याङ्घ्रिश्चारुनखरो देवसेव्यस्वपादुकः ।
पार्वतीपाणि कमलपरिमृष्टपदाम्बुजः ॥ ४१ ॥

मत्तमातङ्ग गमनो मान्यो मान्यगुणाकरः ।
क्रौञ्च दारणदक्षौजाः क्षणः क्षणविभागकृत् ॥ ४२ ॥

सुगमो दुर्गमो दुर्गो दुरारोहोऽरिदुः सहः ।
सुभगः सुमुखः सूर्यः सूर्यमण्डलमध्यगः ॥ ४३ ॥

स्वकिङ्करोपसंसृष्टसृष्टिसंरक्षिताखिलः ।
जगत्स्रष्टा जगद्भर्ता जगत्संहारकारकः ॥ ४४ ॥

स्थावरो जङ्गमो जेता विजयो विजयप्रदः ।
जयशीलो जितारातिर्जितमायो जितासुरः ॥ ४५ ॥

जितकामो जितक्रोधो जितमोहस्सुमोहनः ।
कामदः कामभृत्कामी कामरूपः कृतागमः ॥ ४६ ॥

कान्तः कल्यः कलिध्वंसी कल्हारकुसुमप्रियः ।
रामो रमयिता रम्यो रमणीजनवल्लभः ॥ ४७ ॥

रसज्ञो रसमूर्तिश्च रसो नवरसात्मकः ।
रसात्मा रसिकात्मा च रासक्रीडापरो रतिः ॥ ४८ ॥

सूर्यकोटिप्रतीकाशः सोमसूर्याग्निलोचनः ।
कलाभिज्ञः कलारूपी कलापी सकलप्रभुः ॥ ४९ ॥

बिन्दुर्नादः कलामूर्तिः कलातीतोऽक्षरात्मकः ।
मात्राकारः स्वराकारः एकमात्रो द्विमात्रकः ॥ ५० ॥

त्रिमात्रकश्चतुर्मात्रो व्यक्तः सन्ध्यक्षरात्मकः ।
व्यञ्जनात्मा वियुक्तात्मा संयुक्तात्मा स्वरात्मकः ॥ ५१ ॥

विसर्जनीयोऽनुस्वारः सर्ववर्णतनुर्महान् ।
अकारात्माऽप्युकारात्मा मकारात्मा त्रिवर्णकः ॥ ५२ ॥

ओङ्कारोऽथ वषट्कारः स्वाहाकारः स्वधाकृतिः ।
आहुतिर्हवनं हव्यं होताऽध्वर्युर्महाहविः ॥ ५३ ॥

ब्रह्मोद्गाता सदस्यश्च बर्हिरिध्मं समिच्चरुः ।
कव्यं पशुः पुरोडाशः आमिक्षा वाजवाजिनम् ॥ ५४ ॥

पवनः पावनः पूतः पवमानः पराकृतिः ।
पवित्रं परिधिः पूर्णपात्रमुद्भूतिरिन्धनम् ॥ ५५ ॥

विशोधनं पशुपतिः पशुपाशविमोचकः ।
पाकयज्ञो महायज्ञो यज्ञो यज्ञपतिर्यजुः ॥ ५६ ॥

यज्ञाङ्गो यज्ञगम्यश्च यज्वा यज्ञफलप्रदः ।
यज्ञाङ्गभूर्यज्ञपतिर्यज्ञश्रीर्यज्ञवाहनः ॥ ५७ ॥

यज्ञराड् यज्ञविध्वंसी यज्ञेशो यज्ञरक्षकः ।
सहस्रबाहुः सर्वात्मा सहस्राक्षः सहस्रपात् ॥ ५८ ॥

सहस्रवदनो नित्यः सहस्रात्मा विराट् स्वराट् ।
सहस्रशीर्षो विश्वश्च तैजसः प्राज्ञ आत्मवान् ॥ ५९ ॥

अणुर्बृहत्कृशः स्थूलो दीर्घो ह्रस्वश्च वामनः ।
सूक्ष्मः सूक्ष्मतरोऽनन्तो विश्वरूपो निरञ्जनः ॥ ६० ॥

अमृतेशोऽमृताहारोऽमृतदाताऽमृताङ्गवान् ।
अहोरूपस्त्रियामा च सन्ध्यारूपो दिनात्मकः ॥ ६१ ॥

अनिमेषो निमेषात्मा कला काष्ठा क्षणात्मकः ।
मुहूर्तो घटिकारूपो यामो यामात्मकस्तथा ॥ ६२ ॥

See Also  1000 Names Of Sri Rama 3 In English

पूर्वाह्णरूपो मध्याह्नरूपः सायाह्नरूपकः ।
अपराह्णोऽतिनिपुणः सवनात्मा प्रजागरः ॥ ६३ ॥

वेद्यो वेदयिता वेदो वेददृष्टो विदां वरः ।
विनयो नयनेता च विद्वज्जनबहुप्रियः ॥ ६४ ॥

विश्वगोप्ता विश्वभोक्ता विश्वकृद्विश्वभेषजम् ।
विश्वम्भरो विश्वपतिर्विश्वराड्विश्वमोहनः ॥ ६५ ॥

विश्वसाक्षी विश्वहन्ता वीरो विश्वम्भराधिपः ।
वीरबाहुर्वीरहन्ता वीराग्र्यो वीरसैनिकः ॥ ६६ ॥

वीरवादप्रियः शूर एकवीरः सुराधिपः ।
शूरपद्मासुरद्वेषी तारकासुरभञ्जनः ॥ ६७ ॥

ताराधिपस्तारहारः शूरहन्ताऽश्ववाहनः ।
शरभः शरसम्भूतः शक्तः शरवणेशयः ॥ ६८ ॥

शाङ्करिः शाम्भवः शम्भुः साधुः साधुजनप्रियः ।
साराङ्गः सारकः सर्वः शार्वः शार्वजनप्रियः ॥ ६९ ॥

गङ्गासुतोऽतिगम्भीरो गम्भीरहृदयोऽनघः ।
अमोघविक्रमश्चक्रश्चक्रभूः शक्रपूजितः ॥ ७० ॥

चक्रपाणिश्चक्रपतिश्चक्रवालान्तभूपतिः ।
सार्वभौमस्सुरपतिः सर्वलोकाधिरक्षकः ॥ ७१ ॥

साधुपः सत्यसङ्कल्पः सत्यस्सत्यवतां वरः ।
सत्यप्रियः सत्यगतिः सत्यलोकजनप्रियः ॥ ७२ ॥

भूतभव्य भवद्रूपो भूतभव्यभवत्प्रभुः ।
भूतादिर्भूतमध्यस्थो भूतविध्वंसकारकः ॥ ७३ ॥

भूतप्रतिष्ठासङ्कर्ता भूताधिष्ठानमव्ययः ।
ओजोनिधिर्गुणनिधिस्तेजोराशिरकल्मषः ॥ ७४ ॥

कल्मषघ्नः कलिध्वंसी कलौ वरदविग्रहः ।
कल्याणमूर्तिः कामात्मा कामक्रोधविवर्जितः ॥ ७५ ॥

गोप्ता गोपायिता गुप्तिर्गुणातीतो गुणाश्रयः ।
सत्वमूर्ती रजोमूर्तिस्तमोमूर्तिश्चिदात्मकः ॥ ७६ ॥

देवसेनापतिर्भूमा महिमा महिमाकरः ।
प्रकाशरूपः पापघ्नः पवनः पावनोऽनलः ॥ ७७ ॥

कैलासनिलयः कान्तः कनकाचल कार्मुकः ।
निर्धूतो देवभूतिश्च व्याकृतिः क्रतुरक्षकः ॥ ७८ ॥

उपेन्द्र इन्द्रवन्द्याङ्घ्रिरुरुजङ्घ उरुक्रमः ।
विक्रान्तो विजयक्रान्तो विवेकविनयप्रदः ॥ ७९ ॥

अविनीतजनध्वंसी सर्वावगुणवर्जितः ।
कुलशैलैकनिलयो वल्लीवाञ्छितविभ्रमः ॥ ८० ॥

शाम्भवः शम्भुतनयः शङ्कराङ्गविभूषणः ।
स्वयम्भूः स्ववशः स्वस्थः पुष्कराक्षः पुरूद्भवः ॥ ८१ ॥

मनुर्मानवगोप्ता च स्थविष्ठः स्थविरो युवा ।
बालः शिशुर्नित्ययुवा नित्यकौमारवान् महान् ॥ ८२ ॥

अग्राह्यरूपो ग्राह्यश्च सुग्रहः सुन्दराकृतिः ।
प्रमर्दनः प्रभूतश्रीर्लोहिताक्षोऽरिमर्दनः ॥ ८३ ॥

त्रिधामा त्रिककुत्त्रिश्रीः त्रिलोकनिलयोऽलयः ।
शर्मदः शर्मवान् शर्म शरण्यः शरणालयः ॥ ८४ ॥

स्थाणुः स्थिरतरः स्थेयान् स्थिरश्रीः स्थिरविक्रमः ।
स्थिरप्रतिज्ञः स्थिरधीर्विश्वरेताः प्रजाभवः ॥ ८५ ॥

अत्ययः प्रत्ययः श्रेष्ठः सर्वयोगविनिःसृतः ।
सर्वयोगेश्वरः सिद्धः सर्वज्ञः सर्वदर्शनः ॥ ८६ ॥

वसुर्वसुमना देवो वसुरेता वसुप्रदः ।
समात्मा समदर्शी च समदः सर्वदर्शनः ॥ ८७ ॥

वृषाकृतिर्वृषारूढो वृषकर्मा वृषप्रियः ।
शुचिः शुचिमनाः शुद्धः शुद्धकीर्तिः शुचिश्रवाः ॥ ८८ ॥

रौद्रकर्मा महारौद्रो रुद्रात्मा रुद्रसम्भवः ।
अनेकमूर्तिर्विश्वात्माऽनेकबाहुररिन्दमः ॥ ८९ ॥

वीरबाहुर्विश्वसेनो विनेयो विनयप्रदः । vinayo??
सर्वगः सर्ववित्सर्वः सर्ववेदान्तगोचरः ॥ ९० ॥

कविः पुराणोऽनुशास्ता स्थूलस्थूल अणोरणुः ।
भ्राजिष्णुर्विष्णु विनुतः कृष्णकेशः किशोरकः ॥ ९१ ॥

भोजनं भाजनं भोक्ता विश्वभोक्ता विशां पतिः ।
विश्वयोनिर्विशालाक्षो विरागो वीरसेवितः ॥ ९२ ॥

पुण्यः पुरुयशाः पूज्यः पूतकीर्तिः पुनर्वसुः ।
सुरेन्द्रः सर्वलोकेन्द्रो महेन्द्रोपेन्द्रवन्दितः ॥ ९३ ॥

विश्ववेद्यो विश्वपतिर्विश्वभृद्विश्वभेषजम् ।
मधुर्मधुरसङ्गीतो माधवः शुचिरूष्मलः ॥ ९४ ॥

शुक्रः शुभ्रगुणः शुक्लः शोकहन्ता शुचिस्मितः ।
महेष्वासो विष्णुपतिः महीहन्ता महीपतिः ॥ ९५ ॥

मरीचिर्मदनो मानी मातङ्गगतिरद्भुतः ।
हंसः सुपूर्णः सुमनाः भुजङ्गेशभुजावलिः ॥ ९६ ॥

पद्मनाभः पशुपतिः पारज्ञो वेदपारगः ।
पण्डितः परघाती च सन्धाता सन्धिमान् समः ॥ ९७ ॥

दुर्मर्षणो दुष्टशास्ता दुर्धर्षो युद्धधर्षणः ।
विख्यातात्मा विधेयात्मा विश्वप्रख्यातविक्रमः ॥ ९८ ॥

सन्मार्गदेशिको मार्गरक्षको मार्गदायकः ।
अनिरुद्धोऽनिरुद्धश्रीरादित्यो दैत्यमर्दनः ॥ ९९ ॥

अनिमेषोऽनिमेषार्च्यस्त्रिजगद्ग्रामणीर्गुणी ।
सम्पृक्तः सम्प्रवृत्तात्मा निवृत्तात्माऽऽत्मवित्तमः ॥ १०० ॥

अर्चिष्मानर्चनप्रीतः पाशभृत्पावको मरुत् ।
सोमः सौम्यः सोमसुतः सोमसुत्सोमभूषणः ॥ १०१ ॥

See Also  108 Names Of Ganesha 3 In Sanskrit

सर्वसामप्रियः सर्वसमः सर्वंसहो वसुः ।
उमासूनुरुमाभक्त उत्फुल्लमुखपङ्कजः ॥ १०२ ॥

अमृत्युरमरारातिमृत्युर्मृत्युञ्जयोऽजितः ।
मन्दारकुसुमापीडो मदनान्तकवल्लभः ॥ १०३ ॥

माल्यवन्मदनाकारो मालतीकुसुमप्रियः ।
सुप्रसादः सुराराध्यः सुमुखः सुमहायशाः ॥ १०४ ॥

वृषपर्वा विरूपाक्षो विष्वक्सेनो वृषोदरः ।
मुक्तो मुक्तगतिर्मोक्षो मुकुन्दो मुद्गली मुनिः ॥ १०५ ॥

श्रुतवान् सुश्रुतः श्रोता श्रुतिगम्यः श्रुतिस्तुतः ।
वर्धमानो वनरतिर्वानप्रस्थनिषेवितः ॥ १०६ ॥

वाग्मी वरो वावदूको वसुदेववरप्रदः ।
महेश्वरो मयूरस्थः शक्तिहस्तस्त्रिशूलधृत् ॥ १०७ ॥

ओजस्तेजश्च तेजस्वी प्रतापः सुप्रतापवान् ।
ऋद्धिः समृद्धिः संसिद्धिः सुसिद्धिः सिद्धसेवितः ॥ १०८ ॥

अमृताशोऽमृतवपुरमृतोऽमृतदायकः ।
चन्द्रमाश्चन्द्रवदनश्चन्द्रदृक् चन्द्रशीतलः ॥ १०९ ॥

मतिमान्नीतिमान्नीतिः कीर्तिमान्कीर्तिवर्धनः ।
औषधं चौषधीनाथः प्रदीपो भवमोचनः ॥ ११० ॥

भास्करो भास्करतनुर्भानुर्भयविनाशनः ।
चतुर्युगव्यवस्थाता युगधर्मप्रवर्तकः ॥ १११ ॥

अयुजो मिथुनं योगो योगज्ञो योगपारगः ।
महाशनो महाभूतो महापुरुषविक्रमः ॥ ११२ ॥

युगान्तकृद्युगावर्तो दृश्यादृश्यस्वरूपकः ।
सहस्रजिन्महामूर्तिः सहस्रायुधपण्डितः ॥ ११३ ॥

अनन्तासुरसंहर्ता सुप्रतिष्ठः सुखाकरः ।
अक्रोधनः क्रोधहन्ता शत्रुक्रोधविमर्दनः ॥ ११४ ॥

विश्वमुर्तिर्विश्वबाहुर्विश्वदृग्विश्वतो मुखः ।
विश्वेशो विश्वसंसेव्यो द्यावाभूमिविवर्धनः ॥ ११५ ॥

अपान्निधिरकर्ताऽन्नमन्नदाताऽन्नदारुणः ।
अम्भोजमौलिरुज्जीवः प्राणः प्राणप्रदायकः ॥ ११६ ॥

स्कन्दः स्कन्दधरो धुर्यो धार्यो धृतिरनातुरः ।
आतुरौषधिरव्यग्रो वैद्यनाथोऽगदङ्करः ॥ ११७ ॥

देवदेवो बृहद्भानुः स्वर्भानुः पद्मवल्लभः ।
अकुलः कुलनेता च कुलस्रष्टा कुलेश्वरः ।११८ ॥
निधिर्निधिप्रियः शङ्खपद्मादिनिधिसेवितः ।
शतानन्दः शतावर्तः शतमूर्तिः शतायुधः ॥ ११९ ॥

पद्मासनः पद्मनेत्रः पद्माङ्घ्रिः पद्मपाणिकः ।
ईशः कारणकार्यात्मा सूक्ष्मात्मा स्थूलमूर्तिमान् ॥ १२० ॥

अशरीरी त्रिशरीरी शरीरत्रयनायकः ।
जाग्रत्प्रपञ्चाधिपतिः स्वप्नलोकाभिमानवान् ॥ १२१ ॥

सुषुप्त्यवस्थाभिमानी सर्वसाक्षी तुरीयगः ।
स्वापनः स्ववशो व्यापी विश्वमूर्तिर्विरोचनः ॥ १२२ ॥

वीरसेनो वीरवेषो वीरायुधसमावृतः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् शुभलक्षणः ॥ १२३ ॥

समयज्ञः सुसमय समाधिजनवल्लभः ।
अतुलोऽतुल्यमहिमा शरभोपमविक्रमः ॥ १२४ ॥

अहेतुर्हेतुमान्हेतुः हेतुहेतुमदाश्रयः ।
विक्षरो रोहितो रक्तो विरक्तो विजनप्रियः ॥ १२५ ॥

महीधरो मातरिश्वा माङ्गल्यमकरालयः ।
मध्यमान्तादिरक्षोभ्यो रक्षोविक्षोभकारकः ॥ १२६ ॥

गुहो गुहाशयो गोप्ता गुह्यो गुणमहार्णवः ।
निरुद्योगो महोद्योगी निर्निरोधो निरङ्कुशः ॥ १२७ ॥

महावेगो महाप्राणो महेश्वरमनोहरः ।
अमृताशोऽमिताहारो मितभाष्यमितार्थवाक् ॥ १२८ ॥

अक्षोभ्यः क्षोभकृत्क्षेमः क्षेमवान् क्षेमवर्धनः ।
ऋद्ध ऋद्धिप्रदो मत्तो मत्तकेकिनिषूदनः ॥ १२९ ॥

धर्मो धर्मविदां श्रेष्ठो वैकुण्ठो वासवप्रियः ।
परधीरोऽपराक्रान्त परितुष्टः परासुहृत् ॥ १३० ॥

रामो रामनुतो रम्यो रमापतिनुतो हितः ।
विरामो विनतो विद्वान् वीरभद्रो विधिप्रियः ॥ १३१ ॥

विनयो विनयप्रीतो विमतोरुमदापहः ।
सर्वशक्तिमतां श्रेष्ठः सर्वदैत्यभयङ्करः ॥ १३२ ॥

शत्रुघ्नःशत्रुविनतः शत्रुसङ्घप्रधर्षकः ।
सुदर्शन ऋतुपतिर्वसन्तो माधवो मधुः ॥ १३३ ॥

वसन्तकेलिनिरतो वनकेलिविशारदः ।
पुष्पधूलीपरिवृतो नवपल्लवशेखरः ॥ १३४ ॥

जलकेलिपरो जन्यो जह्नुकन्योपलालितः ।
गाङ्गेयो गीतकुशलो गङ्गापूरविहारवान् ॥ १३५ ॥

गङ्गाधरो गणपतिर्गणनाथसमावृतः ।
विश्रामो विश्रमयुतो विश्वभुग्विश्वदक्षिणः ॥ १३६ ॥

विस्तारो विग्रहो व्यासो विश्वरक्षण तत्परः ।
विनतानन्द कारी च पार्वतीप्राणनन्दनः ॥
विशाखः षण्मुखः कार्तिकेयः कामप्रदायकः ॥ १३७ ॥

इति श्रीसुब्रह्मण्यसहस्रनामस्तोत्रं सम्पूर्णम् ।

। ॐ शरवणभव ॐ ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1000 Names of Sri Subrahmanya / Muruga / Karthigeya » Sahasranama Stotram in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil