Sri Siddhivinayak Stotram In Sanskrit
॥ Sri Siddhivinayak Stotram Sanskrit Lyrics ॥ ॥ श्री सिद्धिविनायक स्तोत्रम् ॥विघ्नेश विघ्नचयखण्डननामधेयश्रीशङ्करात्मज सुराधिपवन्द्यपाद ।दुर्गामहाव्रतफलाखिलमङ्गलात्मन्विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १ ॥ सत्पद्मरागमणिवर्णशरीरकान्तिःश्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः ।वक्षःस्थले वलयितातिमनोज्ञशुण्डोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ २ ॥ पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि–र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः ।सिन्दूरशोभितललाटविधुप्रकाशोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ३ ॥ कार्येषु विघ्नचयभीतविरिञ्चमुख्यैःसम्पूजितः सुरवरैरपि मोदकाद्यैः ।सर्वेषु च प्रथममेव सुरेषु पूज्योविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ४ ॥ … Read more