Shri Subramanya Manasa Puja Stotram In Sanskrit

॥ Shri Subramanya Manasa Puja Stotram Sanskrit Lyrics ॥

॥ श्री सुब्रह्मण्य मानसपूजा स्तोत्रम् ॥
श्रीमन्मेरुधराधराधिप महासौभाग्यसंशोभिते
मन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमले
सौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरे
ब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥ १ ॥

मदनायुतलावण्यं नव्यारुणशतारुणम् ।
नीलजीमूतचिकुरं अर्धेन्दु सदृशालिकम् ॥ २ ॥

पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननम् ।
चाम्पेय विलसन्नासं मन्दहासाञ्चितोरसम् ॥ ३ ॥

गण्डस्थलचलच्छोत्र कुण्डलं चारुकन्धरम् ।
करासक्तकनःदण्डं रत्नहाराञ्चितोरसम् ॥ ४ ॥

कटीतटलसद्दिव्यवसनं पीवरोरुकम् ।
सुरासुरादिकोटीर नीराजितपदाम्बुजम् ॥ ५ ॥

नानारत्न विभूषाढ्यं दिव्यचन्दनचर्चितम् ।
सनकादि महायोगि सेवितं करुणानिधिम् ॥ ६ ॥

भक्तवाञ्छितदातारं देवसेनासमावृतम् ।
तेजोमयं कार्तिकेयं भावये हृदयाम्बुजे ॥ ७ ॥

आवाहयामि विश्वेशं महासेनं महेश्वरम् ।
तेजस्त्रयात्मकं पीठं शरजन्मन् गृहाण भोः ॥ ८ ॥

अनवद्यं गृहाणेश पाद्यमद्य षडानन ।
पार्वतीनन्दनानर्घ्यं अर्पयाम्यर्घ्यमद्भुतम् ॥ ९ ॥

आचम्यतामग्निजात स्वर्णपात्रोद्यतैर्जलैः ।
पञ्चामृतरसैर्दिव्यैः सुधासमविभावितैः ॥ १० ॥

दधिक्षीराज्यमधुभिः पञ्चगव्यैः फलोदकैः ।
नानाफलरसैर्दिव्यैर्नारिकेलफलोदकैः ॥ ११ ॥

दिव्यौषधिरसैः स्वर्णरत्नोदक कुशोदकैः ।
हिमाम्बुचन्दनरसैर्घनसारादिवासितैः ॥ १२ ॥

ब्रह्माण्डोदरमध्यस्थ तीर्थैः परमपावनैः ।
पावनं परमेशान त्वां तीर्थैः स्नापयाम्यहम् ॥ १३ ॥

सुधोर्मिक्षीरधवलं भस्मनोधूल्यतावकम् ।
सौवर्णवाससाकायां वेष्टयेऽभीष्टसिद्धये ॥ १४ ॥

See Also  Shri Subramanya Sahasranama Stotram In Kannada

यज्ञोपवीतं सुज्ञानदायिने तेऽर्पये गुहम् ।
किरीटहारकेयूर भूषणानि समर्पये ॥ १५ ॥

रोचनागरुकस्तूरी सिताभ्रमसृणान्वितम् ।
गन्धसारं सुरभिलं सुरेशाभ्युपगम्यताम् ॥ १६ ॥

रचये तिलकं फाले गन्धं मृगमदेन ते ।
अक्षय्यफलदानर्घानक्षतानर्पये प्रभो ॥ १७ ॥

कुमुदोत्पल कह्लार कमलैः शतपत्रकैः ।
जातीचम्पकपुन्नाग वकुलैः करवीरकैः ॥ १८ ॥

दूर्वाप्रवालमालूर माचीमरुवपत्रकैः ।
अकीटादिहतैर्नव्यैः कोमलैस्तुलसीदलैः ॥ १९ ॥

पावनैश्चन्द्रकदली कुसुमैर्नन्दिवर्धनैः ।
नवमालालिकाभिः मतल्लिकातल्लजैरपि ॥ २० ॥

कुरण्डैरपि शम्याकैः मन्दारैरतिसुन्दरैः ।
अगर्हितैश्च बर्हिष्ठः पाटीदैः पारिजातकैः ॥ २१ ॥

आमोदकुसुमैरन्यैः पूजयामि जगत्पतिम् ।
धूपोऽयं गृह्यतां देव घ्राणेन्द्रिय विमोहकम् ॥ २२ ॥

सर्वान्तरतमोहन्त्रे गुह ते दीपमर्पये ।
सद्यः समाभृतं दिव्यममृतं तृप्तिहेतुकम् ॥ २३ ॥

साल्यान्नमद्भुतं नव्यं गोघृतं सूपसङ्गतम् ।
कदलीनारिकेलामृधान्याद्युर्वारुकादिभिः ॥ २४ ॥

रचितैर्हरितैर्दिव्य खचरीभिः सुपर्पटैः ।
सर्वसंस्तारसम्पूर्णैराज्यपक्वैरतिप्रियैः ॥ २५ ॥

रम्भापनसकूश्माण्डापूपा निष्पक्वमन्तरैः ।
विदारिका कारवेल्ल पटोली तगरोन्मुखैः ॥ २६ ॥

शाकैर्बहुविधैरन्यैः वटकैर्वटुसंस्कृतैः ।
ससूपसारनिर्गम्य सरचीसुरसेन च ॥ २७ ॥

कूश्माण्डखण्डकलित तप्तक रसनेन च ।
सुपक्वचित्रान्नशतैः लड्डुकेड्डुमकादिभिः ॥ २८ ॥

सुधाफलामृतस्यन्दिमण्डक क्षीरमण्डकैः ।
माषापूपगुलापूप गोधूमापूप शर्करैः ॥ २९ ॥

शशाङ्ककिरणोद्भासि पोलिका शष्कुलीमुखैः ।
भक्ष्यैरन्यैः सुरुचिरैः पायसैश्च रसायनैः ॥ ३० ॥

See Also  1000 Names Of Sri Subrahmanya Sahasranamavali Stotram In Sanskrit

लेह्यैरुच्चावचैः खण्डशर्कराफाणितादिभिः ।
गुडोदकैर्नारिकेलरसैरिक्षुरसैरपि ॥ ३१ ॥

कूर्चिकाभिरनेकाभिः मण्डिकाभिरुपस्कृतम् ।
कदलीचूतपनसगोस्तनी फलराशिभिः ॥ ३२ ॥

नारङ्ग शृङ्गबेरैल मरीचैर्लिकुचादिभिः ।
उपदंशैः शरच्चन्द्र गौरगोदधिसङ्गतम् ॥ ३३ ॥

जम्बीररसकैसर्या हिङ्गुसैन्धवनागरैः ।
लसताजलदग्रेण पानीयेन समाश्रितम् ॥ ३४ ॥

हेमपात्रेषु सरसं साङ्गर्येण च कल्पितम् ।
नित्यतृप्त जगन्नाथ तारकारे सुरेश्वर ॥ ३५ ॥

नैवेद्यं गृह्यतां देव कृपया भक्तवत्सल ।
सर्वलोकैकवरद मृत्यो दुर्दैत्यरक्षसाम् ॥ ३६ ॥

गन्धोदकेन ते हस्तौ क्षालयामि षडानन ।
एलालवङ्गकर्पूर जातीफलसुगन्धिलाम् ॥ ३७ ॥

वीटीं सेवय सर्वेश चेटीकृत जगत्रय ।
दत्तेर्नीराजयामि त्वां कर्पूरप्रभयानय ॥ ३८ ॥

पुष्पाञ्जलिं प्रदास्यामि स्वर्णपुष्पाक्षतैर्युतम् ।
छत्रेण चामरेणापि नृत्तगीतादिभिर्गुह ॥ ३९ ॥

राजोपचारैरखिलैः सन्तुष्टो भव मत्प्रभो ।
प्रदक्षिणं करोमि त्वां विश्वात्मक नमोऽस्तु ते ॥ ४० ॥

सहस्रकृत्वो रचये शिरसा तेऽभिवादनम् ।
अपराधसहस्राणि सहस्व करुणाकर ॥ ४१ ॥

नमः सर्वान्तरस्थाय नमः कैवल्यहेतवे ।
श्रुतिशीर्षकगम्याय नमः शक्तिधराय ते ॥ ४२ ॥

मयूरवाहनस्येदं मानसं च प्रपूजनम् ।
यः करोति सकृद्वापि गुहस्तस्य प्रसीदति ॥ ४३ ॥

इति श्री सुब्रह्मण्य मानस पूजा ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subrahmanya Manasa Puja Stotram Lyrics in English » Kannada » Telugu » Tamil

See Also  Sri Balambika Ashtakam In Sanskrit