Mooka Panchasati-Mandasmitha Satakam (5) In Sanskrit
॥ Mooka Panchasati-Mandasmitha Satakam (5) Sanskrit Lyrics ॥ ॥ मूकपञ्चशति – ५ – मन्दस्मितशतकम् ॥ बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनांकन्दर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।कामाक्ष्या घनसारपुञ्जरजसे कामद्रुहश्चक्षुषांमन्दारस्तबकप्रभामदमुषे मन्दस्मितज्योतिषे ॥ १ ॥ सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे ।स्वर्धुन्या सह युध्वने हिमरुचेरर्धासनाध्यासिनेकामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥ कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वतीदौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् ।क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जतीकामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे … Read more