Sri Ganapati Atharvashirsha In Sanskrit

॥ Ganapati Upanishad Sanskrit Lyrics ॥

॥ श्री गणपत्यथर्वशीर्ष ॥
॥ शान्ति पाठ ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ तन्मामवतु
तद् वक्तारमवतु
अवतु माम्
अवतु वक्तारम्
ॐ शांतिः । शांतिः । शांतिः ।

॥ उपनिषत् ॥

हरिः ॐ नमस्ते गणपतये ॥

त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥

त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥

त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥

॥ स्वरूप तत्त्व ॥

ऋतं वच्मि (वदिष्यामि) ॥ सत्यं वच्मि (वदिष्यामि) ॥ २ ॥

अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥

अव दातारम् ॥ अव धातारम् ॥

अवानूचानमव शिष्यम् ॥

अव पश्चात्तात् ॥ अव पुरस्तात् ॥

अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥

अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥

सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥

त्वं वाङ्मयस्त्वं चिन्मयः ॥

See Also  108 Names Mantra Of Goddess Kamala In Sanskrit – Lotus Goddess Of Spiritual Wealth

त्वमानंदमयस्त्वं ब्रह्ममयः ॥

त्वं सच्चिदानंदाद्वितीयोऽसि ॥

त्वं प्रत्यक्षं ब्रह्मासि ॥

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते ॥

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

सर्वं जगदिदं त्वयि लयमेष्यति ॥

सर्वं जगदिदं त्वयि प्रत्येति ॥

त्वं भूमिरापोऽनलोऽनिलो नभः ॥

त्वं चत्वारि वाक्पदानि ॥ ५ ॥

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥

त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥

त्वं मूलाधारस्थितोऽसि नित्यम् ॥

त्वं शक्तित्रयात्मकः ॥

त्वां योगिनो ध्यायंति नित्यम् ॥

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥

॥ गणेश मंत्र ॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥

अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥

एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥

अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥

बिन्दुरुत्तररूपम् ॥ नादः संधानम् ॥

संहितासंधिः ॥ सैषा गणेशविद्या ॥

गणकऋषिः ॥ निचृद्गायत्रीच्छंदः ॥

गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७ ॥

॥ गणेश गायत्री ॥

एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥

तन्नो दंतिः प्रचोदयात् ॥ ८ ॥

॥ गणेश रूप ॥

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥

See Also  Sri Devi Atharvashirsha Evam Devi Upanishad In Odia

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥

रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥

भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

॥ अष्ट नाम गणपति ॥

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंताय ।
विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १० ॥

॥ फलश्रुति ॥

एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥

स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥

स पंचमहापापात्प्रमुच्यते ॥

सायमधीयानो दिवसकृतं पापं नाशयति ॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥

सायंप्रातः प्रयुंजानो अपापो भवति ॥

सर्वत्राधीयानोऽपविघ्नो भवति ॥

धर्मार्थकाममोक्षं च विंदति ॥

इदमथर्वशीर्षमशिष्याय न देयम् ॥

यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् ॥ ११ ॥

अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥

इत्यथर्वणवाक्यम् ॥ ब्रह्माद्यावरणं विद्यात्
न बिभेति कदाचनेति ॥ १२ ॥

यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥

See Also  Viswanatha Ashtakam In Sanskrit

यो लाजैर्यजति स यशोवान् भवति ॥

स मेधावान् भवति ॥

यो मोदकसहस्रेण यजति
स वाञ्छितफलमवाप्नोति ॥

यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ॥ १३ ॥

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ॥

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ॥

महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥

महापापात् प्रमुच्यते ॥

स सर्वविद्भवति स सर्वविद्भवति ॥

य एवं वेद इत्युपनिषत् ॥ १४ ॥

॥ शान्ति मंत्र ॥

ॐ सहनाववतु ॥ सहनौभुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शांतिः । शांतिः । शांतिः ।

॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥

– Chant Stotra in Other Languages –

Sri Ganesha Slokam » Sri Ganapati Atharvashirsha Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil