300 Names Of Sharada Trishati In Sanskrit

॥ Sharada Trishati Sanskrit Lyrics ॥

॥ शारदात्रिशती ॥

गङ्गाधरमखिविरचिता ।
परमाभरणं धातुर्वदनाम्भोजस्य शारदा देवी ।
या राजति जननी सा लसतु सदा सुप्रसन्ना नः ॥ १ ॥

सा शारदा प्रसन्ना राजति मम मानसे नित्यम् ।
या शारदाब्जवदना जननी कीर्त्या हि सर्वलोकानाम् ॥ २ ॥

संपद् दिव्या धातुः ख्याता सा शारदा देवी ।
यद्भजनं देवानामपि तत्त्वज्ञानदं विदुर्विबुधाः ॥ ३ ॥

सरसकविताविभूत्यै यत्पदमाराध्यते विशेषज्ञैः ।
सा शारदा श्रियै नः काले सर्वप्रसन्नात्मा ॥ ४ ॥

नीलारविन्दलोचनयुगला सा शारदा देवी ।
करकमलकलितवीणा सदा प्रसन्ना श्रियैः वः स्यात् ॥५ ॥

कलये तामहमनिशं फुल्लाब्जविलोचनां वाणीम् ।
या सृष्ट्यादौ साह्यं कलयति धातुर्जगन्माता ॥ ६ ॥

यस्या लीलालोलः पद्मासनगोऽपि वेदपाठरतः ।
तामहमतुलानन्दप्राप्त्यै कलये मनःपद्मे ॥ ७ ॥

ब्रह्माणं तां वाणीमेकासनभासुरां श्रियः प्राप्त्यै ।
आराद्विलोक्य मानसमानन्दरसं परं भजते ॥ ८ ॥

मुक्तामये विमाने पद्मासनयन्त्रिकामध्ये ।
दृश्यां वाणीं देवीं सेवे संततसुखप्राप्त्यै ॥ ९ ॥

भाग्यान्मम च कवीनां सा देवी दृश्यतामेति ।
वीणापुस्तकहस्ता या कमलासनपुरन्ध्री हि ॥ १० ॥

मामकमानसकीरं बध्नीयाश्चरणपञ्जरे मातः ।
तेन मम जन्मलाभः स्तोत्रं च तव प्रकामकलितार्थम् ॥ ११ ॥

संवित्प्ररोहकलिकाप्राप्त्यै तां नौमि शारदां देवीम् ।
या किल कवीश्चराणामधिनेत्री काव्यकलनादौ ॥ १२ ॥

भक्तानां जिह्वाग्रं सिंहासनमादराद् वाणी ।
कलयन्ति नृत्यति किल ततस्तु तन्नूपुरनिनादः ॥ १३ ॥

मञ्जुलफणितिझरीति प्रगीयते दिक्तटे रसिकैः ।
प्रातःफुल्लपयोरुहमरन्दरसकेलिधूर्वहा काले ॥ १४ ॥

दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः ।
मातस्तव पादयोरुहसेवाधन्यतां प्राप्ताः ॥ १५ ॥

नीचा मम तु मनीषा तथापि तव नुतिकलाप्रवृत्तोऽस्मि ।
अम्ब तव तत्र हेतुः कृपां परं बुद्धिदा जयति ॥ १६ ॥

विधिदयिते तव मातः स्तुतौ न शक्ता अपि त्रिदशाः ।
क्षन्तव्यमत्र दयया मम चापल्यं तव स्तोत्रे ॥ १७ ॥

शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् ।
सदसि श‍ृणोषि दयया तत् तव चोत्तमपदव्यक्त्यै ॥ १८ ॥

परदेवते प्रसीद प्राणेश्वरि धातुरम्ब मम वाणीम् ।
कृपया तव नुतियोग्यां त्वन्नूपुरनिनदरम्यरसगुम्फाम् ॥ १९ ॥

सर्वज्ञत्वं संपदमथवान्यां प्राप्तुमत्र तव मातः ।
तव चरणकमलमेतच्छरणं नान्या गतिर्दृष्टा ॥ २० ॥

मन्दधिया स्वल्पापि स्तुतिरम्ब निरर्थकापि रसहीना ।
कलिता चेत् तव कृपया तदेव सदसीडितं भाति ॥ २१ ॥

कुण्ठीकरोतु विपदं चाज्ञानं दुर्गतिं वाणि ।
तव चरणकमलसेवादरो जनानां कलौ काले ॥ २२ ॥

वीरश्रीर्विद्वच्छ्रीर्जयश्रियो वामरैर्मान्ये ।
तव पादाम्बुजसेवादरेण सिध्यन्ति नान्यथा लोके ॥ २३ ॥

करुणारसवर्षिणि ते चरणसरोजद्वयं निधेहि मम ।
मस्तकतले विदारितजरादिकं सपदि जन्म सार्थं मे ॥ २४ ॥

श्रद्धां मेधां संपदमन्याममरेन्द्रमाननीयां हि ।
दयया विधेहि काले भक्तानां नस्त्वदेकशरणानाम् ॥ २५ ॥

प्रेयसि धातुर्जगतां परमेश्वरि वाणि मातरम्ब ननु ।
तव नामानि फणन्तस्त्रिदशैः सह यान्ति यानेन ॥ २६ ॥

तव नाम यस्य जिह्वाङ्गणे विशुद्धं क्षणं स्फुरति ।
स हि वन्द्यस्त्रिदशैरपि विगलितपापः परे लोके ॥ २७ ॥

नतनाकीश्वरवनितामौलिस्रग्गलितमकरन्दैः ।
स्निग्धपदाम्बुजयुगला वाणी देवी श्रियो हि लसति परा ॥ २८ ॥

विदुषामपि तुष्टिकरं नवनवरसगुम्फनं कवित्वं तु ।
यत्करुणावीक्षणतो सिध्यति तां शारदां वन्दे ॥ २९ ॥

अम्ब प्रसीद परमं मायामेतां निरस्य नतिभाजः ।
मम संविधेहि मधुरां वाचं तव नुतिकलार्हां च ॥ ३० ॥

वाणी माता जगतां वाणीपुस्तककराम्भोजा ।
हंसाश्रिता हि नमतां श्रेयःसिध्यै प्रसन्ना नः ॥ ३१ ॥

श्लाघ्या संपत्काले वैदुष्यं वा यदीयवीक्षणतः ।
सिध्यन्त्यपि देवानां तां वन्दे शारदां देवीम् ॥ ३२ ॥

विद्यादानकरीयं कमलासनपुण्यपरिपाकः ।
मम मनसि संनिधत्तां दिव्यज्ञानादिसिध्यै हि ॥ ३३ ॥

दिव्यज्ञानं दयया विधेहि मातर्महासारम् ।
तेनैव ते तु कीर्तिर्दानफलं नश्च जन्मसाफल्यम् ॥ ३४ ॥

द्वादशबीजाक्षरगां मन्त्रोद्धारक्रियाशक्तिम् ।
वाणीं विधेस्तु पत्नीं मध्ये पश्यामि बिम्बमध्यस्थाम् ॥ ३५ ॥

रविकोटितेजसं तां सरस्वतीं त्र्यक्षरक्रियाशक्तिम् ।
अणिमादिदां प्रसन्नामम्बां पश्यामि पद्ममध्यगताम् ॥ ३६ ॥

जगदीश्वरि भारति मे प्रसीद वाणि प्रपन्नाय ।
अहमपि कुतुकात् तव नुतिकलनेऽशक्तश्च मन्दधिषणश्च ॥ ३७ ॥

मुनिजनमानसपेटीरत्नं धातुर्गृहे रत्नम् ।
वाणीति दिव्यरत्नं जयति सदा कामधुक् काले ॥ ३८ ॥

अज्ञानव्याधिहरं तदौषधं शारदारूपम् ।
यः पश्यति स हि लोके परात्मने रोचते काले ॥ ३९ ॥

कमलासननयनफलं सृष्ट्यादिकलासमासक्तम् ।
वाणीरूपं तेजः स्फुरति जगच्छ्रेयसे नित्यम् ॥ ४० ॥

हंसगतिं तामम्बामम्भोरुहलोचनां वन्दे ।
तिलकयति या गुरूणां जिह्वासिंहासनं वाणी ॥ ४१ ॥

वाणि तरङ्गय लोचनवीक्षणशैलीं क्षणं मयि भोः ।
मम जन्म लब्धविभवं तेन भवेन्नैव ते हानिः ॥ ४२ ॥

पद्मासनेन साकं काले वाणी समासना जयति ।
कुचकलशनमितदेहा कुर्वन्ती भद्रसंततिं नमताम् ॥ ४३ ॥

व्यातन्वाना वाणी कवीश्वराणां मनोज्ञवचनझरीम् ।
जयति विधिसुकृतसंततिपरिणमितमाला बुधैर्वन्द्या ॥ ४४ ॥

कमलसुषमाङ्गयष्टिः सा देवी जयति पद्ममध्यतले ।
शतबीजाक्षरलसितं दिक्पतिकृतरक्षकं च मेरुमुखम् ॥ ४५ ॥

वाणीयन्त्रं विबुधैर्मान्यं योगासनाब्धीन्दुम् ।
ह्रीमक्षरमुखमाद्यं प्राक्तटकलितं च पद्ममध्यतले ॥ ४६ ॥

तन्मेरुचक्ररूपं समाधिदृश्यं च लोकवेद्यं च ।
सैषाश्रित्य तदेतद् राजति राजीवलोचना वाणी ॥ ४७ ॥

हंसाश्रितगतिविभवा मन्दस्मेरा तमोनिहन्त्री च ।
मधुरतरवाङ्निगुम्फा वीणापुस्तककराम्भोजा ॥ ४८ ॥

वीणावादनरसिका नमतामिष्टार्थदायिनी वाणी ।
धातुर्नयनमहोत्सवकलिका कुर्याच्छुभं जगताम् ॥ ४९ ॥

तापिञ्छरम्यदेहश्रीरेषा कविसमाजनुता ।
अष्टैश्वर्यादिकलादाने दत्तेक्षणा जयति ॥ ५० ॥

सृष्ट्यादौ विधिलिखितं वाणी सैषा हि चान्यथाकर्तुम् ।
नाकौकसामपीह प्रभवति कलितप्रणामानाम् ॥ ५१ ॥

यः पश्यति तामेतां वाणीं पुरुषो हि धन्यतामेति ।
यं पश्यति सैषायं नितरां धन्यो नृपेडितः काले ॥ ५२ ॥

कबलिततमःसमूहा वाणी सैषा हि विजयते जगति ।
अपुनर्भवसुखदात्री विरिञ्चिमुखलालिता काले ॥ ५३ ॥

कमलासनमुखकमलस्थिरासनां शारदां वन्दे ।
यन्नामोच्चरणकलाविभवात् सर्वज्ञता नियतम् ॥ ५४ ॥

भवपरमौषधमेतद्वाणीरूपं सदाराध्यम् ।
कमलासनलोचनगणसरसक्रीडास्पदं जयति ॥ ५५ ॥

नारीवंशशिखामणिरेषा चिन्तामणिर्नतानां हि ।
धातृगृहभागधेयं ध्येयं सद्भिः श्रियः समृद्ध्यै नः ॥ ५६ ॥

जननि भुवनेश्वरि त्वां वाणीं वन्दे कवित्वरससिद्ध्यै ।
त्वं तु ददासि हि दयया मम मन्दस्यापि वाग्झरीर्मधुराः ॥ ५७ ॥

एतेन तव तु कीर्तेर्महिमा संगीयते दिशां वलये ।
किंनरवर्गैरमरीकन्याभिः कल्पवृक्षमूलतले ॥ ५८ ॥

कविमल्लसूक्तिलहरीस्तन्वाना शारदा जयति ।
विधिकेलिसदनहंसी कल्याणैकस्थली नमताम् ॥ ५९ ॥

स्फुरतु मम वचसि वाणि त्वदीयवैभवसुधाधारा ।
नित्यं व्यक्तिं प्राप्ता धुतनतजनखेदजालका महती ॥ ६० ॥

वाणि तव स्तुतिविषये बुद्धिर्जाता हि मे सहसा ।
तेन मम भागदेयं परिणतिमित्येव नित्यसंतुष्टः ॥ ६१ ॥

सृष्टिकलामण्डनभूरेषा वाणी जगज्जननी ।
आलोकमात्रवशतस्तमसो हन्त्री च संपदां जननी ॥ ६२ ॥

पौरुषलोपविधात्री धातुरियं कमलकोमलाङ्गलता ।
वसतु सदा जिह्वाग्रे दिव्यज्ञानप्रदा देवी ॥ ६३ ॥

प्रतिदिनदुरितनिहन्त्री पद्मासननयनपुण्यपरिपाकः ।
कवितासंतानकलाबीजङ्कुरवर्धिनी जयति ॥ ६४ ॥

क्षणवीक्षणेन माता लक्ष्मीं पक्ष्मलयति प्रणते ।
वेधसि सुरतमहोत्सवसंकेततलप्रदर्शिनी काले ॥ ६५ ॥

श‍ृङ्गारविभ्रमवता नीलोत्पलकान्तिचातुरीसुपुषा ।
वाणीनेत्रेण विधिर्जितोऽभवत् सोऽपि सततकृतवेदः ॥ ६६ ॥

श्यामा कटाक्षलहरी मातुर्जयतीह संपदां जननी ।
यामस्तौषीत् काले मघवा नाकाधिपा मुनयः ॥ ६७ ॥

मणिकटकनादपूरितमम्बापादाम्बुजं महामन्त्रैः ।
जप्यं ध्येयं काले दिशि दिशि कलितस्वरक्षं च ॥ ६८ ॥

स्मरणेन दुरितहन्त्री नमनेन कवित्वसिद्धिदा वाणी ।
कुसुमसमर्पणकलया काले मोक्षप्रदात्री च ॥ ६९ ॥

विसृमरतमोनिहन्त्रि त्वां सेवे शारदादेवि ।
शिशिरीकुरु मां काले करुणारसवीक्षितेन वरदेन ॥ ७० ॥

मातर्नमोऽस्तु तावककटाक्षमधुपाय शारदे जयति ।
यो वेधसोऽपि काले सृष्ट्यादौ चातुरीं दित्सन् ॥ ७१ ॥

सुमनोवाञ्छादाने कृतावधानं धनं धातुः ।
धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ ७२ ॥

See Also  335 Names Of Shrivallabh Namavali In Gujarati

ललितगमनं त्वदीयं कलनूपुरनादपूरितं वाणि ।
नौमि पदाम्बुजयुगलं कवितासिद्ध्यै विधेः कान्ते ॥ ७३ ॥

कमलकृतवैजयन्ती विधेर्मुखेष्वादराद्वाण्याः ।
जयति कटाक्षलहरी तोरणलक्ष्मीस्तु सत्यलोके हि ॥ ७४ ॥

निश्रेणिका च मुक्तेः सज्ज्ञाननदीमहालहरी ।
नानारसचातुर्यप्रसारिका दुरितशङ्कुला काले ॥ ७५ ॥

परतन्त्रितविधिविभवा देवी सा शारदा जयति ।
कैवल्यादिकलानां दात्री भक्तालिकामधेनुर्या ॥ ७६ ॥

कविकामधेनुरेषा मञ्जुस्मेराननाम्भोजा ।
वाणी जयति विधातुर्मननागमसंप्रदायफलदा हि ॥ ७७ ॥

घनतरकृपारसार्द्रैर्नानाविभवप्रदानकृतदीक्षैः ।
वाणी जयति कटाक्षैर्नः काश्मल्यं हठान्निरस्यन्ती ॥ ७८ ॥

दासाशादानकलाप्रक्लृप्तदीक्षाकटाक्षलहरी मे ।
कबलयतु पापराशिं वाण्या नित्यं महौदार्या ॥ ७९ ॥

आदिमजननी सैषा वाणी जयतीह भक्तरक्षायै ।
सर्वत्र कलितदेहा नानाशास्त्रादिरूपतो जगति ॥ ८० ॥

बहुविधलीलासदनं संभृतफुल्लाब्जशिल्पवैचित्र्यम् ।
वाणीमुखारविन्दं चुम्बति मानसमिदं हठात् कृत्यम् ॥ ८१ ॥

सौभाग्यकान्तिसारं वदनाम्भोजं श्रियै वाण्याः ।
आश्रित्य सकलवेदा अपि नित्यं मान्यतां प्राप्ताः ॥ ८२ ॥

ज्ञानमयी सलिलमयी तत्त्वमयी भाति सर्वलोकानाम् ।
अक्षरमयी च वाणी श्रेयोदाने निबद्धचित्तगतिः ॥ ८३ ॥

नमौक्तिरस्तु मात्रे वाण्यैः नः सिद्धिदा भक्त्या ।
आनन्दिन्यै ज्ञानस्वरूपभाजे प्रबन्धरूपायै ॥ ८४ ॥

आराध्यायै ध्येयायै चात्तकलाचित्रनादरूपायै ।
सच्चित्तवासभाजे वाण्यै भूयो नमोऽस्तु भक्तिकृतम् ॥ ८५ ॥

कमलासनपुण्यकला नमतां चिन्तामणिर्वाणी ।
जीवाक्षरबोधकलारूपा जयतीह सत्त्वरूपवती ॥ ८६ ॥

ब्रह्माण्डमण्डलमिदं व्याप्तं मात्रा क्षराक्षरादिजुषा ।
यत्पदकमलं नित्यं श्रुतिततिसुदतीविभूषणं च विदुः ॥ ८७ ॥

मनसिजसाम्राज्यकलालक्ष्मीरेषा विरिञ्चिमुखहर्षम् ।
व्यातन्वाना नित्यं राजति षडरस्वरूपचक्रतले ॥ ८८ ॥

मञ्जुलवीणानिनदप्रयोगनिर्धूतमोहसंचारा ।
हंसीयाना वाणी हंसगतिः सुकृतिनेत्रपुण्यकला ॥ ८९ ॥

कुचकलशसविधविनिहितवीणानिक्काणसावधानकला ।
अधिनेत्री हि कलानां सकलानां शारदा जयति ॥ ९० ॥

त्रिदशपरिषन्निषेव्या प्रातः सायं प्रफुल्लमुखकमला ।
कमलास्नुषा हि वाणी वाणीं दिशतु प्रबन्धरसभरिताम् ॥ ९१ ॥

अधिकचपलैः कटाक्षैरञ्चितलीलारसैरुदारैर्नः ।
मङ्गलमातन्वाना विधातृगृहिणी सुरादिनुतपादा ॥ ९२ ॥

कान्तं लक्ष्मीभवनं मुखकमलं शारदादेव्याः ।
सौभाग्यकान्तिसारं स्पृहयति मे मानसं सरसम् ॥ ९३ ॥

कारुण्यपूर्णनयनं पुस्तकहस्तं महः किमपि ।
धातुः पुण्यकलानां परिपाको मर्त्यरक्षणं कुरुते ॥ ९४ ॥

संसारवारिराशिं तर्तुं सा सेतुरेषा नः ।
धातुर्गृहिणी दुःखं शिथिलयतु परं जनिप्राप्तम् ॥ ९५ ॥

सरसकविकल्पवल्लीमम्बां वाणीमहमुपासे ।
अन्तस्तमोनिहन्त्रीं यामाहुर्ज्ञानदां मुनयः ॥ ९६ ॥

मम लोचनयोर्भूयात् विद्या कापि प्रधूतजनिभीतिः ।
निगमेषु संचरन्ती कृपानिधिः शारदा देवी ॥ ९७ ॥

शमितनतदुरितसंघा धात्रे निजनेत्रकल्पितानङ्गा ।
कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ ९८ ॥

पद्मासनस्थितां तां वाणीं चतुराननां वन्दे ।
कल्याणानां सरणिं कविपरिषत्कल्पवल्लरीं मान्याम् ॥ ९९ ॥

कुचभारसंनताङ्गीं कुन्दस्मेराननाम्भोजाम् ।
कुन्दलकुसुमपरिमलसंपादितभृङ्गझंकृतितरङ्गाम् ॥ १०० ॥

चिद्रूपां विधिमहिषीं हंसगतिं हंससंनुतचरित्राम् ।
विद्याकलादिनिलयामाराध्यां सकलजडिमदोषहरीम् ॥ १०१ ॥

जननि यदि भजति लोके तव लोचनवीक्षणं क्षणं मर्त्यः ।
कुपुरुषनुतिविमुखस्ते रूपं ज्ञानप्रदं पश्यन् ॥ १०२ ॥

कुक्षिंभरित्वमुखदुर्गुणादिकं दूरतस्त्यक्त्वा ।
त्वद्भावनेन धन्यो नयति च कालं प्रमोदेन ॥ १०३ ॥

मयि तापभारशान्त्यै तरङ्गय त्वदिलोचने मातः ।
यच्छारदाब्जसुषमामान्ये देवादिभिः प्रार्थ्ये ॥ १०४ ॥

सर्वार्थदा हि भजतां कटाक्षधाटी शिवंकरी वाणि ।
चिन्तामणिमिव कलयति यां हि विधिर्विदितमन्त्रोऽपि ॥ १०५ ॥

सुकृतपरिपाकमानसा धन्यास्त्वामर्चयन्ति ननु वाणि ।
अहमपि तद्वत्कलये फलप्रदा त्वं समानकल्पासि ॥ १०६ ॥

निगमवचसां निदानं तव पादाब्जं वतंसयतु काले ।
देवोऽपि देवदेवो विजितजगत्त्रयतले मातः ॥ १०७ ॥

अन्तस्तमसो हन्त्री पटीयसी ते कटाक्षझरमाला ।
या तोरणमाल्यश्रियमातनुते वेधसः सौधे ॥ १०८ ॥

श‍ृङ्गारविभ्रमवतीं त्वां प्राप्यैव क्रियाकाले ।
कलयति सृष्ट्यादिमसौ विधिः श्रुतिव्यक्तमाहात्म्यः ॥ १०९ ॥

वेधोवदनं केलीवनमासाद्याम्ब परमया हि मुदा ।
क्रीडसि शुकीव काले द्विजसंघसमर्चितात्मवृत्तिश्च ॥ ११० ॥

धातुर्मुखमञ्जूषारत्नं निगमान्तकेलिवनहंसीम् ।
परमां कलामुपासे तामम्बां चिद्विलासघनवृत्तिम् ॥ १११ ॥

वागीशदेवरूपिणि गीष्पतिमुखदेवसंघनुतचरणे ।
तव रूपं सूर्यायुतदृश्यं दर्शय मम ज्ञाने ॥ ११२ ॥

दिव्यज्ञानप्रदमिदमम्ब त्वद्रूपमादराद्वाणि ।
काले दर्शय कृपया तेन वयं प्राप्तकार्यसाफल्याः ॥ ११३ ॥

अम्बा त्रिसंध्यपठनप्रवृत्तिभाजां क्रमेण नाम्नां तु ।
द्वादशकलाविभेदव्यूहादिज्ञानदा प्रसन्ना हि ॥ ११४ ॥

मूकोऽपि सत्कविः स्याद् दुरक्षराण्यपि विधातृलिखितानि ।
सत्फलदानि सरस्वति कटाक्षपूरे यदि कापि ॥ ११५ ॥

अवलम्बे तामम्बां पञ्चाशद्वर्णकल्पितजगत्काम् ।
सृष्टिस्थितिसंहारस्थिरोदयां विविधशास्त्ररूपाढ्याम् ॥ ११६ ॥

वाणीं दिशतु मनोज्ञां वाणी गतिहसितकादम्बा ।
या दम्भादिविमुक्ता नादं भाव्यं वदन्ति यद्रूपम् ॥ ११७ ॥

राकेन्दुवदनबिम्बा साम्बा वाणी पुनातु कृतिमेनाम् ।
परिकलितभावबन्धां रसोज्ज्वलां मङ्गलोत्तुङ्गाम् ॥ ११८ ॥

लावण्यकान्तिसिन्धुः पादाब्जनतप्रभावसंधात्री ।
प्रसृमरतमोनिहन्त्री मद्वाचां देवता चाद्या ॥ ११९ ॥

जनतानेत्रानन्दं रूपं यस्याः स्फुटं भाति ।
स्मरणं त्वज्ञानहरं विश्वज्ञानप्रदं च सा जयति ॥ १२० ॥

सहधर्मिणी विधातुर्दारिद्र्यध्वंसिनी निजकटाक्षैः ।
सांनिध्यं जनयतु मे सुरमुनिनरसंनुतस्वमहिमेयम् ॥ १२१ ॥

मुखरितवीणा वाणी वाणीं मे दिशतु नैजनुतियोग्याम् ।
आस्वादितशास्त्रामृतलहरीं सद्यस्तमोनिहन्त्रीं च ॥ १२२ ॥

मणिनूपुरनादनिभा वाणी भाति त्वदीयभक्तमुखे ।
कीर्तिर्दिशासु शुद्धिर्वपुषि बहुमुखी परं काले ॥ १२३ ॥

तव पादस्मरणवशात् ताम्यति तिमिरावलिश्चान्तः ।
आनन्दलहरिवीची प्रसर्पति क्षमातले हि भक्तानाम् ॥ १२४ ॥

संपन्नलिनीभानुं ज्ञानाब्धिसुधाकरं हि तव रूपम् ।
भक्त्या मनसि गृणन्तो गच्छन्ति व्योमयानमारूढाः ॥ १२५ ॥

हृत्तमसां दीपरुचिर्विधातृदयिता ममास्तु परदैवम् ।
भवतापमेघमाला कविशुकवासन्तिकश्रीर्हि ॥ १२६ ॥

मम मानसमणिहर्म्ये विहरतु वाण्याः स्वरूपं तु ।
निगमवचसां निगुम्फैर्वेद्यं तद्वेधसा लाल्यम् ॥ १२७ ॥

सततमभिगम्यरूपा विबुधवरेड्या सरस्वती माता ।
मनसि मम संनिधत्तां भूत्यै नः सर्वतः काले ॥ १२८ ॥

मम शिरसि नीचपुण्ये पुण्यघना वेदमौलिहर्म्या च ।
कृतपदविन्यासभरा वाणी जयतीह शतमखादिनुता ॥ १२९ ॥

मायानिरसनदक्षा मातेयं सुप्रसन्ना मे ।
लभते परमं ज्ञानं यद्भक्त्या पामरोऽपि च धरित्र्याम् ॥ १३० ॥

वाणीश्वरि तव रूपं नामस्मरणं च पूजनं भक्त्या ।
सिध्यति सकलविभूत्यै तत्र हि भवतीदयाप्रसारस्तु ॥ १३१ ॥

सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी ।
कमलजमान्यचरित्रा सुमनोवाञ्छाप्रदानकृतदीक्षा ॥ १३२ ॥

पङ्कजमृणालतन्तुप्रतिभटरूपं क्वचिद्दृश्यम् ।
कविकुलवाणीकैरवशारदचन्द्रप्रभाकबलितं च ॥ १३३ ॥

नलिनभवगृहिणि वाणि प्रह्वानां सपदि भक्तानाम् ।
लुम्पसि मोहं भवतीस्मरणाद्वरिवस्यया स्तुत्या ॥ १३४ ॥

कविकुलकल्पकवल्लीमपाङ्गलीलाकृतार्तिशमनां ताम् ।
वाणीमन्वहमार्याराध्यां मोक्षाय निभृतमहमीडे ॥ १३५ ॥

संवित्सुखस्वरूपामम्बां वाणीमहर्निशं मनसि ।
कलये कलिताप्रभरप्रशान्तिकामः प्रभावतीं जयदाम् ॥ १३६ ॥

नतपरिपालिनि वाणि त्रिजगदघध्वंसिनि श्रितानां नः ।
तव पादयुगं निगलं भवतु तमोराशिदुष्टहस्तिगणे ॥ १३७ ॥

कामादिदुर्ग्रहकृतानर्थनिरासाय तावकापाङ्गाः ।
वाणि जनयन्ति नतानां कैवल्य खप्रदानाय ॥ १३८ ॥

तव दर्शनं हि मातः परमं संस्कारमात्तपापानाम् ।
कल्याणसूक्तिकन्दलरसप्रदं मान्यते विबुधैः ॥ १३९ ॥

धातुर्वदनसरोजे श्रुतिसीमनि हृदि च भक्तानाम् ।
एकपदा द्विपदा वा राजति वाणी जगन्माता ॥ १४० ॥

मणिमयकाञ्चीलसिता वीणापुस्तककरारविन्दा च ।
नमतां जाड्यविधूननधृतदीक्षा राजते वाणी ॥ १४१ ॥

कबलयतु तापमस्याः स्मरणं पादाब्जवन्दनं वाण्याः ।
धातुर्जिह्वाग्रतले नृत्यन्त्याः सारसूक्तिरसयन्त्याः ॥ १४२ ॥

पद्मजवदनविभूषा निगमशिखोत्तंसपीठिका वाणी ।
सकलविधशास्त्ररूपा भक्तानां सत्कवित्वदानप्रा ॥ १४३ ॥।

गतिजितमरालगमना मरालवाहा च वेधसो दाराः ।
शिशिरदयासारा सा नमतां संतापहारिणी सहसा ॥ १४४ ॥

स्तनभारसंनताङ्गी दरदलिताम्भोजलोचनान्तश्रीः ।
सविधतले विबुधवधूपरिचरणाद्यैश्च तुष्टचित्ता सा ॥ १४५ ॥

हरिणाङ्कवदनबिम्बा पृथुलनितम्बा कचात्तलोलम्बा ।
निजगतिजितकादम्बा साम्बा पदपद्मनम्रभक्तकदम्बा ॥ १४६ ॥

परिहसितनीलनीरजदेहश्रीः शारदा प्रथमा ।
स्फटिकमणिभरकान्तिः सरस्वती कीर्त्यते च विबुधगणैः ॥ १४७ ॥

नाथे दृढभक्तिमती सृष्ट्यादौ चित्स्वरूपा च ।
धात्रा समानभावा चैकासनपूण्डरीकमध्यस्था ॥ १४८ ॥

प्रीत्या सरसपुमर्थान् ददाति काले चिदादिसंधात्री ।
सा मे दैवतमेषा सततनिषेव्या च कामदा भूयात् ॥ १४९ ॥

हरिचरणनलिनयुगले सदैकताना हि शारदा जननी ।
पद्मानीलादिसखी श्रुत्युद्याने विहाररसभरिता ॥ १५० ॥

धातुः कुटुम्बिनीयं तन्यात् कल्याणसंततिं सततम् ।
या तारुण्यविभुषा समक्रमा त्रिपुरसुन्दर्या ॥ १५१ ॥

See Also  300 Names Of Sharada Trishati In Tamil

नानाक्षरादिमातृकगणेडिता शब्दरूपा च ।
नादब्रह्मविलासा वाणी सा मङ्गलानि नस्तन्यात् ॥ १५२ ॥

दृक्कोणवीक्षणकलानिगमप्राभवविधानदा नमताम् ।
विबुधानां हृदयाब्जं यस्या वासस्थली च निर्दिष्टम् ॥ १५३ ॥

मोहादिवनकुठारा या नित्यं सेव्यते त्रिदशसंधैः ।
नित्यप्रसन्नरूपां शान्तां यामेव सेवते वेधाः ॥ १५४ ॥

नमतां ययैव खण्डीक्रियते सुवर्णदृष्टिपुषा ।
यद्वीक्षणेन पुरुषः ख्यातो नृपसदसि मान्यते प्रथमम् ॥ १५५ ॥

यस्यै श्रोत्रियवर्यैस्त्रिसंध्यमधार्दिकं क्रियते ।
सा मञ्जुनीतिरूपा वाणीरूपा च भण्यते निपुणैः ॥ १५६ ॥

सा मयि तन्यादीक्षां वीक्षावनदां सरस्वती देवी ।
संतानकुसुमजैत्रीं यामैच्छत् प्राप्तुमञ्जसा वेधाः ॥ १५७ ॥

मन्दस्मितमधुरास्यं कृपावलोकं निरस्तजाद्यतति ।
भूयाद् वाण्या रूपं पुरः कराम्भोजकलितवीणादि ॥ १५८ ॥

वाण्याः परं न जाने दैवतमन्यद् वने गिरौ च पथि ।
गगने वा संरक्षितनतजनतायाः कृपारसार्द्रायाः ॥ १५९ ॥

आस्येन्दोरवलोकनमम्बायाः पादपद्मसेवा च ।
सर्वश्रेयःप्राप्त्यै शास्त्रज्ञैः सुष्ठु निर्दिष्टा ॥ १६० ॥

वाणी हि तापहन्त्री जगतां कारुण्यपूर्णनयनश्रीः ।
मन्दान् करोति विबुधान् द्रावयति शिलास्ततस्तु किं चित्रम् ॥ १६१ ॥

यस्मिन् कटाक्षपूरो न भवति स हि दीनवदनः सन् ।
प्रस्खलितवाग्भार्तो भिक्षामटतीह निन्दितो बहुशः ॥ १६२ ॥

वाण्याः कटाक्षपूरस्रजा त्वलंकृतनिगालो यः ।
स हि भवति राजमान्यः कान्ताधरमधुरवाग्विलासश्च ॥ १६३ ॥

कविताभाग्यविधात्री परिमलसंक्रान्तमधुपगणकेशा ।
मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ १६४ ॥

परचिद्विधानरूपा वाणी श्रुतिसीम्नि राजते परमा ।
मुनिजनमानसहंसी या विहरति सा शुभाय स्यात् ॥ १६५ ॥

जपमालिकया वाणीकरधृतया वीणया च कोशेन ।
अहमस्मि नाथवानिह किं वाशास्यं परं लोके ॥ १६६ ॥

कैवल्यानन्दसुखप्राप्त्यै तेजस्तु मन्महे किमपि ।
यद् वाञ्छितचिन्तामणिरिति वाणीति च भुवि ख्यातम् ॥ १६७ ॥

कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा ।
सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ १६८ ॥

यस्या दृष्टिविदूराः कुमताः श्रुत्यर्थवञ्चकाः शप्ताः ।
क्रन्दन्ति दिगन्ततटे मोहाद्यैर्लुप्तनयनाश्च ॥ १६९ ॥

सत्परिषत्संमान्या श्रुतिजीवनदायिनी जगन्माता ।
चतुराननभाग्यकला कृतसांनिध्या हि राजते हृदये ॥ १७० ॥

कृतसुकृतैः संदृश्या मन्दस्मितमधुरवदनपद्मश्रीः ।
मुनिनारदादिपरिषत्तत्त्वोपक्रमविचक्षणा वाणी ॥ १७१ ॥

कविवाग्वासन्तीनां वसन्तलक्ष्मीर्विधातृदयिता नः ।
परमां मुदं विधत्ते काले काले महाभूत्यै ॥ १७२ ॥

कवितारसपरिमलितं करोति वदनं नतानां या ।
स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ १७३ ॥

यस्याः प्रसादभूम्ना नाकिगणाः सत्त्वसंपन्नाः ।
ऐन्द्रीं श्रियमपि मान्यां पश्यन्ति क्षपितशत्रुभयपीडाम् ॥ १७४ ॥

मान्यं विधातृलोके तत्तेजो भाति सर्वसुरवन्द्यम् ।
ब्रह्माण्डमण्डलमिदं यद्रूपं यत्र चाक्षरगतिश्च ॥ १७५ ॥

जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे ।
तेन वयं कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ १७६ ॥

वाणि विधातुः कान्ते स्तोतुं त्वामादरेण किं वाच्यम् ।
भासि त्वमेव परमं दैवतमित्येव जानामि ॥ १७७ ॥

कबलिततमोविलासं तेजस्तन्मन्महे महोदारम् ।
फलितसुमनोऽभिलाषं वाणीरूपं विपञ्चिकोल्लसितम् ॥ १७८ ॥

पद्मसनसुकृतकलापरिपाकोदयमपास्तनतदोषम् ।
सरसज्ञानकवित्वाद्यनन्तसुकृतं विराजते तेजः ॥ १७९ ॥

निजनाथवदनसिंहासनमारूढामुपास्महे वाणीम् ।
या कृत्रिमवाग्गुम्फैर्विरचितकेलिर्धिनोति विधिमाद्यम् ॥ १८० ॥

सुजनानन्दकरी सा जनयन्ती सर्वसंपदं धातुः ।
भक्तेषु तां नयन्तीमन्वहमहमाद्रिये गिरां देवीम् ॥ १८१ ॥

करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा ।
वाण्या विधातृमान्या सत्सुखदाने दिशि ख्याता ॥ १८२ ॥

विसरो महोत्सवानां विरिञ्चिनयनावलेरियं माता ।
प्रियकार्यसिद्धिदात्री जगतीरक्षाधुरंधरा जयति ॥ १८३ ॥

विबुधाभिगम्यरूपा हंसावलिसेविता गिरां देवी ।
गङ्गेव कनति काले परिकम्पितशिवजटाकोटिः ॥ १८४ ॥

नौकां भवाम्बुराशेरज्ञानध्वान्तचन्द्रिकां वाणीम् ।
कलये मनसि सदाहं श्रुतिपञ्जरशारिकां देवीम् ॥ १८५ ॥

भवतापारण्यतले जह्नुसुता शारदा देवी ।
ज्ञानानन्दमयी नः संपत्सिद्ध्यै प्रतिक्षणं जयतु ॥ १८६ ॥

मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा ।
मन्दस्मेरमुखाब्जा वाणी मम हृदयसारसे लसतु ॥ १८७ ॥

रक्षणचणौ च वाण्याः पादौ वन्दे मनोज्ञमणिनादौ ।
यत्सेवनेन धन्याः पुरुहूताद्या दिशां नाथाः ॥ १८८ ॥

धातुर्धैर्यकृपाणी वाणी सुरवृक्षकुसुममृदुवेणी ।
शुकवाणी नुतवाणी कविकुलमोदाय जयति मृदुवाणी ॥ १८९ ॥

कल्याणैकनिकेतनमस्या रूपं सदा स्फुरतु चित्ते ।
मानसकालुष्यहरं मधुमथनशिवादिबहुमतोत्कर्षम् ॥ १९० ॥

मुनिजनमानसरत्नं चिरत्नमेतद्विधातृसुकृतकला ।
विनतजनलोचनश्रीकर्पूरकला परा जयति ॥ १९१ ॥

धृतसुममधुपक्रीडास्थानायितकेशभारायै ।
नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ १९२ ॥

बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजानाम् ।
नयनयुगासेव्यं तद्भातीह धरातले तेजः ॥ १९३ ॥

कुशलविधये तदस्तु श्रुतिपाठरतादृतात्मबहुकेलिः ।
कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ १९४ ॥

बालमरालीगत्यै सुरगिरिकन्यादिमहितकलगीत्यै ।
विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ १९५ ॥

विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् ।
तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ १९६ ॥

कमलजपरतन्त्रं तद्गततन्द्रं वस्तु निस्तुलमुपासे ।
तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ १९७ ॥

ज्ञानामृतसंधात्री भवाब्धिसंतरणपोत्रनामादिः ।
वाणी वाचां लहरीमवन्ध्ययन्ती सुरादिनुतचरिता ॥ १९८ ॥

कारुण्यपूर्णमेतद् वाणीरूपं सदा कलये ।
यद्भजनाद् देवानामपि संविद् भाति कार्यकालेषु ॥ १९९ ॥

धीपद्मपीठमास्ते सा वाणी काङ्क्षितानि कलयन्ती ।
या घनकृपास्वरूपा संकीर्त्या सर्वदेवनुता ॥ २०० ॥

तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु ।
निरसितनरकादिभयो विराजते नाकिसदसि सुरमान्यः ॥ २०१ ॥

कुचयुगलनम्रगात्रं पवित्रमेतद् भजे तेजः ।
धातुरपि सर्वदेवैर्यन्निर्दिष्टं हु भद्राय ॥ २०२ ॥

कृतनतपदवाग्धाटी चेटीभूतामरेशमहिषी नः ।
कटिकृतमनोज्ञशाटी पाटीररसार्द्रनैजतनुकोटी ॥ २०३ ॥

पद्मभवपुण्यकोटी हर्षितकविबृन्दसूक्तिरसधाटी ।
मुखलसितसरसवाटी विलसतु मम मानसे कृपाकोटी ॥ २०४ ॥

ज्ञानपराक्रमकलिका दिशि दिशि किन्नरसुगीतनिजयशसः ।
धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ २०५ ॥

सुरजनपालनदक्षा प्रशान्तवीक्षा निरस्तरिपुपक्षा ।
मोक्षार्थिभिः श्रिता सा लाक्षारसलसितपादभाग् भाति ॥ २०६ ॥

कुङ्कुमभररुचिराङ्गी भाति कृशाङ्गी गिरां देवी ।
धातुरपि ज्ञानप्रदमस्या रूपं वदन्ति विबुधेशाः ॥ २०७ ॥

वाणि नतिमम्ब नित्यं करवाणि हि चित्सुखावाप्त्यै ।
तादृक्त्वदीयकरुणावीक्षणतो गीष्पतिश्च सुरमान्यः ॥ २०८ ॥

कल्यामि नतिमनन्तां काले काले शुभप्राप्त्यै ।
धातुः सुकृतोल्लासं करधृतवीणादिकं च यद्रूपम् ॥ २०९ ॥

कमलासनदयिता सा लसतु पुरोऽस्माकमादरकृतश्रीः ।
यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो भवति ॥ २१० ॥

परसंविदात्मिका सा महिषी धातुः कलावती वाणी ।
शिशिरीकरोति तप्तान् करुणारसदिग्धनेत्रपाल्या नः ॥ २११ ॥

धातृमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् ।
आश्रितकमलजगोत्रं रक्षितनतबाहुच्छात्रम् ॥ २१२ ॥

कविकुलजिह्वालोलं पितामहादृतमनोज्ञनिजलीलम् ।
निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ २१३ ॥

मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी ।
कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ २१४ ॥

निस्तुलपदसंप्राप्त्यै भूयो भूयो नमांसि ते वाणि ।
दीपकलामयि चान्तःस्मरणं धातुः कुटुम्बिन्यै ॥ २१५ ॥

मायानिरासकामो वन्दे वाण्याः पदाम्भोजम् ।
सिद्धमनोरथशतका यद्भजनेनार्थिनः काले ॥ २१६ ॥

सततं बद्धाञ्जलिपुटुमुपास्महे तच्छुभप्रदं तेजः ।
यत्कमलजनयनानां प्रमोदपीयूषलहरिकामोदम् ॥ २१७ ॥

दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतो वाणि ।
जन्तूनां किल रक्षा त्वधीना कीर्त्यते विबुधैः ॥ २१८ ॥

भारति भवतापार्तान् पाहि कटाक्षाङ्कुरैः शीतैः ।
परमनन्दविधातृन् यानेव स्तौति पद्मवासोऽपि ॥ २१९ ॥

कुलदैवतमस्माकं तत्तेजः कुटिलकुन्तलं किमपि ।
करधृतपुस्तकवीणं कलये कामागमोदयं धातुः ॥ २२० ॥

परमानन्दधनं तद्धातुरपि ब्रह्मतत्त्वरसदायि ।
आब्रह्मकीटनृत्यत्स्ववैभवं जयति शारदारूपम् ॥ २२१ ॥

विबुधजनमोदजननी जननी नः सा विधेः पत्नी ।
मृदुसंचारविलासैः शुभंकरी भवतु संततं काले ॥ २२२ ॥

सरसमनोज्ञविलासैः स्ववशे कृत्वा मनो विधेर्वाणी ।
सृष्ट्यादौ शुभलेखाकरी नृणां मस्तके माता ॥ २२३ ॥

प्रकृतिमृदुलं पदाब्जं वाणीदेव्या मदीयचित्ततटे ।
कामादिसूचिनिचिते कथं स्थितिं प्राप्नुयात् काले ॥ २२४ ॥

निखिलचराचररक्षां वितन्वती पद्मजप्रिया देवी ।
मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ २२५ ॥

कुशलसमृद्ध्यै भूयादम्बा सा शारदा देवी ।
जनिरक्षणादिलीलाविहारभाङ्निगमसौधदीपकला ॥ २२६ ॥

वाचालयति कटाक्षैर्जडं शिलामल्पजन्तुं वा ।
या वाणी सा शरणं भवे भवे प्रार्थ्ये श्रियःप्राप्त्यै ॥ २२७ ॥

See Also  300 Names Of Sri Rudra Trishati In Bengali

यदि हि प्रसादभूमा वाण्यास्तत्रैव सा हरेः कान्ता ।
परिलसित ( … incomplete … ) नित्यवासरता ॥ २२८ ॥

सनकसनन्दनवन्द्ये कान्ते परमेष्टिनः श्रियःप्राप्त्यै ।
वाणि त्वां नौमि सदा भव प्रसन्ना विप`न्चिलसितकरे ॥ २२९ ॥

वाणि विपञ्चीकलरवरसिके गन्धर्वयोषिदभिवन्द्ये ।
तव चरणं मम शरणं भववारिधिसुतेमम्ब कलयामि ॥ २३० ॥

वाणि कदाहं लप्स्ये चरणाम्भोजं त्वदीयमिदमारात् ।
निजमणिनूपुरनादस्पृहणीयवचःपदं कलितभक्तेः ॥ २३१ ॥

श्रुतिपूतमुखमनोहरलावण्यकुसुममृदुशरीरेयम् ।
निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ २३२ ॥

परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः ।
कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ २३३ ॥

प्रेमवती विधिभवने हंसगतिर्हंसयानकृतचारा ।
वाचामकृत्रिमानां स्थैर्यविधात्री महेशानी ॥ २३४ ॥

आनन्दरूपकोटीमम्बां तां संततं कलये ।
संविद्रूपा या किल विधातृगेहे श्रुतिश्रियं धत्ते ॥ २३५ ॥

कमलजनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः ।
ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ २३६ ॥

कारुण्यपूर्णनयना कलिकल्मषनाशिनी च सा वाणी ।
मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ २३७ ॥

कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् ।
रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ २३८ ॥

कमलजतपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् ।
करुणालोलापाङ्गं तत्तेजो भातु मम मुखाम्भोजे ॥ २३९ ॥

भाग्यं विधिनयनानां संसृतितापज्वरादितप्तानाम् ।
भेषजमेतद्रूपं कलाग्रहं मन्यते देव्याः ॥ २४० ॥

जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः ।
निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ २४१ ॥

मञ्जुलकवितासंततिबीजाङ्कुरदायिसारसालोका ।
जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ २४२ ॥

अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती ।
धातुर्हृदये जयति व्रीडामदमोदकामसारकरी ॥ २४३ ॥

सर्वजगन्नुतविभवे संततमपि वाञ्छितप्रदे मातः ।
अधुना त्वमेव शरणं तेनाहं प्राप्तजन्मसाफल्यः ॥ २४४ ॥

शान्तिरससर्वशेवधिमम्बां सेवे मनोरथावाप्त्यै ।
यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तद्रक्षम् ॥ २४५ ॥

कुलजा भार्या कीर्तिर्दानं पुत्रादयो ये च ।
सिध्यन्ति ते हि सर्वे यस्मै वाणी प्रसन्ना सा ॥ २४६ ॥

का क्षतिरम्ब कटाक्षे न्यस्ते सति मयि विरिञ्चिवरपत्नि ।
गङ्गाशुनकन्यायान्महती मम वृद्धिरीरिता निपुणैः ॥ २४७ ॥

अविरलदयार्द्रलोचनसेवनया धूततापा हि ।
प्रतिकल्पं सुरसंघास्त्वामभजन् नुतिनतिप्रमुखैः ॥ २४८ ॥

दीनानां च कवीनां वाणि त्वं कामधेनुरसि मातः ।
सिद्धिस्तेषामतुला सुरमान्या तेन संकलिता ॥ २४९ ॥

सकलजगतां हि जननीं वाणि त्वां संततमुपासे ।
श्रुतिसुदतीभूषामणिमखिलार्थप्राप्त्यै लोके ॥ २५० ॥

धातुः कुटुम्बिनी त्वं सन्मङ्गलदायिनी स्वमाहात्म्यात् ।
श्वश्रूश्वशुरमुखादिप्रीणनचतुरा च भासि निगमकला ॥ २५१ ॥

मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः ।
ध्याने जपे च सुदृशां चकास्ति हृदये कवीश्वराणां च ॥ २५२ ॥

यस्मै प्रसन्नवदना सा वाणी लोकमाता हि ।
तस्य सहसा सहस्रं लाभः स्याद् बान्धवाः सुखिनः ॥ २५३ ॥

तापहररसविवर्षणधृतकुतुका कापि नीलनलिनरुचिः ।
कादम्बिनी पुरस्तादास्तां नः संततं जननी ॥ २५४ ॥

पद्माक्षनाभिपद्मजदयिते लोकाम्ब शारदेति सदा ।
तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ २५५ ॥

अम्बाप्रसादभूम्ना नरो हि भुङ्क्ते सुखानि विविधानि ।
स्मरे विजयः कविताधनलक्ष्म्यादेर्विलासलीलादिः ॥ २५६ ॥

तीरं संसृतिजलधेः पूरं कमलजविलोचनप्रीतेः ।
सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ २५७ ॥

अपि दासकुले जातः कटाक्षभूम्ना विधातृमुखपत्न्याः ।
ज्ञानी भववाराशिं तरति च राज्यश्रियं भुङ्क्ते ॥ २५८ ॥

सत्कृतदेशिकपादाम्बुजयुगलोऽहं नमामि वाणि त्वाम् ।
त्वं तु गुरुमूर्तिरुक्ता काले काले च काङ्क्षितविधात्री ॥ २५९ ॥

ज्ञानानन्दमुखादीनपवर्गं वा ददासि भक्तेभ्यः ।
अत एवानन्यगतिस्त्वां विधिपत्नीं प्रपद्येऽहम् ॥ २६० ॥

त्वयि विन्यस्तभराणां न हि चिन्ता जायते नृणां कापि ।
परमानन्दादिकलास्फूर्तिर्दिविषद्गणेन संमान्या ॥ २६१ ॥

सुमशरसाम्राज्यकलामङ्गलविधिरेखिका वाणी ।
धातुरपि चित्तवृत्तिस्थैर्यं त्वन्यादृशं कुरुते ॥ २६२ ॥

सा धेनुश्चिन्तामणिरपि वृक्षः संपदां प्रदायिन्यः ।
अम्ब त्वमेव काले भसि ज्ञानप्रदा व्यपोह्य तमः ॥ २६३ ॥

मनसो नैर्मल्यप्रदमस्याः सेवे कटाक्षमहमारात् ।
यः कुरुते जनतां तां हतमायां मधुरामयोध्यां च ॥ २६४ ॥

शरदिव हंसकुलेड्या ज्योत्स्नेव जनार्तिहारिणी वाण्याः ।
जयति हि कटाक्षरेखा दीपकलेव प्रकामहततिमिरा ॥ २६५ ॥

पङ्कजभववदनमणिं परविद्यादेवतां वाणीम् ।
नित्यं यजतां जपतां न हि तुल्योऽस्मिन् क्षमातले कश्चित् ॥ २६६ ॥

वाणी निजवाणीभी रचयति नुतिमात्तवीणया काले ।
धातुः प्रसादहेतोः पतिव्रतालक्षणैरन्यैः ॥ २६७ ॥

आनन्दयति विलसैरम्बा पद्मासनं निजं देवम् ।
तेनैव तुष्टहृदयः शुभाक्षराण्यादराल्लिखति मौलौ ॥ २६८ ॥

मम मानसदुर्मदगजमपारतापाटवीषु धावन्तम् ।
विरचय्य मुदितचित्तं कुरु वाणि त्वत्पदाब्जकृतहस्तम् ॥ २६९ ॥

कमलासनधैर्यमहीधरकुलिशस्ते कटाक्ष एवायम् ।
कविकुलमयूरकादम्बिनीविलासो मुदेऽस्तु सततं नः ॥ २७० ॥

गुरुवरदनाम्भोजे नृत्यन्ती शारदा देवी ।
मधुरतरश्लोकनिभा मणिनूपुरनिनदसंततिर्भ्ति ॥ २७१ ॥

को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां वाणीम् ।
यां पङ्कजाक्षनाभिजसधर्मिणीमर्चयन्ति सुरनाथाः ॥ २७२ ॥

मुषितपयोजमृदिम्ना चरणतलेनात्र मानसे वाणी ।
परिहरतु पापराशिं सुरौघसंमानितेन काले मे ॥ २७३ ॥

याथार्थ्यज्ञानकलाप्राप्त्यै त्वां शारदां वन्दे ।
सेवाफलं प्रयच्छ प्रसीद परमेशि वल्लभे धातुः ॥ २७४ ॥

निगमान्तसारमर्थं बोधयसि त्वं गुरून् प्रकल्प्य भुवि ।
सैषा मे ज्ञानघना वाणी नित्यं प्रसन्नासि ॥ २७५ ॥

मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा ।
हृद्यतमनित्ययौवनमण्डितगात्री विराजते वाणी ॥ २७६ ॥

सौभाग्यसूचकाभी रेखाभिर्भूषितं सौरैर्वन्द्यम् ।
अम्बाचरणपयोजं वतंसयन् प्राप्तसंमोदः ॥ २७७ ॥

द्विजगणपूज्यं नित्यं निरस्तजाड्यं त्वदीयपादयुगम् ।
क्षणमपि वा सांनिध्यं भजतु मदीये हृदि स्वैरम् ॥ २७८ ॥

नतदेवराजमकुटीमणिघृणिपरिचुम्बिताङ्घ्रिकमला नः ।
कमलासनस्य दयिता तन्यादन्यादृशी श्रियं भजताम् ॥ २७९ ॥

वाणी श्रितकादम्बा दम्भादिरिपून् निरस्य नः काले ।
क्षेममवन्यां तन्यात् पदे परे देवसंघपरिसेव्ये ॥ २८० ॥

पङ्कजभवसाम्राज्यस्थिरलक्ष्मीश्चपाण्डरतनुश्रीः ।
नतमानवसुकृतकलापरिपाटी भाति सकलगुणपेटी ॥ २८१ ॥

मुखविजितचन्द्रबिम्बा साम्बा कादम्बसेव्यपदकमला ।
कमलासनगृहलक्ष्मीर्लक्ष्मीं पुष्णातु शारदा देवी ॥ २८२ ॥

मुरमथनस्येव रमा शंभोरिव सकलभूधरेन्द्रसुता ।
वाणि विधातुः सदनेऽनुरूपदाम्पत्यसंपदा भासि ॥ २८३ ॥

वाणि तव देहकान्त्या कटाक्षलहरी तु संयुता काले ।
धत्ते कामपि शोभां सुरस्रवन्त्येव संगता यमुना ॥ २८४ ॥

मधुरासेचनदृष्ट्या मां पायादापदो मुहुर्वाणी ।
आश्रिततापविभेत्रीत्येवं यामामनन्ति सूरिवराः ॥ २८५ ॥

अज्ञातकोपपूरा यस्या दृष्टिः कृतादरा भजताम् ।
सैषा विहसितपौरंदरलक्ष्मीं संपदं दद्यात् ॥ २८६ ॥

बालकुरङ्गविलोचनमीषत्स्मितमधुरमाननं वाण्याः ।
मणिमयताटङ्कमणीविलासि भूयान्मुदेऽस्माकम् ॥ २८७ ॥

मुनिजनमानसहंसीं श्रुतिततिपञ्जरशुकीं महादेवीम् ।
नौमि स्नुषां रमायाः माहेश्वरमहितसत्पदप्राप्त्यै ॥ २८८ ॥

धातुः सौधाङ्गणकृतचङ्क्रमणां शारदां नौमि ।
मत्तमतङ्गजगमनां परिपन्थिजयाय सुकृतिसंदृश्याम् ॥ २८९ ॥

वागीशमुखा देवा यस्याः प्रसदनबलद्धि विजयन्ते ।
परिपालितभक्तगणा यद्ध्यानोल्लसदपारपुलकान्ताः ॥ २९० ॥

नैसर्गिकवाक्ष्रेणीकेलिवनममलभूषणं धातुः ।
वदनानामियमम्बा जयतु चिरं कामवर्षिणी भजताम् ॥ २९१ ॥

कलयामि हृदयमेतत् पादाब्जे शारदादेव्याः ।
प्राप्तारिषट्कविजयं तत्त्वधनं कलितशारदाध्यानम् ॥ २९२ ॥

पादारविन्दनमनप्रभावपरिकलितदेवसारूप्याः ।
परमानन्दनिमग्नाः सुधियो भान्ति क्षमावलये ॥ २९३ ॥

ललितविधातृरूपं पालितलोकत्रयं च तत् तेजः ।
सकलागमशिखरकलापरतत्त्वं शारदारूपम् ॥ २९४ ॥

ध्यानैर्योगैश्च जपैर्यत् सेव्यं परममादिष्टम् ।
तन्नश्चकास्तु हृदये विश्वजनीनं हि भक्तानाम् ॥ २९५ ॥

भागीरथीव वाणी तव नुतिरूपा विराजते परमा ।
इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः ॥ २९६ ॥

संततमधुरालापैर्लालितविधिवैभवैरमेयकलैः ।
श्रेयःप्रदानदीक्षितकटाक्षपातैर्महातत्त्वैः ॥ २९७ ॥

खेलल्लोलम्बकचैः कुचभरनम्रैः पुरंध्रिगुणपूर्णैः ।
आश्रितसंवित्पीठैरमरेशवधूकरादृतच्छत्रैः ॥ २९८ ॥

वीणापुस्तकहस्तैर्विधिभाग्यैरस्तु मम तु सारूप्यम् ।
संविद्धनैश्च वाणीरूपैरेतैर्दयासारैः ॥ २९९ ॥

मातः कथं नु वर्ण्यस्तव महिमा वाणि निगमचयवेद्यः ।
इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३०० ॥

त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः ।
अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१ ॥

इति श्रीशारदात्रिशती समाप्ता

– Chant Stotra in Other Languages -Sharada Trishati:

300 Names of Sharada Trishati in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil