Kamala Trishati – 300 Names Of Kamala In Sanskrit

॥ Kamala Trishati Sanskrit Lyrics ॥

॥ कमलात्रिशती ॥

गङ्गाधरमखिविरचिता ।
परमाभरणं विष्णोर्वक्षसि सा सागरेन्द्रवरपुत्री ।
या मूर्तिर्मती काले क्षमा जनानां कृतापराधानाम् ॥ १ ॥

सा नः श्रेयो दद्यात् कमला कमलासनादिजननीं याम् ।
संप्राप्य सहचरीं हरिरवति जगन्त्यनाकुलं सततम् ॥ २ ॥

नित्यश्रेयोदाने ख्याता या हरिगृहस्य सर्वस्वम् ।
श्रुतिमौलिस्तुतविभवा सा भातु पुरः सदास्माकम् ॥ ३ ॥

विष्णुक्रीडालोला विख्याता दीनरक्षणे लक्ष्मीः ।
जननी नः स्फुरतु सदा तेन वयं किल कृतार्थाः स्मः ॥ ४ ॥

निर्वाणाङ्कुरजननी काले सा सार्वभौमपददोग्ध्री ।
निरसतिमोहसमूहा मम दैवतमादृतं गुरुभिः ॥ ५ ॥

विष्णोर्वक्षसि लसिता शीतमयूखस्य सोदरी कमला ।
कमलायतनयना नः पातु सदा पापराशिभ्यः ॥ ६ ॥

कविपरिषदा च वेदैः नित्यं स्तुतनिजमहोदया कमला ।
मनसि मम संनिधत्तां त्वमितानन्दाय लोकनाथेन ॥ ७ ॥

दुग्धोदधितनया सा दुरितनिहन्त्री कृतप्रणामानाम् ।
आनन्दपदविधात्री पत्या साकं पदे पदे लोके ॥ ८ ॥

मन्मथजननी सा मामवतु सरोजा(क्ष)गेहिनी कमला ।
यामाराध्य बुधेन्द्रा विशन्ति परमं तु तत् पदं विष्णोः ॥ ९ ॥

सत्सूक्तिकृतिविधात्री नमतामम्बा त्रिलोक्यास्तु ।
नित्यप्रसादभूम्ना रक्षति मामादरात् कमला ॥ १० ॥

मम सूक्तिरञ्जलिपुटः प्रणतिश्चानेकसंख्याका ।
कुतुकात् क्षीरोदसुताममितानन्दाय गाहते कमलाम् ॥ ११ ॥

या पारमार्थ्यसरणिः सा कमला निश्चिता वेदैः ।
सैषा हि जगन्माता संसृतितापापहन्त्री च ॥ १२ ॥

मन्दस्मितमधुराननममन्दसंतोषदायि भजतां तत् ।
कमलारूपं तेजो विभातु नित्यं मदीयहृत्कमले ॥ १३ ॥

काले क्षपयति कमला कटाक्षधाट्या हि मामकं दुरितम् ।
अत एवाश्रितरक्षणदीक्षेत्येवं जनो वदति ॥ १४ ॥

नवनवहर्म्यविधात्री नाकिकिरीटार्चिता च सा देवी ।
ज्योतिर्मण्डललसिता मुनिहृदयाब्जासना च सद्गतिदा ॥ १५ ॥

संवीक्ष्य जलधितनयां भूयो भूयः प्रणम्य भक्तगणः ।
निरसितदुरितौघः सन् स्तौति मुदा मोक्षसिद्धये कमलाम् ॥ १६ ॥

राकानिशीव देव्यां दृष्टायां भक्तगणवाणी ।
भजते जलनिधिशैलीं साङ्गोपाङ्गं कृतानन्दा ॥ १७ ॥

दुर्गतिभीत्या खिन्नः सोऽहं शरणं भजामि तां कमलाम् ।
शरणार्थिनां हि रक्षाकृदिति ख्याता हि या लोके ॥ १८ ॥

न हि कलयते हृदन्ते मन्दारं कामधेनुं वा ।
यः सेवते मुकुन्दप्रियां श्रियं नित्यभावेन ॥ १९ ॥

कैटभमर्दनमहिषीं ममाञ्जलिर्गाहतां काले ।
न हि नाथनीयमत्र क्षमातले सा प्रसन्नास्तु ॥ २० ॥

संतापपीडितं मामवतु सदा श्रीर्हरिप्रिया माता ।
रक्षितवायसमुख्या कृपानिधिः पुण्यकृद्दृश्या ॥ २१ ॥

न हि केवलं प्रणामैः स्तुत्या भक्त्या समाराध्या ।
सत्येन धर्मनिवहैर्भावेन च कमलगेहिनी कमला ॥ २२ ॥

कदाचित्कविलोकेऽप्यक्षीणानन्ददायिनी कमला ।
रक्षतु कटाक्षकलिकाङ्कूरैर्भक्तानिहादरतः ॥ २३ ॥

कलिपापग्लपितानां मुरमर्दनदिव्यगेहिनी लक्ष्मीः ।
राजति शरणं परमं वशीकृतेशा च विबुधगणसेव्या ॥ २४ ॥

नित्योल्लसदुरुमाला वक्षसि कमला हरेर्भाति ।
निजतनुभासा द्योतितकौस्तुभमणिरम्बुधेस्तनया ॥ २५ ॥

मातर्मङ्गलदायिन्यमरेन्द्रवधूसमर्चिताङ्घ्रियुगे ।
मां पाह्यपायनिवहात् संततमकलक्षमामूर्ते ॥ २६ ॥

यदि कलिता चोपेक्षा नश्येत् किल तावकी महती ।
कीर्तिरतोऽम्ब कटाक्षैः परिषिञ्च मुदा मुहुः शीतैः ॥ २७ ॥

धनधान्यसुतादिरुचिग्रस्तं मां पाहि कमले त्वम् ।
तेनोर्जितकीर्तिः स्या मातस्त्वं सर्वरक्षिणी ख्याता ॥ २८ ॥

तव पादाम्बुजयुगलध्यानं मातर्मदीयमघमाशु ।
कबलीकरोति काले तेनाहं सिद्धसंकल्पः ॥ २९ ॥

अञ्जलिकलिका हि कृता यदि तस्यै मुरनिहन्तृदयितायै ।
रसनाग्रे खेलनभाक् तस्य तु पुंसो गिरां देवी ॥ ३० ॥

मातस्तव मूर्तिरियं सुधामयी निश्चिता निपुणैः ।
यत् तद्दर्शनभूम्ना निरस्ततापा बुधा भवन्त्यचिरात् ॥ ३१ ॥

कलितजगत्त्रयरक्षाभराणि मयि देवि संविधेहि मुदा ।
त्वद्वीक्षणानि कमले तेनाहं सिद्धसंकल्पः ॥ ३२ ॥

वरदे मुरारिदयिते जयन्ति ते वीक्षणानि यानि दिवि ।
संप्राप्य तानि मघवा विजितारिर्देवसंघवन्द्यश्च ॥ ३३ ॥

मोहान्धकारभास्करमम्ब कटाक्षं विधेहि मयि कमले ।
येनाप्तज्ञानकलाः स्तुवन्ति विबुधास्त्वदीयसदसि कलम् ॥ ३४ ॥

कामक्रोधादिमहासत्त्वनिरासं कृपासारात् ।
कुरु मातर्मम संसृतिभीतिं च निराकुरु त्वमेवारात् ॥ ३५ ॥

मूढानामपि हृद्यां कवितां दातुं यदीयपरिचर्या ।
प्रभवति काले सा हि श्रीरम्बा नः प्रसन्नास्तु ॥ ३६ ॥

दिव्यक्षेत्रेषु बुधा दिनकरमध्ये च वेदमौलौ च ।
यत्स्थानमिति वदन्ति श्रीरेषा भाति संश्रितहरिर्हि ॥ ३७ ॥

निजलीलाक्रान्तहरी रक्षति कमला कटाक्षधाट्या नः ।
शरणार्थिनश्च काले विहगोरगपशुमुखानुर्व्याम् ॥ ३८ ॥

समराङ्गणेषु जयदा त्रिदशानां मौलिभिर्मान्या ।
आपदि रक्षणदक्षा सा कमला नः प्रसन्नास्तु ॥ ३९ ॥

नित्यानन्दासनभाड् नवनिधिवन्द्या च सागरेन्द्रसुता ।
विलसति माधववक्षसि पालितलोकत्रया च जननी नः ॥ ४० ॥

मुनिनुतनिजपरिपाटी वाग्धाटी दानलोलुपा भजताम् ।
शिक्षितरिपुजनकोटी विलसति धृतशातकुम्भमयशाटी ॥ ४१ ॥

निखिलागमवेद्यपदा नित्यं सद्भिः समाराध्या ।
संसृतिपाशनिहन्त्री या तस्यै चाञ्जलिः क्रियते ॥ ४२ ॥

भूयांसि नमांसि मया भक्तेन कृतानि कमलजाङ्घ्रियुगे ।
नित्यं लगन्तु तेन हि सर्वा राजन्ति संपदो मान्याः ॥ ४३ ॥

नित्यं निर्मलरूपे बरदे वाराशिकन्यके मातः ।
सद्गणरक्षणदीक्षे पाहीति वदन्तमाशु मां पाहि ॥ ४४ ॥

भुवनजननि त्वमारात् कृतरक्षणसंततिः क्षमामूर्ते ।
प्रतिवस्तु रमे कलितस्वरूपशक्त्या हि राजसे जगति ॥ ४५ ॥

जय जय कलशाब्धिसुते जय जय हरिवल्लभे रमे मातः ।
प्रातरिति विबुधवर्याः पठन्ति नामानि ते हि मे गुरवः ॥ ४६ ॥

नेत्ररुचिविजितशारदपद्मे पद्मे नमस्तुभ्यम् ।
तेन वयं गतविपदः सा मुक्तिः करगता कलिता ॥ ४७ ॥

सततं बद्धाञ्जलिपुटमुपास्महे तच्छुभप्रदं तेजः ।
यत् कमलोदरनिलयं कमलाक्षप्रीतिवीचिकापूरम् ॥ ४८ ॥

स्फुरतु मम वचसि कमले त्वदीयवैभवसुधाधारा ।
नित्यं व्यक्तिं प्राप्ता धुतनुतजनखेदजालका महती ॥ ४९ ॥

कमले तव नुतिविषये बुद्धिर्जाता हि मे सहसा ।
तेन मम भागधेयं परिणतमित्येव नित्यसंतुष्टः ॥ ५० ॥

कवितारसपरिमलितं करोति वदनं नतानां या ।
स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ ५१ ॥

हरिगृहिणि तावकं नुतरूपं ये भुवि निजे हृदम्भोजे ।
ध्यायन्ति तेषु विबुधा अपि कल्पककुसुममर्पयन्ति मुदा ॥ ५२ ॥

नानावरदानकलालोलुपहृदये हृदम्भुजस्थे माम् ।
रक्षापायात् सहसा कुरु भक्तं दोषहीनं च ॥ ५३ ॥

निजघनकेशरुचा जितनीलाम्बुधरे शशाङ्कसहजन्मन् ।
पद्मे त्वदीयरूपं मनोहरं भातु मे हृदये ॥ ५४ ॥

घनकुङ्कुमलसिताङ्गं मुक्ताहारादिभूषितं मधुरम् ।
मन्दस्मितमधुरास्यं सूर्येन्दुविलोचनं च बुधमान्यम् ॥ ५५ ॥

निबिडकुचकुम्भयुगलं निजदृग्जितहरिणशाबकाक्षियुगम् ।
लीलागतिजितकलभं मधुवैरिमनोहरं च सुरमान्यम् ॥ ५६ ॥

दिशि दिशि विस्तृतसंपद्विलासमधुरं च कुन्ददन्तालि ।
मदनजनकं च विष्णोः सर्वस्वं सर्वदानचणम् ॥ ५७ ॥

कुलदैवतमस्माकं संविद्रूपं नतार्तिहररूपम् ।
नानादुर्गतिहरणक्षमममरीसेवितं सकलम् ॥ ५८ ॥

पञ्चदशवर्णमानं पयोजवक्त्रं पितामहसमर्च्यम् ।
जगदवनजागरूकं हरिहरसंमान्यवैभवं किमपि ॥ ५९ ॥

करुणापूरितनयनं परमानन्दप्रदं च परिशुद्धम् ।
आगमगणसंवेद्यं कोशगृहं सर्वसंपदां नित्यम् ॥ ६० ॥

मातस्तावकपादाम्बुजयुगलं संततं स्फुरतु ।
तेनाहं तव रूपं द्रक्ष्याम्यानन्दसिद्धये सकलम् ॥ ६१ ॥

देव्या कटाक्षिताः किल पुरुषा वा योषितः पशवः ।
मान्यन्ते सुरसंसदि कल्पककुसुमैः कृतार्हणाः काले ॥ ६२ ॥

सुमनोवाञ्छादाने कृतावधानं धनं विष्णोः ।
धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ ६३ ॥

अन्तरपि बहिरुदारं तव रूपं मन्त्रदेवतोपास्यम् ।
जननि स्फुरतु सदा नः संमान्यं श्रेयसे काले ॥ ६४ ॥

मुररिपुपुण्यश्रेणीपरिपाकं तावकं रूपम् ।
कमले जननि विशुद्धं दद्याच्छ्रेयो मुहुर्भजताम् ॥ ६५ ॥

पुण्यश्रेणी कमला सा जननी भक्तमानसे स्थितिभाक् ।
तेजस्ततिभिर्मोहितभुवना भुवनाधिनाथगृहिणीयम् ॥ ६६ ॥

जलनिधिकन्यारूपं हरिमान्यं सर्वसंपदां हेतुः ।
चिरकृतसुकृतविशेषान्नयनयुगे भाति सर्वस्य ॥ ६७ ॥

जलनिधितपःफलं यन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् ।
करुणालोलापाङ्गं तत् तेजो भातु निःसमं वदने ॥ ६८ ॥

शमितनतदुरितसंघा हरये निजनेत्रकल्पितानङ्गा ।
कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ ६९ ॥

निखिलागमसिद्धान्तं हरिशुद्धान्तं सदा नौमि ।
तेनैव सर्वसिद्धिः शास्त्रेषु विनिश्चिता विबुधैः ॥ ७० ॥

कृष्णकृतविविधलीलं तव रूपं मातरादरान्मान्यम् ।
स्फुरतु विलोचनयुगले नित्यं संपत्समृद्ध्यै नः ॥ ७१ ॥

करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा ।
लक्ष्म्या माधवमान्या सत्सुखदाने दिशि ख्याता ॥ ७२ ॥

अपवर्गसिद्धये त्वामम्बामम्भोजलोचनां लक्ष्मीम् ।
अवलम्बे हरिदयिते पद्मासनमुखसुरेन्द्रकृतपूजाम् ॥ ७३ ॥

तावककटाक्षलहरीं निधेहि मयि देवि कमले त्वम् ।
तेन मनोरथसिध्हिर्भुवि परमे धामनि प्रचुरा ॥ ७४ ॥

त्वामादरेण सततं वीक्षेमहि मातरब्जकृतवासाम् ।
विष्णोर्वक्षोनिलयामक्षयसुखसिद्धये लोके ॥ ७५ ॥

सा नः सिध्यतु सिद्ध्यै देवानां वाङ्ममनोऽतीता ।
हरिगृहिणी हरिणाक्षी पालितलोकत्रया च जननीयम् ॥ ७६ ॥

See Also  300 Names Of Sharada Trishati In Kannada

सकलचराचरचिन्मयरूपं यस्या हि देवतोपास्यम् ।
सा ददतु मङ्गलं मे नित्योज्ज्वलमादराज्जननी ॥ ७७ ॥

शीतमयूखसहोदरि तां त्वामम्बां हि शीलये नित्यम् ।
निरसितवैरिगणोऽहं हरिचरणन्यस्तरक्षश्च ॥ ७८ ॥

दिक्षि विदिक्षु कृतश्रीः सा मे जननी नदीशतनयेयम् ।
हरिणा साकं भजतु प्राकाश्यं हृदि सतां समृद्ध्यै नः ॥ ७९ ॥

वारिनिधिवंशसंपद् दिव्या काचिद्धरेर्मान्या ।
अर्चन्ति यां तु मुनयो योगारम्भे तथान्ते च ॥ ८० ॥

धृतसुममधुपक्रीडास्थानायितकेशभारायै ।
नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ ८१ ॥

संदेहे सिद्धान्ते वादे वा समरभूमिभागे वा ।
या राजति बहुरूपा सा देवी विष्णुवल्लभा ख्याता ॥ ८२ ॥

प्रतिफलतु मे सदा तन्मुनिमानसपेटिकारत्नम् ।
विष्णोर्वक्षोभूषणमादृतनिर्गतिजनावनं तेजः ॥ ८३ ॥

बालकुरङ्गविलोचनधाटीरक्षितसुरादि मनुजानाम् ।
नयनयुगासेव्यं तद् भातीह धरातले तेजः ॥ ८४ ॥

माधवदृक्साफल्यं भक्तावलिदृश्यकामधेनुकला ।
लक्ष्मीरूपं तेजो विभातु मम मानसे वचसि ॥ ८५ ॥

हरिसरसक्रीडार्थं या विधृतानेकरूपिका माता ।
सा गेहभूषणं नः स्फुरतु सदा नित्यसंपूज्या ॥ ८६ ॥

द्वारवतीपुरभागे मैथिलनगरे च यत्कथासारः ।
सा देवी जलधिसुता विहरणभाङ् मामके मनसि ॥ ८७ ॥

जलनिधितपोमहिम्ने देव्यै परमात्मनः श्रियै सततम् ।
भूयांसि नमांसि पुनः सर्वा नः संपदः सन्तु ॥ ८८ ॥

परमौषधं हि संसृतिव्याधेर्यत् कीर्तितं निपुणैः ।
तदहं भजामि सततं लक्ष्मीरूपं सदानन्दम् ॥ ८९ ॥

दशरथसुतकोदण्डप्रभावसाक्षात्कृते कृतानन्दा ।
सीतारूपा माते जज्ञे यज्ञक्षितौ हि सा सिद्ध्यै ॥ ९० ॥

मुनिजनमानसनिलये कमले ते चरणपङ्कजं शिरसि ।
अवतंसयन्नुदारं विशामि देवैः सुधर्मां वा ॥ ९१ ॥

धनमदमेदुरसेवां त्यक्तवाहं ते पदाम्भोजम् ।
शरणं यामि पुमर्थस्फूर्तिकलायै भृशं दीनः ॥ ९२ ॥

न घटय कुत्सितसेवां दुष्टैर्वा संगमं मातः ।
कुरु मां दासं संसृतिपापं च हर शीघ्रम् ॥ ९३ ॥

मयि नमति विष्णुकान्ते तवाग्रतस्तापभारार्ते ।
मातः सहसा सुमुखी भव बाले दोषनिलये च ॥ ९४ ॥

हन्त कदा वा मातस्तव लोचनसेचनं भवेन्मयि भोः ।
ईत्थं प्रातः स्तुवतां त्वमेव रक्षाकरी नियतम् ॥ ९५ ॥

संसाररोगशान्तिप्रदमेतल्लोचनं मातः ।
तावत्कमहमुपासे दिव्यौषधमाशु सागरेन्द्रसुते ॥ ९६ ॥

संसृतिरोगार्तानां तव नामस्मरणमत्र धरणितले ।
पूजाप्रदक्षिणादिकमार्या मुख्यौषधं वदन्ति किल ॥ ९७ ॥

मातर्विना धरण्यां सुकृतानां खण्डमिह जन्तुः ।
ध्यानं वा न हि लभते प्रणतिं वा संपदां जननीम् ॥ ९८ ॥

गुरुवरकटाक्षविभवाद् देवि त्वाङ्घ्रिप्रणामधुतपापः ।
तव च हरेर्दासः सन् विशामि देवेश मानितां च सभाम् ॥ ९९ ॥

मुरहरनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः ।
ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ १०० ॥

कारुण्यपूर्णनयना कलिकल्मषहारिणी च सा कमला ।
मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ १०१ ॥

तावककटाक्षसेचनविभवां निर्धूतदुरितसंघा हि ।
परमं सुखं लभन्ते परे तु लोके च सूरिभिः सार्धम् ॥ १०२ ॥

तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु ।
निरसितनरकादिभयो विराजते नाकिसदसि सुरवन्द्यः ॥ १०३ ॥

हन्त सहस्रेष्वथ वा शतेषु सुकृती पुमान् मातः ।
तावकपादपयोरुहवरिवस्यां कलयते सकलम् ॥ १०४ ॥

जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे ।
तेन वयं तु कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ १०५ ॥

तावककृपावशादिह नानायोगादिनाशितभया ये ।
तेषां स्मरणमपि द्राक् श्रियावहं नित्यमाकलये ॥ १०६ ॥

नैव प्रायश्चित्तं दुरितानां मामकानां हि ।
त्वामेव यामि शरणं तस्माल्लक्ष्मि क्षमाधारे ॥ १०७ ॥

मुरवैरिमान्यचरिते मातस्त्वामखिललोकसाम्राज्ये ।
पश्यन्ति दिवि सुरेन्द्रा मुनयस्तत्त्वार्थिनश्च नित्यकलाम् ॥ १०८ ॥

स्वीयपदप्राप्त्यै ननु विबुधेशा जलधिकन्यके मातः ।
आराध्य दिव्यकुसुमैस्तव पादाब्जं परं तुष्टाः ॥ १०९ ॥

सृष्टिस्थित्यादौ हरिरम्ब तवापाङ्गवीक्षणादरवान् ।
जगदेतदवति काले त्वं च हरिर्नः क्रमात् पितरौ ॥ ११० ॥

राज्यसुखलाभसंपत्प्राप्त्यै क्षितिपाश्च ये च विप्राद्याः ।
गाङ्गजलैरपि कुसुमैर्वरिवस्यां ते क्रमेण कलयन्ति ॥ १११ ॥

संत्यक्तकामतदनुजडम्भासूयादयो नराः कमले ।
आराध्य त्वां च हरिं काले चैकासनस्थितां धन्याः ॥ ११२ ॥

जननी कदा पुनीते मम लोचनमार्गमादरादेषा ।
ये किल वदन्ति धन्यास्तेषां दर्शनमहं कलये ॥ ११३ ॥

करधृतलीलापद्मा पद्मा पद्माक्षगेहिनी नयने ।
सिञ्चति सकलश्रेयःप्राप्त्यै निर्व्याजकारुण्या ॥ ११४ ॥

नानाविधविद्यानां लीलासदनं सरोजनिलयेयम् ।
कविकुलवचःपयोजद्युमणिरुचिर्भाति नः पुरत्ः ॥ ११५ ॥

अतसीकुसुमद्युतिभाङ् नाकिगणैर्वन्द्यपादपद्मयुगा ।
सरसिजनिलया सा मे प्रसीदतु क्षिप्रमादरात् सिद्ध्यै ॥ ११६ ॥

जगदीशवल्लभे त्वयि विन्यस्तभरः पुमान् सहसा ।
तीर्त्वा नाकिस्थानं विशति परं वैष्णवं सुरैर्मान्यम् ॥ ११७ ॥

मातर्ज्ञानविकासं कारय करुणावलोकनैर्मधुरैः ।
तेनाहं धन्यतमो भवेयमार्यावृते सदसि ॥ ११८ ॥

हरिवक्षसि मणिदीपप्रकाशवत्यान्या मात्रा ।
नित्यं वयमिह दासाः श्रिया सनाथा मुदा परं नौमः ॥ ११९ ॥

विद्रावयतु सरोजासने त्वदीया कटाक्षधाटी नः ।
अज्ञानाङ्कुरमुद्रां पुनरपि संसारभीतिदां सहसा ॥ १२० ॥

तावककटाक्षसूर्योदये मदीयं हृदम्भोजम् ।
भजते विकासमचिरात् तमोविनाशश्च निश्चितो विबुधैः ॥ १२१ ॥

लक्ष्मीकटाक्षलहरी लक्ष्मीं पक्ष्मलयति क्रमान्नमताम् ।
पादपयोरुहसेवा परं पदं चित्सुखोल्लासम् ॥ १२२ ॥

चिद्रूपा परमा सा कमलेक्षणनायिका मुदे भजताम् ।
यत्प्रणयकोपकाले जगदीशः किंकरो भवति ॥ १२३ ॥

काचन देवी विहरतु मम चित्ते संततं सिद्ध्यै ।
यापत्यं कलशाब्धेरुरगेशयसत्कलत्रं च ॥ १२४ ॥

अष्टसु महिषीष्वेका कमला मुख्या हि निर्दिष्टा ।
अनयैव सर्वजगतामुदयादिस्तन्यते काले ॥ १२५ ॥

कैवल्यानन्दकलाकन्दमहं संततं वन्दे ।
तत्तु मुकुन्दकलत्रं चिन्तितफलदानदीक्षितं किमपि ॥ १२६ ॥

ईक्षे कमलामेनामम्बामम्भोजलोचनां सततम् ।
मन्दस्मितमधुरास्यां नित्यं चाज्ञातकोपमुखदोषाम् ॥ १२७ ॥

अङ्कितमाधववक्षःस्थला सरोजेक्षणा च हरिकान्ता ।
कबलयति मानसं मे दयाप्रसारादिभिर्नित्यम् ॥ १२८ ॥

भूत्यै मम भवतु द्रागज्ञानध्वंसिनी नमताम् ।
नाथानुरूपरूपा श्रुत्यन्तेड्या दशावतारेषु ॥ १२९ ॥

सकलजनरक्षणेशु प्रणिहितनयना त्रिलोकमाता नः ।
पुष्णाति मङ्गलानां निकरं सेवाक्रमेण incomplete ॥ १३० ॥

पद्मासनजननी मां पातु मुदा सुन्दरापाङ्गैः ।
सर्वैश्वर्यनिदानं यामाहुर्वैदिका दीप्ताम् ॥ १३१ ॥

नानालंकारवती मुनिमानसवासिनी हरेः पत्नी ।
त्रैलोक्यविनुतविभवा मां पायादापदां निचयात् ॥ १३२ ॥

विद्रावयतु भयं नः सा कमला विष्णुवल्लभा माता ।
अब्धिः संक्षुभितोऽभूत् यदर्थमार्येण रामेण ॥ १३३ ॥

भूयो यदर्थमिन्द्रः सुरतरुकुसुमार्थिना च कृष्णेन ।
हतगर्वोऽजनि युद्धे सा नित्यं श्रेयसे भूयात् ॥ १३४ ॥

त्वामाराध्य जना अपि धनहीनाः सौधमध्यतलभाजः ।
नानादेशवनीपकजनस्तुता भान्ति नित्यमेव रमे ॥ १३५ ॥

संसृतितापो न भवति पुनरपि यत्पादपङ्कजं नमताम् ।
सा मयि कलितदया स्यादम्बा विष्णोः कलत्रमनुरूपम् ॥ १३६ ॥

जननीकटाक्षभाजामिह मर्त्यानां सुरास्तु किंकरताम् ।
रिपवो गिरितटवासं भजन्ति वेश्मानि सिद्धयः सर्वाः ॥ १३७ ॥

स्मरणाद्वा भजनाद्वा यस्याः पादाम्बुजस्य भुवि धन्याः ।
हन्त रमन्ते स्तम्बेरमनिवहावृतगृहाङ्गणे मनुजाः ॥ १३८ ॥

चिरकृतसुकृतनिषेव्या सा देवी विष्णुवल्लभा ख्याता ।
यस्याः प्रसादभूम्ना जाताः पश्वादयो वदान्या हि ॥ १३९ ॥

अम्ब मधुरान् कटाक्षान् तापहरान् विकिर मयि कृपाजलधे ।
ये विन्यस्ताः करिवरमारुतिमुखभक्तवर्येषु ॥ १४० ॥

अमृतलहरीव मधुरा जलधररुचिरा नतार्तिहरशीला ।
सर्वश्रेयोदात्री काचिद् देवी सदा विभातु हृदि ॥ १४१ ॥

गीताचार्यपुरन्ध्री त्वदीयनामप्रभावकलनाद्यैः ।
यमभयवार्ता दूरे हरिसांनिध्यं कुतो न स्यात् ॥ १४२ ॥

जलनिधितनये कान्ते विष्णोरुष्णांशुचन्द्रनयने ते ।
चतुराननादयस्तु ख्याता बालाः श्रुतौ चोक्ताः ॥ १४३ ॥

मनसिजवैरं गात्रं वाणी सौधारसी च यद्भजताम् ।
श्लाध्या संपत् सज्जनसमागमश्चाशु सिध्यन्ति ॥ १४४ ॥

सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी ।
जलनिधिकन्या मान्या पत्यवतारानुकूलनिजचरिता ॥ १४५ ॥

नित्यं स्मरामि देवीं नमतां सर्वार्थदायिनीं कमलाम् ।
यामाहुर्भवनिगलध्वंसनदीक्षां च incomplete ॥ १४६ ॥=२०
सकलजगदघनिवारणसंकल्पां मधुजितो दयिताम् ।
जीवातुमेव कलये मोक्षार्थिजनस्य भूमिसुताम् ॥ १४७ ॥

मन्दानामपि दयया तमोनिरासं वितन्वन्ती ।
सर्वत्र भाति कमला तनुरिव विष्णोर्निरस्ताघा ॥ १४८ ॥

बालमरालीगत्यै सुरपुरकन्यादिमहितकलगीत्यै ।
विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ १४९ ॥

अभिलषितदानकुशला वाग्देवीवन्दिता च सा कमला ।
नित्यं मानसपद्मे संचारं कलयते मुहुः कुतुकात् ॥ १५० ॥

मुरमथननयनपङ्कजविलासकलिका सुरेशमुखसेव्या ।
भूतमयी सावित्री गयत्री सर्वदेवता जयति ॥ १५१ ॥

सा हि परा विद्या मे लक्ष्मीरक्षोभणीयकीर्तिकला ।
हृद्यां विद्यां दयादद्य श्रेयःपरंपरासिद्ध्यै ॥ १५२ ॥

See Also  300 Names Of Sharada Trishati In Bengali

कामजननी हि लक्ष्मीः नानालीलादिभिर्निजं नाथम् ।
मोहयति विष्णुमचिरात् प्रकृतीनां क्षेमसिद्ध्यर्थम् ॥ १५३ ॥

मनसिजसाम्राज्यकलानिदानमार्याभिवन्दितं किमपि ।
लक्ष्मीरूपं तेजो विलसति मम मनसि विष्णुसंक्रान्तम् ॥ १५४ ॥

विष्णुमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् ।
आश्रितजलनिधिगोत्रं रक्षितनतबाहुजच्छात्रम् ॥ १५५ ॥

कविकुलजिह्वालोलं मुरमर्दनकलितरम्यबहुलीलम् ।
निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ १५६ ॥

आदिमपुरुषपुरन्ध्रीमम्बामम्भोजलोचनां वन्दे ।
यां नत्वा गततापास्त्यक्त्वा देहं विशन्ति परमपदम् ॥ १५७ ॥

लक्ष्म्या हरिरपि भाति प्रकृतिक्षेमाय दीक्षितायासौ ।
मम लोचनयोः पुरतो लसतु गभीरं क्रियासिद्ध्यै ॥ १५८ ॥

जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः ।
निमिषमिव हन्त दिवसन् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ १५९ ॥

संपूर्णयौवनोज्ज्वलदेहां यां वीक्ष्य शौरिरपि ।
कुसुमशरविद्धचेताः किंकरभावं स्वयं प्राप्तः ॥ १६० ॥

अनुनयशीलस्तदनु प्रणयक्रोधादिना भीतः ।
आदिमपुरुषः सोऽयं सा लक्ष्मीर्न श्रियै भवतु ॥ १६१ ॥

मणिकुण्डललसितास्यं कृपाकरं किमपि कुङ्कुमच्छायम् ।
हरिणा कृतसंचारं तेजो मे भातु सर्वदा सिद्ध्यै ॥ १६२ ॥

साम्राज्यमङ्गलश्रीः श्रीरेषा पुष्कराक्षस्य ।
गन्धर्वकन्यकाद्यैर्गङ्गातीरेषु गीतकीर्तिर्हि ॥ १६३ ॥

कविताभाग्यविधात्री परिमलसंक्रान्तमधुपगणकेशा ।
मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ १६४ ॥

कीर्तिः स्वयं वृणीते वाग्देवी चापि विजयलक्ष्मीश्च ।
तं नरमचिराल्लोके यो लक्ष्मीपादभक्तस्तु ॥ १६५ ॥

सन्मित्रं पाण्डित्यं सद्दाराः सत्सुताद्याश्च ।
जायन्ते तस्य भुवि श्रीभक्तो यश्च निर्दिष्टः ॥ १६६ ॥

परमाचार्यैर्विनुतां तामम्बामादरान्नौमि ।
परमैश्वर्यं विष्णोरपि या वेदेषु निर्दिष्टा ॥ १६७ ॥

कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा ।
सा देवी मम हृदये कृतसांनिध्या विराजते परमा ॥ १६८ ॥

तापार्तास्तु तटाकं यथा भजन्ते रमां देवीम् ।
संसृतितप्ताः सर्वे यान्ति हि शरणं शरण्यां ताम् ॥ १६९ ॥

सर्वज्ञत्वं श्लाध्यं धराधिपत्यं रमे देवि ।
यद्यत् प्रार्थ्यं दयया तद् दिश मोक्षं च मे जननि ॥ १७० ॥

विद्युतमचञ्चलां त्वां कृष्णे मेघे पयोधिवरकन्ये ।
नित्यमवैमि श्रेयःसिध्य मातः प्रसन्ने नः ॥ १७१ ॥

त्वामम्ब संततरुचिं कृष्णो मेघः समासाद्य ।
सद्वर्त्मनि वर्षति किल काङ्क्षाधिकमादरेण वार्धिसुते ॥ १७२ ॥

अम्ब त्वमेव काले मुकुन्दमपि दर्शयन्तीह ।
श्रेयःसिद्ध्यै नमतां भासि हृदि श्रुतिशिरःसु सल्लोके ॥ १७३ ॥

विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् ।
तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ १७४ ॥

अपवर्गसौख्यदे ते दयाप्रसारः कथं वर्ण्यः ।
यामवलम्ब्य हि यष्टिं न पतति संसारपङ्किले मार्गे ॥ १७५ ॥

सूक्ष्मात् सूक्ष्मतरं ते रूपं पश्यन्ति योगिनो हृदये ।
तां त्वामहं कदा वा द्रक्ष्येऽलंकारमण्डितां मातः ॥ १७६ ॥

चिरतरतपसा क्लिष्टे योगिहृदि स्थानभाग् रमा देवी ।
दर्शनमचिराद् दयया ददाति योगादिहीनानाम् ॥ १७७ ॥

तीरं संसृतिजलधेः पूरं कमलाक्षलोचनप्रीतेः ।
सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ १७८ ॥

लक्ष्मीरूपं तेजो ममाविरस्तु श्रियै नित्यम् ।
यन्नित्यधर्मदारान् विष्णोरमितौजसः प्राहुः ॥ १७९ ॥

जलधिसुते त्वं जननी स वासुदेवः पिता च नः कथितः ।
शरणं युवां प्रपन्ना नातो दुर्गतिपरिस्फूर्तिः ॥ १८० ॥

हरिनीलरत्नभासा प्रकशितात्मा समुद्रवरकन्या ।
मङ्गलमातनुतेयं कटाक्षकलिकाप्रसारैस्तु ॥ १८१ ॥

मच्चित्तमत्तवारणबन्धनमधुना त्वदीयपादयुगे ।
कलयामि रमे मातर्मां रक्ष क्षिप्रमेव संसृतितः ॥ १८२ ॥

मोचय संसृतिबन्धं कटाक्षकलिकाङ्कुरै रमे मातः ।
नातः परमर्थ्यमिह क्षमातले त्वं दयामूर्तिः ॥ १८३ ॥

मञ्जुलकवितासंततिबीजाङ्कुरदायिसारसालोका ।
जननि तवापाङ्गश्रीः जयति जगत्त्राणकलितदीक्षेयम् ॥ १८४ ॥

अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती ।
मुरहन्तुर्हृदि जयति व्रीडामदमोहकामसारकरी ॥ १८५ ॥

बद्धमपि चित्तमेतद् यमनियमाद्यैः परिष्कारैः ।
धावति बलाद् रमे तव पादाब्जं यामि शरणमहम् ॥ १८६ ॥

मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा ।
मन्दस्मेरमुखाब्जा कमला मे हृदयसारसे लसतु ॥ १८७ ॥

शास्त्रस्मरणविहीनं पापिनमेनं जनं रमा देवी ।
दयया रक्षति काले तस्यास्तेन प्रथा महती ॥ १८८ ॥

मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः ।
ध्याने जपे च सुदृशां चकास्ति हृदये कवीश्वऱाणां च ॥ १८९ ॥

अम्ब विवेकविदूरं जनमेनं शिशिरलोचनप्रसरैः ।
शिशिरय कृपया देवि त्वमेव माता हि लोकस्य ॥ १९० ॥

कोपदुपेक्षसे यदि मातर्मे रक्षकः कः स्यात् ।
मयि दीने को लाभस्तव तु दयायाः प्रसारिण्याः ॥ १९१ ॥

भवचण्डकिरणतप्तः श्रान्तोऽहं ज्ञानवारिदूरस्थः ।
शिशिरामङ्घ्रिच्छायां तव मातर्यामि शरणमारात्तु ॥ १९२ ॥

मातरशोकोल्लासं प्रकटय तव कोमलकटाक्षैः ।
यैर्दीना नरपतयः कलिता वारणशतावृते गेहे ॥ १९३ ॥

जयति रमे तव महती कृपाझरी सर्वसंमान्या ।
क्षेमंकरी यदेषा प्रतिकल्पं सर्वजगतां च ॥ १९४ ॥

अज्ञानकूपकुहरे पतितं मां पाहि कमले त्वम् ।
नगरे वा ग्रामे वा वनमध्ये दिक्षु रक्षिणी त्वमसि ॥ १९५ ॥

तव चरणौ शरणमिति ब्रुवन्नहं मातरब्धितनये त्वम् ।
हरिणा सहिता दयया प्राह्यविलम्बेन दीनं माम् ॥ १९६ ॥

परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः ।
कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ १९७ ॥

मम हृदयपङ्कजवनीविकासहेतौ दिनाधिपायेताम् ।
तव तु कटाक्षप्रसरः दीपायेतां तमोनिराकरणे ॥ १९८ ॥

यावच्छरणं याति क्षितितनये त्वां हि जन्तुरिह मूढः ।
तावत् तस्य तु रसनाङ्गणे तु वाणी समाकलितनृत्ता ॥ १९९ ॥

पङ्कजनिलये तावकचरणं शरणं समाकलये ।
तेन हि सर्वकृतानां भविष्यतां हानिरेव दुरितानाम् ॥ २०० ॥

श्रुत्यन्तसेवितं ते चरणसरोजं प्रणम्य किल जन्तुः ।
छत्रोल्लसितशिराः सन् वनीपकान् दानवारिणा सिञ्चन् ॥ २०१ ॥

विष्वक्सेनमुखाद्यैः सेवितमम्ब त्वदीयपादयुगम् ।
अवतंसयन्ति सन्तः कलितापप्रशमनायास्तु ॥ २०२ ॥

दुग्धोदधितनये त्वां दिशागजेन्द्राः सुवर्णघटतोयैः ।
मणिमण्टपमध्यतले समभ्यषिञ्चन् हरिप्रीत्यै ॥ २०३ ॥

दिग्गजपुष्पकरकुम्भैरभिषिक्तां त्वां हरिः प्रीत्या ।
उदवहदारान्मुनिगणमध्ये सर्वश्रियो मूलम् ॥ २०४ ॥

जातपराक्रमकलिका दिशि दिशि किंनरसुगीतनिजयशसः ।
धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ २०५ ॥

नमदमरीकचभरसुममरन्दधाराभिषिक्तं ते ।
पदकमलयुगलमेतच्छ्रेयःस्फूर्त्यै सदा भवतु ॥ २०६ ॥

रागद्वेषादिहतं मामव कमले हरेः कान्ते ।
दर्शय दयया काले ह्यपवर्गस्थानमार्गं च ॥ २०७ ॥

न हि जाने वर्णयितुं परमे स्थने त्वदीयविभवमहम् ।
मुनयश्च सुरा वेदा यतो निवृत्ताः क्षमातनये ॥ २०८ ॥

मनुजाः कटाक्षिताः किल तथाम्बया मेदिनीपुत्र्या ।
सत्सुतकलत्रसहिताः सुरभिं कालेन निर्विशान्ति मुदा ॥ २०९ ॥

जलधीशकन्यका सा लसतु पुरोऽस्माकमादरकृतश्रीः ।
यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडिते भाति ॥ २१० ॥

दूरिकरोतु दुरितं त्वद्भक्तिर्मामकं कमले ।
अहमपि सुरेशसेव्ये तव सदसि विशामि कीर्तिगानपरः ॥ २११ ॥

परमज्ञानविधात्री तव पादपयोजभक्तिरस्माकम् ।
किं वाशास्यमतोऽन्यत् समुद्रतनये हरेर्जाये ॥ २१२ ॥

अम्ब कदा वा लप्स्ये मदीयपापापनोदाय ।
तव पादकमलसेवामब्जभवाद्यैस्तु संप्रार्थ्याम् ॥ २१३ ॥

मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी ।
कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ २१४ ॥

सकलकविलोकविनुते कमले कमलाक्षि वल्लभे विष्णोः ।
त्वन्नामानि हि कलये वने जले शत्रुपीडायाम् ॥ २१५ ॥

दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतः कमले ।
जन्तूनां किल रक्षा त्वदधीना कीर्त्यते विबुधैः ॥ २१६ ॥

कुशलविधये तदस्तु त्रिविक्रमासेव्यरम्यनिजकेलि ।
कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ २१७ ॥

जननी सुवर्णवृष्टिप्रदायिनी भाति विष्णुवक्षःस्था ।
कमला कलितक्षेमा प्रकृतीनां शीतलापाङ्गैः ॥ २१८ ॥

जगतामादिमजननी लसति कवेरात्मजापुलिने ।
क्षेत्रेषूत्तमजुष्टेष्वयोनिजा लोकरक्षायै ॥ २१९ ॥

कुचशोभाजितविष्णुः कुङ्कुमपङ्काङ्किता कमला ।
काञ्च्यां राजति काञ्चीमणिगणनीराजिताङ्घ्रियुगा ॥ २२० ॥

मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा ।
हृद्यतमनित्ययौवनमण्डितगात्री विराजते कमला ॥ २२१ ॥

कंसरिपुगेहिनी सा हंसगतिर्हंसमान्यनिजचरिता ।
संसारतापहानिं कलयतु काले रमास्माकम् ॥ २२२ ॥

मनसिजजननी जननी चास्माकमिहादरात् काले ।
शीतललोलापाङ्गैस्तरङ्गयति श्रेयसां सरिणम् ॥ २२३ ॥

तव मन्दहासकलिकां भजे भुजङ्गे शयानं तम् ।
या कलयति गतकोपं बालानां नः कृतापराधानाम् ॥ २२४ ॥

सा साधयेदभीष्टं कमला श्रीर्विष्णुवक्षःस्था ।
यस्याः पदविन्यासः श्रुतिमौलिषु तन्यते महालक्ष्म्याः ॥ २२५ ॥

शान्तिरसनित्यशेवधिमम्बां सेवे मनोरथावाप्त्यै ।
यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तादृक्षम् ॥ २२६ ॥

धातुरपि वेदवचसां दूरे यत्स्थानमामनन्ति बुधाः ।
सास्तु मुदे श्रीरेषा मुरमर्दनसत्कलत्रममितौजः ॥ २२७ ॥

भवदुःखराशिजलधेर्हठात् तरित्रीं परं विद्मः ।
तामम्बां कमलस्थां मुरारिवक्षोमणिप्रदीपां च ॥ २२८ ॥

मुनिसार्वभौमवर्णितमहाचरित्रं हरेः कलत्रं तत् ।
पथि मङ्गलाय भवतु प्रस्थानजुषां कृपाधारम् ॥ २२९ ॥

खण्डितवैरिगणेयं मण्डितभक्ता सुताद्यैश्च ।
भासुरकीर्तिर्जयति क्षोणीसुरवन्द्यचरणाब्जा ॥ २३० ॥

See Also  Sri Subrahmanya Trishati Stotram In Kannada

नतपालिनि मां पाहि त्रिजगद्वन्द्ये निधेहि मयि दयया ।
तावककटाक्षलहरीः शक्तिमये सकलसिद्धीनाम् ॥ २३१ ॥

भवसागरं तितीर्षुस्तव चरणाब्जं महासेयुम् ।
मातः कदा नु लप्स्ये घनतापोर्म्यादिपीडितो दीनः ॥ २३२ ॥

कविवाग्वासन्तीनां वसन्तलक्ष्मीर्मुरारिदयिता नः ।
परमां मुदं विधत्ते काले काले महाभूत्यै ॥ २३३ ॥

सुरहरपरतन्त्रं तद् गततन्द्रं वस्तु निस्तुलमुपासे ।
तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ २३४ ॥

तृष्णां शमयति देवी राघवदयिता नतालिसुरवल्ली ।
इट्यार्यवचो धैर्यं जनयति काले धरापुत्रि ॥ २३५ ॥

रघुपतिदयिते मातः काकासुररक्षणादिना लोके ।
तावककरुणामहिमा प्रथितः किल भूतिदायी नः ॥ २३६ ॥

प्रचुरतदुरितपालीसमावृतानां कलौ हि तप्तानाम् ।
तावकदया हि मातः शरणं वरमिति सतां गणः स्तौति ॥ २३७ ॥

अत्यन्तशीतलां तां कटाक्षधाटीमुपासेऽहम् ।
तेन मम त्रिदशानां न कोऽपि भेदो धरातनये ॥ २३८ ॥

यैः सेवा संकलिता तव पादाब्जे धरातनये ।
तेषामज्ञानझरी याति हि विलयं क्षणेनैव ॥ २३९ ॥

ज्ञानारविन्दविलसनमचिरादस्य स्तुतौ हि कविवर्याः ।
संपद् दिव्या च तथा विबुधावलिमाननीयात्र ॥ २४० ॥

मातस्तव पादाब्जं यस्य ललाटे कृतोरुनिजकान्ति ।
तत्पादपद्ममचिराद् विमानगा देवता वहति ॥ २४१ ॥

आज्ञावशेन देव्या लसन्ति दिवि देवतामान्याः ।
इन्द्राद्याः स च धाता दिक्पालाश्चापि गन्धर्वाः ॥ २४२ ॥

कैवल्यानन्दकलादात्रीं कमलामहर्निशं नौमि ।
तेनैव जन्म सफलं तीर्थादिनिषेवणाद्यच्च ॥ २४३ ॥

यच्च हरिपादपङ्केरुहपरिचरणादिना लोके ।
तत् सर्वमाशु घटयति सहसा मन्दस्य मे माता ॥ २४४ ॥

नानाश्रुत्यन्तकलापरिमलपरिवाहवासितं मातः ।
तव चरणकमलयुगलं ममावतंसः क्षणं भातु ॥ २४५ ॥

नतदेवनगरनारीधम्मिल्ललसत्सुमालिकृतनादाः ।
प्रातर्मुरजविलासं कलयन्ति भृशं तवाग्रतो भृङ्गाः ॥ २४६ ॥

पापप्रशमनदीक्षाकलाधुरीणाः पयोजनिलये ते ।
मां च पवित्रीकुर्युः पादपरागाः कृपावशतः ॥ २४७ ॥

हन्त कदा वा लप्स्ये तवाङ्घ्रिशुश्रूषणासक्तिम् ।
सहजानन्दं तेन हि पदं क्रमात् प्राप्यमादिष्टम् ॥ २४८ ॥

नलिनीविलासरुचिरां मयि देवि त्वत्कटाक्षलहरीं हि ।
काले निधेहि दयया स्फीता ते कीर्तिरादृता सर्वैः ॥ २४९ ॥

विनिहतदुरितस्तोमा कापि मदीये हृदम्भोजे ।
लसतु परदेवताख्या माधवनेत्रप्रियंकरी कलिका ॥ २५० ॥

पञ्चायुधगुरुमन्त्रं कलनूपुरनिनदमादरात् कमले ।
कलयति रमाधवगृहं यातुं काले त्वयि प्रवृत्तायाम् ॥ २५१ ॥

नतनाकिलोकवनिताललाटसिन्दूरशोणकान्तिभृतोः ।
कलये नमांसि कमले तव पादपयोजयोर्नित्यम् ॥ २५२ ॥

कमलसुषुमानिवासस्थानकटाक्षं चिराय कृतरक्षम् ।
रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ २५३ ॥

ज्योत्स्नेव शिशिरपाता कटाक्षधाटी त्वदीया हि ।
अम्ब मुकुन्द ( … incomplete … ) कुरुते ॥ २५४ ॥

तापहररसविवर्षंअधृतकुतुका कापि नीलनलिनरुचिः ।
कादम्बिनी पुरस्तदास्तां नः संततं जननी ॥ २५५ ॥

सफलयतु नेत्रयुगलं मामकमेतत् त्वदीयरूपमहो ।
यत् कमलनेत्रसुचरितपचेलिमं वैदिकी श्रुतिर्ब्रूते ॥ २५६ ॥

माधवनेत्रपयोजामृतलहरी भाति तावकं रूपम् ।
अम्ब युवामाद्यौ नः पितरौ वने सुखावाप्त्यै ॥ २५७ ॥

सरसकवितादिसंपद्विलसनमारादुशान्ति कविवर्याः ।
यत्प्रीणनेन सा मे भवतु विभूत्यै हि सा कमला ॥ २५८ ॥

मनसिजजयादिकार्यं यदपाङ्गलवान्नृणां भवति ।
तत्पदमानन्दकलं सेव्यं च भजे रमां जननीम् ॥ २५९ ॥

शिथिलततमःसमूहा भक्तानां सा रमा देवी ।
जनयति धैर्यं च हरेः काले या सर्वदा सेव्या ॥ २६० ॥

यद्भ्रूविलासवशतः शक्तः सृष्ट्यादिकं कर्तुम् ।
हरिरपि लोके ख्यातः सा नः शरणं जगन्माता ॥ २६१ ॥

नयनयुगलीं कदा मे सिञ्चति एव्याः परं रूपम् ।
यद्भजनान्न हि लोके दृष्टं श्लाध्यं परं वस्तु ॥ २६२ ॥

सुचरितफलं त्वदीयं रूपं नः कलितभक्तीनाम् ।
अत एव मामकानां पापानां विरतिरूर्जिता कमले ॥ २६३ ॥

सुकृतिविभवादुपास्या कमला सा सर्वकल्याणा ।
हरिवक्षसि कृतवासा रक्षति लोकानहोरात्रम् ॥ २६४ ॥

संविद्रूपा हि हरेः कुटुम्बिनी भाति भक्तहृदयेषु ।
सर्वश्रेयःप्राप्त्यै यां विदुरार्या रमां कमलाम् ॥ २६५ ॥

विषयलहरीप्रशान्त्यै कमलापादाम्बुजं नौमि ।
पूर्वं शुकादिसुधियो यद्ध्यानाद् गलितशत्रुभयाः ॥ २६६ ॥

ललितगमनं त्वदीयं कलनूपुरनादपूरितं मातः ।
नौमि पदाम्बुजयुगलं भवतापनिरासनायाद्य ॥ २६७ ॥

विरलीकरोति तापं कमलाया मन्दहासझरी ।
यत्सेवनेषु समुदितकौतुकरसनिर्भरो हरिर्जयति ॥ २६८ ॥

प्रतिफलतु संततं मे पुरतो मातस्त्वदीयरूपमिदम् ।
यद्दर्शनरसभूम्ना हरिरपि नानास्वरूपभाक् काले ॥ २६९ ॥

अम्ब तव चरणसेवां संततमहमादरात् कलये ।
तेन मम जन्म सफलं त्रिदशानामिव मुनीन्द्राणाम् ॥ २७० ॥

दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः ।
तव चरणसेवयैव हि कमले मातर्बुधा जगति ॥ २७१ ॥

आनदमेति मातस्तव नामोच्चारणेन सिन्धुभवे ।
संप्राप्तत्वद्रूपं मम मानसमात्तयोगकलम् ॥ २७२ ॥

तव दृष्टिपातविभवात् सर्वे लोके विधूततापभराः ।
यान्ति मुदा त्रिदशैः सह विभानमारुह्य मातरहो ॥ २७३ ॥

को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां कमलाम् ।
यां पन्नगारिवाहनसद्गर्मिणीमर्चयन्ति सुरनाथाः ॥ २७४ ॥

तामरविन्दनिवासामम्बां शरणार्थिनां कलितरक्षाम् ।
बहुरूपेष्वघनिचयेष्वपि निश्चित्यात्मनो धैर्यम् ॥ २७५ ॥

करुणाप्रवाहझर्या गतपङ्क भूतलं मातः ।
सत्वाङ्कुरादिलसितं जयति पयोराशिककन्यके कमले ॥ २७६ ॥

विधिशिववासवमुख्यैर्वन्द्यपदाब्जे नमस्तुभ्यम् ।
मातर्विष्णोर्दयिते सर्वज्ञत्वं च मे कलय ॥ २७७ ॥

परदेवते प्रसीद प्रसीद हरिवल्लभे मातः ।
त्वामाहुः श्रुतयः किल कल्याणगुणाकरां नित्याम् ॥ २७८ ॥

क्षन्तव्यमम्ब मामकमघराशिं क्षपय वीक्षणतः ।
सत्वोन्मेषं देहि प्रिये हरेर्दासमपि कुरु माम् ॥ २७९ ॥

वाञ्छितसिद्धिर्न स्याद् यदि पादाब्जे कृतप्रणामानाम् ।
हानिस्त्वदीययशसामिति केचिद्धैर्यवन्तश्च ॥ २८० ॥

सदसदनुग्रहदक्षां त्वां मातः संततं नौमि ।
ग्रहपीडा नैव भवेद्यमपीडा दूरतः काले ॥ २८१ ॥

विद्याः कलाश्च काले कृपया कलय प्रसीदाशु ।
मातस्त्वमेव जगतां सर्वेषां रक्षणं त्वया क्रियते ॥ २८२ ॥

उछेष्वपि नीचेषु प्रकाशते तुल्यमेव तव रूपम् ।
एतद् दृष्ट्वा धैर्यं घनागसोऽप्यम्ब जायते ननु मे ॥ २८३ ॥

का शङ्का तव वैभवजालं वक्तुं दिगन्तरे मातः ।
वरहारालंकारां सेवन्ते त्वां हरित्पतयः ॥ २८४ ॥

कमलायाश्च हरेरपि संदृष्यं दिव्यदांपत्यम् ।
तावेव नः पती किल जन्मान्तरपुण्यपरिपाकात् ॥ २८५ ॥

सर्वासामुपनिषदां विद्यानां त्वंपरं स्थानम् ।
अल्पधियो वयमेते त्वत्स्तोत्रे भोः कथं शक्ताः ॥ २८६ ॥

साष्टाङ्गप्रणतिरियं प्रकल्पिता मातरद्य तव चरणे ।
तेनाहं हि कृतार्थः किं प्रार्थ्यं वस्त्वतः कमले ॥ २८७ ॥

स्तोत्रमिदंहि मया ते चरणाम्भोजे समर्पितं भक्त्या ।
तव च गुरोरपि वीक्षा तत्र निदानं परं नान्यत् ॥ २८८ ॥

देहान्ते ननु मातर्मोक्षं त्रिदशैः समं देहि ।
अहमपि साम पठन् सन् त्वां च हरिं यामि शरणार्थी ॥ २८९ ॥

शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् ।
आराच्छृणोषि दयया तदेव चोत्तमपदव्यक्त्यै ॥ २९० ॥

विद्यां कलां वरिष्ठां अम्ब त्वां संततं वन्दे ।
या व्याकरोषि काले विद्वद्भिर्वेदतत्त्वादि ॥ २९१ ॥

वैदुष्यं वाण्याः सत्संपज्झर्यो यदीयवीक्षणतः ।
सिध्यन्त्यपि देवानां सा नः शरणं रमा देवी ॥ २९२ ॥

विपुलं श्रियो विलासं श्रद्धां भक्त्यादिकं देहि ।
अम्ब प्रसीद काले तव पादाब्जैकसेविनामिह नः ॥ २९३ ॥

केचित् प्राञ्चः कमलां प्राप्य हि शरणं विपत्काले ।
झटिति विधूनिततापाः सा मे देवी प्रसन्नास्तु ॥ २९४ ॥

मरकतकान्तिमनोहरमूर्तिः सैषा रमा देवी ।
पाति सकलानि काले जगन्ति करुणावलोकाद्यैः ॥ २९५ ॥

भागीरथीव वाणी तव नुतिरूपा विराजते परमा ।
इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः ॥ २९६ ॥

कलशपयोदधितनये हरिप्रिये लक्ष्मि मातरम्बेति ।
तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ २९७ ॥

निखिलचराचररक्षां वितन्वती विष्णुवल्लभा कमला ।
मम कुलदैवतमेषा जयति सदाराध्यमान्यपादकमला ॥ २९८ ॥

सर्वजन्नुतविभवे संततमपि वाञ्छितप्रदे देवि ।
अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः ॥ २९९ ॥

कमले कथं नु वर्ण्यस्तव महिमा निगममौलिगणवेद्यः ।
इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३०० ॥

त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः ।
अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१ ॥

इति श्रीकमलात्रिशती समाप्ता

– Chant Stotra in Other Languages -309 Names of Sri Kamala Trishati:

Kamala Trishati – 300 Names of Kamala in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil