Sri Lalitha Sahasranama Stotram Uttarapeetika In Sanskrit

॥ Lalitha Sahasranama Stotram Uttarapeetika in Sanskrit Lyrics ॥

॥ श्री ललिता सहस्रनाम स्तोत्रम् – उत्तरपीठिक ॥
श्री ललिता सहस्रनाम स्तोत्र – उत्तरपीठिक

॥ अथोत्तरभागे फलश्रुतिः ॥

इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥

सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सर्वाज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥

पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥

जपेन्नित्यं प्रयत्नेन ललितोप्रास्तितत्परः ।
प्रातस्स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्वान् जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥

तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यस्स्नायात्कोटिजन्मसु ॥ ८ ॥

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९ ॥

कोटीस्सुवर्णभाराणां श्रोत्रियेषु द्विजातिषु ।
कोटिं च हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥

आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥

श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ।
तत्पुण्यं कोटिगुणितं भवेत्पुण्यमनुत्तमम् ॥ १२ ॥

रहस्यनामसाहस्रे नाम्नोप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥

तस्य पापानि नश्यन्ति महान्त्यपि न सम्शयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ॥ १५ ॥

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताभीष्टं प्रयच्छति ॥ १८ ॥

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ॥ १९ ॥

सङ्क्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥

पञ्चोपचारैस्सम्पूज्य पठेन्नामसाहस्रकम् ।
सर्वेरोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥

See Also  Brahmadi Deva Krita Mahadeva Stuti In Sanskrit

अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥

तत्‍क्षणात्प्रशमं याति शिरोबाधा ज्वरोपिच ।
सर्वव्याधिनिवृत्त्यर्थं स्पष्ट्वा भस्म पठेदिदम् ॥ २४ ॥

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥

अभिषिञ्चेद्ग्रहगस्तान् ग्रहा नश्यन्ति तत्‍क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धा माकृष्टामङ्कुशेन च ॥ २८ ॥

ध्यात्वाभीष्टांस्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता ॥ २९ ॥

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतत् श्रीदेवीध्यानतत्परः ॥ ३० ॥

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥

तस्मै राज्यं च कोशं च दद्यादेव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यस्त्विदं नामसाहस्रं सकृत्पठति शक्तिमान् ॥ ३३ ॥

तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ।
यो वाभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥

निर्वर्त्य तत्क्रिया हन्यात् तं वै प्रत्यङ्गिरास्स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥

तानन्धान्कुरुते क्षिपं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥

यत्र यत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥

तस्य वाक् स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥

चतुरङ्गबलं तस्य दण्डिनी संहारेत्स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसम्युतः ॥ ३९ ॥

लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥

भारती तस्य जिह्वाग्ररङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥

मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥

तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यस्समर्चति ॥ ४४ ॥

See Also  Sri Vaishvanarashtakam In Sanskrit

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं विशेषेण श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यस्सविज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥

देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥

बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते ॥ ५० ॥

तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१ ॥

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैस्सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥

अन्ये कथं विजानीयुर्ब्रह्माद्यास्स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभीर्नामसहस्रकैः ॥ ५५ ॥

रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥

नैतयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करेस्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान्कामानवाप्येह सर्वसौभाग्यसम्युतः ॥ ५९ ॥

पुत्रपौत्रादिभिर्युक्तो भुक्त्वा भोगान्यथेप्सितान् ।
अन्ते श्रीललितादेव्यास्सायुज्यमतिदुर्लभम् ॥ ६० ॥

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न सम्शयः ।
यस्सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः ॥ ६१ ॥

समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥

स ब्रह्मज्ञानमाप्नोति येन मुच्येत बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥

कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥

See Also  108 Names Mantra Of Goddess Kamala In Sanskrit – Lotus Goddess Of Spiritual Wealth

नामसङ्कीर्तनं मुक्त्वा नॄणां नान्यत्परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥

विष्णुनामासहस्राच्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राच्च देव्यानामैकमुत्तमम् ॥ ६९ ॥

देवीनामसहस्राणि कोटिशस्सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥

गङ्गा भवानी गायत्री काली लक्ष्मीः सरस्वती ।
राजराजेश्वरी बाला श्यामला ललिता दश ॥ ७१ ॥

रहस्यनामसाहस्रं मुख्यं दशसु तेष्वपि ।
तस्मात्तत्कीर्तयेन्नित्यं कलिदोषनिवृत्तय़े ॥ ७२ ॥

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७३ ॥

न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७४ ॥

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्य़ोपासको भवेत् ॥ ७५ ॥

नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७६ ॥

तथैव विरला गुह्या नामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७७ ॥

रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७८ ॥

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यस्सिद्धिकामुकः ॥ ७९ ॥

स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललिता देव्यास्स नित्यं कीर्तये दिदम् ॥ ८० ॥

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
तस्माद्रहस्यनामानि श्रीमातुः प्रीतये पठेत् ॥ ८१ ॥

इति ते कथितं स्तोत्रं रहस्यं कथितं मया ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८२ ॥

यथैव गोप्या श्रीविद्या तथा गोप्यामिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८३ ॥

यो वा ददाति मूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्य़स्सोनर्थस्सुमहान्‍ स्मृतः ॥ ८४ ॥

रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदम् ।
स्वातन्त्र्येण मया नोक्तं तवापि कलशोद्भव ॥ ८५ ॥

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तयत्वमिदं भक्त्वा कुम्भयोने निरन्तरम् ॥ ८६ ॥

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्या श्रीललिताम्बिकाम् ॥ ८७ ॥

आनन्दमग्नहृदयस्सद्यः पुलकितोऽभवत् ।

। इति श्री ब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामसाहस्रफलनिरूपणं नाम
तृतीयोऽध्यायः ।

॥ इति श्रीललिता रहस्यनामस्तोत्ररत्नं समाप्तम् ॥

– Chant Stotra in Other Languages –

Sri Lalitha Sahasranama Stotram Uttarapeetika Lyrics English »  Kannada » Telugu » Tamil