Shastuh Dhyana Ashtakam In Sanskrit
॥ Shastuh Dhyanashtakam Sanskrit Lyrics ॥ शास्तुः ध्यानाष्टकंश्रीगणेशाय नमः ।नमामि धर्मशास्तारं योगपीठस्थितं विभुम् ।प्रसन्नं निर्मलं शान्तं सत्यधर्मव्रतं भजे ॥ १॥ आश्यामकोमलविशालतनुं विचित्र-वासो वसानमरुणोत्पलवामहस्तम् ।उत्तुङ्गरत्नमुकुटं कुटिलाग्रकेशंशास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २॥ हरिहरशरीरजन्मा मरकतमणिभङ्गमेचकच्छायः ।विजयतु देवः शास्ता सकलजगच्चित्तमोहिनीमूर्तिः ॥ ३॥ पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थम् ।श्यामं कालाम्बरं च श्रितकरयुगलादर्शचिन्तामणिं च ।शस्त्री निस्त्रिंशबाणासनविशिखधृतं रक्तमाल्यानुलेपंवन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौळिम् ॥ ४॥ स्निग्धारालविसारिकुन्तलभरं सिंहासनाध्यासिनंस्फूर्जत्पत्रसुकॢप्तकुण्डलमथेष्विष्वासभृद्दोर्द्वयम् ।नीलक्षौमवसं नवीनजलदश्यामं … Read more