1008 Names Of Sri Medha Dakshinamurthy 2 In Sanskrit

॥ 1008 Names of Sri Medha Dakshinamurthy 2 Sanskrit Lyrics ॥

॥ श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः २ ॥

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।

(मन्त्रार्णाद्याक्षरघटिता)
(चिदम्बररहस्ये श्रीचिदम्बरनटेश्वर(मन्त्र) तन्त्र संहितायां
मेधादक्षिणामूर्तिकल्पे नारदाय ब्रह्मणा उपदिष्टा)

मेधादक्षिणवक्त्रमूर्तिमनुराट्-वर्णाष्टसाहस्रके
श्रीनाम्नां प्रणवाष्टकं प्रथमतो मूर्त्यैकनिर्मह्यता ।
यो वर्णः स्वरभाक्च पञ्चदशधा साहस्रक्लृप्तिर्यथा
वर्णैमूलमनोः गुरोः सुमदलैः अभ्यर्चने शस्यते ॥

ॐ परस्मै नमः । परानन्दाय । परार्थाय । परात्पराय । मन्त्राय ।
परातीताय । गुरवे । गुणाश्रिताय । नकारार्थाय । नकारज्ञाय ।
नरनारायणप्रियाय । नगचापाय । नगाग्रस्थाय । नाथाय । नटनायकाय ।
नटेशाय । नादमूलान्ताय । नादात्मने । नागभूषणाय ।
नागोपवीतिने नमः ॥ २० ॥

नासाग्र्याय नमः । नव्यहव्याग्रभोजनाय । नदीधराय । नवतनवे ।
नवतत्त्वाधिनायकाय । नक्षत्रमालिने । नन्दीशाय । नामपारायणप्रियाय ।
नग्नवेषाय । नवरसाय । नादार्थाय । नमनप्रियाय । नवग्रहेशाय ।
नन्द्यग्राय । नवान्ताय । नन्दिवाहनाय । नरूपाय । नगुणाय । नान्ताय ।
न भाष्याय नमः ॥ ४० ॥

नविनाशनाय नमः । नदोषाय । नागकौपीनाय । नागाङ्गुलिविभूषणाय ।
नागहाराय । नागकेशाय । नागकेयूरकङ्कणाय ।
नभोमयाय । नभोऽग्रान्ताय । नभस्स्थाय । नयनत्रयाय ।
नभोऽन्तरिक्षभूम्यङ्गाय । नविकाराय । नभावनाय । ननिद्राय ।
नयनादृश्याय । नत्वाय । नारायणप्रियाय । मोक्षज्ञाय ।
मोक्षफलदाय नमः ॥ ६० ॥

मोक्षार्थाय नमः । मोक्षसाधनाय । मोक्षदाय । मोक्षनाथाय ।
मोक्षसाम्राज्यभोगदाय । मोक्षग्रहाय । मोक्षवराय ।
मोक्षमन्दिरदीपकाय । मोहनाय । मोहनाधीशाय । मौल्यग्रेन्दुकलाधराय ।
मोचिताघाय । मोहनाशाय । मोहशोकार्तिभञ्जनाय ।
मोहतापसुधावर्षिणे । मोहरोगमहौषधये । मोहवृक्षकुठारिणे ।
मोहारण्यदवानलाय । मोहान्धकार-मार्ताण्डाय ।
मोहक्रोधादिसंहराय नमः ॥ ८० ॥

मोहशैलमहावज्रिणेनमः । मोहव्यालगरुडाय । मोहवारणपञ्चास्याय ।
मोहतूलहुताशनाय । मोहबुद्धिविदूरस्थाय । मोहात्मजननिन्दकाय ।
मोहिनीदोषरहिताय । मोहिनी विष्णुवल्लभाय । मोहिनीलालनाप्रीताय ।
मोहिनीप्रियवन्दिताय । मोहिनीपूजितपदाय । मौक्तिकादिविभूषणाय ।
मौक्तिकश्रीमहादिव्यमालिकाभरणोज्वलाय । मौनार्थाय । मौनमुद्राङ्काय ।
मौनीशाय । मौनचिद्घनाय । मौनचित्ताय । मौनहार्दाय ।
मौनिमण्डलमध्यगाय नमः ॥ १०० ॥

मौनिहृत्कुटनिलयाय नमः । मौनचित्तसभानटाय ।
मौनाङ्गना-पतये । मौनमहार्णवसुधाकराय । मौनिहत्पङ्कजमधवे ।
मौनतत्त्वार्थबोधकाय । मौनव्याख्यानचिन्मुद्राकराब्जाय । मौनतत्पराय ।
भगवते । भवरोगघ्नाय । भवाय । भद्राय । भवोद्भवाय ।
भवौषधाय । भयापघ्नाय । भस्मोद्धूलितविग्रहाय । भावज्ञाय ।
भावनातीताय । भारतीश्वरवन्दिताय । भस्मरुद्राक्षभूषाढ्याय नमः । १२० ।

भावाभावविवर्जिताय नमः । भाषार्थाय । भसिताय । भानवे ।
भर्गाय । भवविमोचनाय । भास्वराय । भरताय । भासाय ।
भाष्याय । भागवतस्तुताय । भक्तप्रियाय । भक्तवश्याय ।
भक्तसंस्तुतवैभवाय । भक्तचित्तार्णवेन्दवे । भक्तसायुज्यदायकाय ।
भाग्यपद्मदिनाधीशाय । भास्करायुतसुप्रभाय । भगमालिने ।
भस्माङ्गाय नमः । १४० ।

भक्तभव्याय नमः । भयङ्कराय । भयाभयाय । भयध्वंसिने ।
भवपातकनाशकाय । भववृक्षकुठारिणे । भवतूलधनञ्जयाय ।
भवान्तकाय । भवातीताय । भवार्तिघ्नाय । भास्कराय । भक्ष्याशनाय ।
भद्रमूर्तये । भैरवाय । भद्रदायकाय । भक्तार्तिभञ्जनाय ।
भक्तवत्सलाय । भक्तभद्रदाय । गणेशाय । गणराजे नमः । १६० ।

गण्याय नमः । गम्भीराय । गगनाश्रयाय । गर्वघ्नाय । गर्विताय ।
गङ्गाधराय । गरलकन्धराय । गणेशजनकाय । गार्ग्याय । गभस्तिने ।
गवां पत्ये । गाङ्गेयसुप्रियाय । गङ्गावन्दिताय । गरलाशनाय ।
गौरीपतये । गोक्षीरसुप्रीताय । गव्यमज्जनाय । गव्याभिषेकसन्तुष्टाय ।
गजारये । गजचर्मधृते नमः । १८० ।

गव्यामृतान्नसुप्रीताय नमः । गव्याज्याहुतिभोजनाय ।
गवयश‍ृङ्गाभिषेकप्रियाय । गगनसन्निभाय । गाणापत्यजनप्रीताय ।
गाणापत्यादिसन्मताय । गगनादिपृथिव्यन्तभूतात्मने । गानलोलुपाय ।
गाढमालिङ्गनानन्द गौरीसम्बोधदेशिकाय । गमनाय । गह्वरेष्ठाय ।
गालवाय । गतिप्रदाय । गन्धघ्नाय । गन्धरहिताय । गन्धाय ।
गन्धर्वसंस्तुताय । गन्धपुष्पार्चनप्रीताय । गन्धलिप्तकलेबराय ।
गन्धाभिषेकसुप्रीताय नमः । २०० ।

गन्धमाल्य-विभूषिताय नमः । गाङ्गेयजनकाय । गद्याय ।
गण्डमण्डलशोभिताय । गङ्गादिस्नानफलदाय । गजारूढाय । गदाधराय ।
गणेशस्कन्दनन्दीशविष्णुब्रह्मेन्द्रपूजिताय । वरदाय । वामदेवाय ।
वामनाय । वसुदायकाय । वाणीसम्बोधनगुरवे । वरिष्ठाय । वामसेविताय ।
वटवे । वरूथिने । वर्मिणे । वटवासिने । वाक्पतये नमः । २२० ।

वातरोगहराय नमः । वाग्मिने । वाचस्पतिसमर्चिताय । वाचालकाय ।
वटच्छायासंश्रयाय । वकुलप्रियाय । वर्याय । वराय ।
वरानन्दाय । वरारोहाय । वरप्रभवे । वटारण्यपतये । वासिने ।
वरज्ञानविशारदाय । वालिवैरिप्रियाय । वात्याय । वास्तव्याय ।
वास्तुपाय । वदाय । वदेशाय (वदावदेशाय) नमः । २४० ।

वाचकान्तस्थाय नमः । वसिष्ठादितपोनिधये । वारिजातसुमप्रख्याय ।
वामदेवमुनिप्रियाय । वनजाक्षार्चितपदाय । वनबिल्वजटाधराय ।
वनजाङ्घ्रये । वरोत्कृष्टाय । वरोत्साहाय । वरेश्वराय ।
वराश्चर्याय । वरपतये । वज्रिणे । वज्रेशवन्दिताय । वञ्जुलाय ।
वञ्चककराय । वशिने । वश्यादिदायकाय । तेतिवर्णात्मकाय ।
तेत्यक्षरात्मसुसंज्ञकाय नमः । २६० ।

See Also  Shri Subramanya Trishati Namavali In Tamil

तेत्यर्ण श्रवणप्रीताय नमः । तेत्यक्षरसमाश्रिताय ।
तेतीत्यक्षरसंयुक्ताय । तेत्यक्षरमनुप्रियाय ।
तेतिसप्तार्णमन्त्रस्थाय । तेतिवर्णान्तसंस्थिताय । तेतिमन्त्रनटारम्भाय ।
तेतिमन्त्राग्रसंश्रयाय । तेदिव्यशब्दसङ्क्लृप्ताय । तेतिशब्दान्तरात्मकाय ।
तेषु तेषु च कालज्ञाय । तेषु तेषु गुणज्ञाय । तेषु तेषु
गुणानन्दाय । तेषु तेषु स्तवाङ्किताय । तेषु तेषु मनोऽभिज्ञाय ।
तेषु तेषु वराधिकाय । तेषु तेषु सुपुण्यज्ञाय । तेषु तेषु
स्वधर्मदाय । तैलप्रियाय । तैलदीपप्रियाय नमः । २८० ।

तैलाङ्गमज्जनाय । तैलाभिषिक्ताय । तैलान्नसुप्रियाय ।
तैलशोभनाय । तैलाज्यपानसन्तुष्टाय । तैलवासाय । तिलान्नभुजे ।
तैरोभावानुग्रहेशाय । तैरोभाव-गुणात्मकाय । तोरणालङ्कृतानन्दाय ।
तोरणाङ्कितमन्दिराय । तोरणद्वार संस्थानाय । तोमराद्यायुधान्विताय ।
तोताद्रीशादिसंस्तुत्याय । तौलसूक्ष्मान्तरात्मकाय । तौष्णींस्तुतिज्ञाय ।
तौष्णीवत्स्तव-श्रावमनोहराय । तौणीरपुष्पविशिखसन्धानमदनान्तकाय ।
तं भक्तजनसुप्रीताय । तं भक्तसुमनोहराय नमः । ३०० ।

तं पदध्यानसुलभाय । तं पदाध्यानदुर्लभाय नमः । तत्त्वार्थाय ।
तत्त्वमूलज्ञाय । तत्त्वाग्राय । तत्त्वबोधिताय । तत्पराय ।
तत्क्षणे भक्तसर्वाभीष्टफलप्रदाय । दक्षिणाय । दक्षिणामूर्तये ।
दारपुत्रादिदायकाय । दात्रे । दमनसन्तुष्टाय । दयालवे । दानवान्तकाय ।
दधीचिमुनिसुप्रीताय । दक्षाध्वरविनाशकाय । दधिप्रियाय ।
दयासिन्धवे । दाक्षायण्यम्बिकापतये नमः । ३२० ।

दध्यन्नासक्तहृदयाय नमः । दान्ताय । दाशरथिप्रियाय ।
दध्नाऽभिषिक्ताय । दामाग्र्याय । दन्तिचर्मसुवस्त्रभृते ।
दामप्रियाय । दशभुजाय । दशार्धमुखपङ्कजाय ।
दशायुधवरधराय । दशदिक्पालसेविताय । दर्पघ्नाय ।
दर्भशयनाय । दर्पणोदरफालकाय । दर्भासनाय । दयामूर्तये ।
दहराकाशमध्यगाय । दामशोभितवक्षोभृते । दाडिमीफलसुप्रियाय ।
दशदिग्दशनामार्च्याय नमः । ३४० ।

दशवक्त्रतपः प्रियाय नमः । दासप्रियाय । दासपूज्याय ।
दासादासनिधिप्रदाय । दानरूपाय । दानपुण्याय । दातॄणां फलदायकाय ।
दलपद्मासनारूढाय । दलत्रयतरुस्थिताय । दलत्रयश्री
वृक्षाग्र्याय । दलबिल्वार्चनप्रियाय । दलदूर्वाधराय । दार्ढ्याय ।
दयाहृदयमन्दिराय । दहनोद्भासिफालाक्षाय । दहनत्रिपुरान्तकाय ।
दयान्दोलितपूर्णाक्षाय । दक्षिणाभिमुखान्विताय । क्षमारूपाय ।
क्षमानन्दाय नमः । ३६० ।

क्षमाचित्ताय नमः । क्षमानिधये । क्षमार्णवाय ।
क्षमापूर्णाय । क्षम्याय । क्षमणनाशकाय । क्षणे क्षणे
कृपाचित्ताय । क्षामक्षोभविवर्जिताय । क्षाराद्यब्धिपसंस्तुताय ।
क्षारादिरसवर्जिताय । क्षणिकार्चनसुप्रीताय । क्षणिकादिमहोरगाय ।
क्षणिकस्तवसुप्रीताय । क्षणार्धेष्टवरप्रदाय । क्षामघ्नाय ।
क्षामरहिताय । क्षामदेशसुभिक्षदाय । क्षात्रघ्नाय ।
क्षात्रशत्रुघ्नाय । क्षात्र सङ्कुल नाशनाय नमः । ३८० ।

क्षिप्रेशाय नमः । क्षिप्रसन्धात्रे । क्षीणपुण्यफलाधिकाय ।
क्षीणचन्द्र-जटाचूडाय । क्षीणायुरभिवृद्धिदाय ।
क्षिप्रविघ्नेशजनकाय । क्षित्यन्तरसमाश्रिताय ।
क्षित्यादिकुटिलाप्रान्तमन्त्रसिंहासन-स्थिताय । क्षुद्रप्रयोगसंहर्त्रे ।
क्षुद्रवृक्षकुठारिकाय । क्षुद्रा-चलमहावज्रिणे ।
क्षुद्रकर्मजनान्तकाय । क्षुम्बीजश्रवणानन्दाय ।
क्षुङ्कारहृदयालयाय । क्षुं क्षूं स्मरणसान्निध्याय । क्षुं क्षुं क्षूं
मन्त्रनायकाय । क्षेमालयाय । क्षेमकराय । क्षेमारोग्यफलप्रदाय ।
क्षेमसम्पत्प्रदात्रे नमः । ४०० ।

क्षेत्रपालसमर्चिताय नमः । क्षेत्रज्ञाय । क्षेत्रफलदाय ।
क्षेत्राक्षेत्रसुपालकाय । क्षौद्रसाराभिषिक्ताङ्गाय ।
क्षौद्रसारमनोहराय । क्षों बीजाय । क्षयगुल्मादि
सर्वरोगविभञ्जनाय । णकाररूपाय । णार्थार्थाय । णकाराक्षाय ।
णकारविदे । णकारश‍ृङ्गनिलयाय । नानावर्गफलप्रदाय ।
णकारबिन्दुमध्यस्थाय । नारदादिमुनिस्तुताय । णाकारान्तादिमध्यस्थाय ।
नानानिगमसारविदे । णकाराश्वमहावेगाय । नवनीतामृतप्रियाय नमः । ४२० ।

णकारास्याय नमः । णाङ्कजिह्वाय । णफालतिलकोज्ज्वलाय ।
णकारवचनानन्दाय । नानाश्चर्यसुमण्टपाय । णकारनिगमार्थज्ञाय ।
नागभूषणभूषिताय । णकारागमतत्त्वज्ञाय । नानासुरमुनिस्तुताय ।
णादशाक्षरसंयुक्ताय । नानागणसमावृताय । नवान्ताक्षरनादान्ताय ।
नवबिल्वसदाप्रियाय । नमादिपञ्चार्णमयाय । नवसिद्धसमर्चिताय ।
नवोनवेत्यायुष्यदाय । नवशक्त्युपदेशकाय । नागेन्द्राङ्गुलिवलयिने ।
नागवल्लीदलप्रियाय । नामसहस्रसुप्रीताय नमः । ४४० ।

नानानन्तसुसंज्ञिताय नमः । नानावाद्यारवान्तस्स्थाय ।
नानाशब्दान्तरात्मकाय । नानाफलरसप्रीताय । नालिकेरामृतप्रियाय ।
नानाविकाररहिताय । नानालङ्कार शोभिताय । नारङ्गसुफलानन्दाय ।
नारायणविधिस्तुताय । नानानरकसम्मग्नसमुद्भरणपण्डिताय ।
नादियान्ताक्षरमनवे । नादिपञ्चाक्षरात्मकाय । नमकैश्चमकैः
स्तुत्याय । नाद्यन्ताय । नयनत्रयाय । नतृप्ताय । नित्यसन्तृप्ताय ।
नाकारनयनद्युतये । मूर्ताय । मूर्तीश्वराय नमः । ४६० ।

मूर्तये नमः । मूर्तिसादाख्यकारणाय । मूर्तिमूलात्मकाय ।
मूर्तिभेदाय । मूर्तिद्वयात्मकाय । मूर्तित्रयाय । मूर्तिवराय ।
मूर्तिपञ्चस्वरूपधृते । मूर्तिषट्काय । मूर्त्यष्टात्मने ।
मूर्तभिन्नविनायकाय । मूर्तिद्विपञ्चकतनवे । मूर्त्येकादशात्मकाय ।
मूर्तिद्वादशपुरीशाय । मूर्तामूर्तान्तरात्मकाय । मूर्तित्रयोदशीपूज्याय ।
मूर्तिपञ्चदशीमनवे । मूर्तामूर्तद्विभेदाय । मूर्तिषोडशनामधृते ।
मूर्त्यात्मपञ्चविंशाङ्काय नमः । ४८० ।

मूर्तिषट्त्रिंशदुज्जवलाय नमः । मूर्त्यष्टाष्टकरूपिणे ।
मूर्तिरुद्रशताग्रगाय । मूर्तिसाहस्ररुद्रेशाय । मूर्तिकोट्यधिकावृताय ।
मूर्त्यन्ताय । मूर्तिमध्यस्थाय । मूर्त्यग्र्याय । मूर्तिदेशिकाय ।
मूर्त्याद्यन्तादिरहिताय । मूर्त्यानन्दैकचिन्मयाय । मूर्तिब्रह्मणे ।
मूर्तिबेराय । मूषिकारूढसुप्रियाय । मूलमूर्तये । मूलगुरवे ।
मूलशक्तये । मूल्यकाय । मूढपापविनिर्मुक्ताय ।
मूकदोषविभञ्जनाय नमः । ५०० ।

मूर्खारिणे नमः । मूलपापघ्नाय । मूलतोऽरिकुलान्तकाय ।
मूलासुरकुलध्वंसिने । मूर्खदन्तप्रभिन्नकाय । मूलवातादिरोगघ्नाय ।
मूलर्क्षारब्धपापभिदे । मूर्तामूर्तादिसकललिङ्गनिष्कलतत्पराय ।
एकाक्षराय । एकनाथाय । एकान्ताय । एकमोक्षदाय । एकासनाय । एकपराय ।
एकार्धाय । एणहस्तकाय । एकमुद्राकराय । एकतत्त्वार्थाङ्कितपुस्तकाय ।
एषणात्रयदोषघ्नाय । एकतारकमध्यगाय नमः । ५२० ।

See Also  1000 Names Of Sri Sita – Sahasranama Stotram In English

एकदन्तप्रियाय नमः । एकानन्दमोक्षसुखप्रदाय । एकास्याय ।
एकसन्तुष्टाय । एलादिवसुसुप्रियाय । एकेश्वराय । एकवीराय । एकज्योतिषे ।
एकधिये । एकाग्रगण्याय । एकाम्राय । एकपदे । एकसिद्धिदाय । एकानेकाय ।
एकरसाय । एकाङ्गिने । एकसुन्दराय । एकदन्ताय । एकशक्तये ।
एकचिदे नमः । ५४० ।

एकवल्लभाय नमः । एकाक्षरज्ञाय । एकाग्राय । एकाक्षरकलात्मकाय ।
एकप्रभवे । एकविभवे । एकबुद्धये । एकभुजे । एकधीराय । एकशूराय ।
एकविदे । एकनिश्चलाय । एकनित्याय । एकदृढाय । एकसत्याय ।
एकजाय । एकाधिपत्यवरदाय । एकसाम्राज्यमोक्षदाय । मेधाप्रदाय ।
मेरुगर्भाय नमः । ५६० ।

मेरुस्थाय नमः । मेरुमन्दिराय । मेरुश‍ृङ्गाग्रगाय ।
मेध्याय । मेधाविने । मेदिनीपतये । मेघश्यामाय । मेघनाथाय ।
मेघवाहनवन्दिताय । मेषाधिरूढविनुताय । मेषराशीश्वरार्चिताय ।
म्लेच्छकोपाय । म्लेच्छहराय । म्लेच्छसम्पर्कदोषभिदे । म्लेच्छारये ।
म्लेच्छदहनाय । म्लेच्छसङ्घविनाशकाय । मेढुष्टमाय ।
मेरुभुजाय । मेरुवाण्यभिवन्दिताय नमः । ५८० ।

मेरुपार्श्वाय नमः । मेखलाढ्याय । मेरुगर्वविभेदनाय । मेघाङ्घ्रये ।
मेधावसनाय । मेधाज्ञानप्रदायकाय । मेधामन्त्रासनारूढाय ।
मेधाविद्याप्रबोधकाय । मेधाविद्याधिपाय । मेधामहासारस्वत-प्रदाय ।
मेषास्यवरदर्पघ्नाय । मेषास्यक्रतुनाशकाय । मेषास्य
चमकस्तोत्रतुष्टाय । मेषाननप्रियाय । मेषास्यजनकाह्लादाय ।
मेषाननपितृस्तुताय । मेदिनीकान्तभूतात्मने । मेदिनीपालनप्रदाय ।
मेदिन्यब्ध्यन्तसुखदाय । मेदिनीपतिवल्लभाय नमः । ६०० ।

मेदिन्यादित्रिलोकेशाय नमः । मेदिनीवल्लभार्चिताय ।
मेदिनीखान्तसम्पूर्णाय । मेधार्थाय । मेरुवन्दिताय ।
मेरुकोदण्डगम्भीराय । मेधार्चिषे । मेखलान्विताय ।
धर्माय । धर्मासनाय । धर्मिणे । धर्मधाम्ने । धराधिपाय ।
धाराभिषेकसन्तुष्टाय । धराधरपतेः पत्ये । धर्मेष्टाय ।
धर्मवाहाय । धारणाद्यष्टयोगदाय । धात्रे । धात्रीश्वराय नमः । ६२० ।

धान्यधनभूषणदायकाय नमः । धर्माध्यक्षाय । धनाध्यक्षाय ।
धर्मज्ञाय । धर्मपालकाय । धर्मालयाय । धर्मवृत्ताय ।
धर्मिष्ठाय । धर्मसूचकाय । धनेशमित्राय । धरित्रीदायकाय ।
धनाय । धातुलिङ्गार्चनप्रीताय । धात्रीशार्धकलेबराय । धन्विने ।
धनाधिपाय । धारिणे । धाराशङ्काभिषिक्तकाय । धीप्रज्ञाय ।
धीरसम्पूज्याय नमः । ६४० ।

धीप्राज्ञाय नमः । धिषणात्मकाय । धीप्रभाय । धीमतये ।
धियो धिये । धीरभक्तजनप्रियाय । धुत्तरकुसुमप्रीताय ।
धूपदीपमनोहराय । धूमादिग्रहदोषघ्नाय । धूर्जटये ।
धूम्रवासभृते । धेनुमुद्राप्रियाय । धेनुवत्सलाय । धेनुवन्दिताय ।
धैर्यप्रदाय । धैर्यवीर्याय । धैन्धीङ्कृतनटाङ्घ्रिकाय । प्रभवे ।
प्रभाकराय । प्राज्ञाय नमः । ६६० ।

प्रभामण्डलमध्यगाय नमः । प्रसिद्धाय । प्रणवाकाराय । प्रयोगार्थाय ।
प्रचेतसे । प्रमुखाय । प्रणवप्राणाय । प्राणदाय । प्रणवात्मकाय ।
प्रवीणाय । प्रवराय । प्राच्याय । प्राचीनाय । प्राणवल्लभाय ।
प्राणात्मने । प्रबलाय । प्राणिने । प्राङ्मुखाय । प्रार्थनाय ।
प्रजाय नमः । ६८० ।

प्रजापतये नमः । प्रमाणज्ञाय । प्रकटाय । प्रमथाधिपाय ।
प्रारम्भाय । प्रमथारूढाय । प्रासादाय । प्राणरक्षकाय ।
प्रभाकराय । प्रतापिने । प्राज्ञाय । प्रकरणाय । प्रधिये । प्राप्तये ।
प्राकाम्यसिद्धेशाय । प्रलापज्ञाय । प्रभुप्रभवे । प्रमाथिने ।
प्रमात्रे । प्रमोदाय नमः । ७०० ।

प्रज्वलाय नमः । प्रसुवे । प्रकोपाय । प्रकृतये । पृथ्व्यै ।
प्रातः । प्राकृतरक्षणाय । ज्ञानाय । ज्ञानप्रदाय । ज्ञात्रे ।
ज्ञानिने । ज्ञानविग्रहाय । ज्ञानार्थदाय । ज्ञानरूपिणे । ज्ञानेशाय ।
ज्ञानपुष्कलाय । ज्ञानानन्दाय । ज्ञानचक्षुषे । ज्ञानधिये ।
ज्ञानभक्तिदाय नमः । ७२० ।

ज्ञानार्थाय नमः । ज्ञाननिगमाय । ज्ञानास्याय । ज्ञानसङ्ग्रहाय ।
ज्ञानसाक्षिणे । ज्ञानपुण्याय । ज्ञानाग्राय । ज्ञानसुन्दराय ।
ज्ञानाधिकाय । ज्ञानमुद्राय । ज्ञानज्ञाय । ज्ञानकौतुकाय ।
ज्ञानपूर्णाय । ज्ञाननिधये । ज्ञानकृते । ज्ञानमन्दिराय ।
ज्ञानमन्त्राय । ज्ञानमयाय । ज्ञातृज्ञानविवर्धकाय ।
ज्ञानामृताय नमः । ७४० ।

ज्ञानदीपाय नमः । ज्ञानविदे । ज्ञानविद्रुमाय । ज्ञानपुष्पाय ।
ज्ञानगन्धाय । ज्ञानविज्ञानमङ्गलाय । ज्ञानाचलाय । ज्ञानभानवे ।
ज्ञानाद्रये । ज्ञानसम्भ्रमाय । ज्ञानभुवे । ज्ञानसम्पन्नाय ।
ज्ञानेच्छाय । ज्ञानसागराय । ज्ञानाम्बराय । ज्ञानभावाय ।
ज्ञानाज्ञानप्रबोधकाय । प्रत्येकाय । प्रथमारम्भाय ।
प्रजृम्भाय नमः । ७६० ।

प्रकृतीपतये नमः । प्रतिपन्मुखदर्शान्ततिथिराश्यृक्ष पूजिताय ।
प्रार्थनाफलसम्पूर्णाय । प्रार्थितार्थफलप्रदाय । प्रद्युम्नाय ।
प्रभवाद्यब्दवन्दिताय । प्रमथप्रभवे । प्रमथबृन्दविनुताय ।
प्रमथबृन्दशोभिताय । प्रमथबृन्दसम्मुखाय ।
प्रमथबृन्दमध्यगाय । प्रमथार्चितयुग्माङ्घ्रये ।
प्रमथस्तुतवैभवाय । प्रमथस्तुतिसन्तृप्ताय ।
प्रमथानन्दघोषिताय । प्रमथद्वारगर्भान्तप्रमथेशानपालिताय ।
प्रमथबृन्दसंप्रीताय । प्रमथाधिष्ठितालयाय ।
प्रधानपुरुषाकाराय । प्रधानपुरुषार्थदाय नमः । ७८० ।

See Also  1000 Names Of Sri Rama 3 In Sanskrit

प्रधानपुरुषाध्यक्षाय नमः । प्रधानपुरुषप्रियाय ।
प्रधानवनितार्धाङ्गाय । प्रत्येकं पौरुषप्रदाय ।
प्रधानलिङ्गमूलस्थाय । प्रधानपरमेश्वराय ।
प्रधानब्रह्मभूतात्मने । प्रधानब्रह्मदेशिकाय ।
प्रधानब्रह्मतत्त्वार्थाय । प्रधानब्रह्मतत्पराय ।
प्रधानब्रह्मतत्वज्ञाय । प्रधानब्रह्मचर्यभृते ।
प्रधानब्रह्मरन्ध्रान्ताय । प्रधानब्रह्मपीठकाय ।
प्रधानलिङ्गसम्भूताय । प्रथमावरणाश्रिताय । प्रथमावरणे
याम्यदिङ्मुखाय । प्रकटाद्भुताय । प्रज्वालाग्निप्रतीकाशाय ।
प्रज्वलार्कायुतप्रभाय नमः । ८०० ।

प्रभेन्दुकोटिसदृशाय नमः । प्रतिवक्त्रं त्रिलोचनाय ।
प्रयासभक्तरहिताय । प्रयासार्थलघुप्रदाय ।
प्रयागाद्यखिलसरित्स्नानपुण्यफलप्रदाय । प्रभावसम्पद्विभवप्रदाय ।
प्रारब्धनाशनाय । यथार्थाय । यजमानार्थाय । यज्ञभुजे ।
यज्ञसाधनाय । यज्ञकर्त्रे । यज्ञभर्त्रे । यज्ञेशाय ।
यज्ञभोजनाय । यशस्कराय । यशस्विने । यज्ञेष्टाय ।
यज्ञनाशनाय । याज्ञवल्क्यमुनिप्रीताय नमः । ८२० ।

यज्ञकोटिफलप्रदाय नमः । यज्ञोपवीतिने । यज्ञेशवन्दिताय ।
यशःप्रदाय । याजुषाय । याजुषाधीशाय । यजुर्वेदमनुप्रियाय ।
यमान्तकाय । यमभयध्वंसिने । याम्यमुखोज्वलाय । यमुनालीजटाजूटाय ।
यमानुजसमर्चिताय । यन्त्राय । यन्त्रालयाय । यन्त्रिणे ।
यन्त्रमन्त्राधिनायकाय । यतीश्वराय । यतिप्रीताय । यवान्नप्रीतमानसाय ।
यथार्थभक्तसुलभाय नमः । ८४० ।

यथार्थफलदायकाय नमः । यथार्थजनसन्तुष्टाय ।
यथार्थपरमेश्वराय । यानाश्वगजसन्दात्रे । यातनादुःखनाशनाय ।
याचनाय । याचकार्थाय । याचिताय । याचितार्थदाय ।
याचकार्थातिसन्तुष्टाय । यजुस्साममनुप्रियाय । यामायामादिसम्पूज्याय ।
यामिनीपूजकेष्टदाय । यक्षेश्वराय । यक्षराजप्रियाय ।
यक्षेशवन्दिताय । यक्षराक्षसपैशाच-ब्रह्मरक्षोनिकृन्तनाय ।
छन्दोमयाय । छन्दोविदे । छन्दज्ञाय नमः । ८६० ।

छन्दसां पत्ये नमः । छन्दस्साराय । छन्दोभुवे । छन्दसां
भेदबोधकाय । छन्दस्तत्त्वार्थनिलयाय । छन्दः किङ्किणिमालिकाय ।
छन्नवीराङ्किताय । छत्रचामरादिपरीवृताय । छत्रप्रदाय ।
छत्रधराय । छत्रैकविभवप्रदाय । छत्रदानप्रियाय ।
छत्रव्यजनादि सुपूजिताय । छायापतिसहस्राभाय ।
छायावल्लभपूजिताय । छायादेवी स्तुतानन्दाय । छायानन्दनवन्दिताय ।
छायावृक्षच्छिदोऽघघ्नाय । छायानाथद्युतिप्रदाय ।
छायाबिल्वद्रुमूलस्थाय नमः । ८८० ।

छायारण्यान्तरगृहाय नमः । छायादलोत्पन्नशीताय ।
छायामारुतसौख्यदाय । छायापातकसंहर्त्रे । छायादोषनिवारणाय ।
छायापञ्चकपापघ्नाय । छायासुतकृतार्चनाय । छायापतिसुतार्तिघ्नाय ।
छिन्नभिदे । छिन्नसंशयाय । छिन्नाभिन्नाय । छिदार्तिघ्नाय ।
छिदौघाय । छिन्नकोपनाय । छिन्नकालाय । छिन्नकलाय ।
छिन्नमस्तावरप्रदाय । छिन्नक्ष्वेलाय । छिन्नगूढाय ।
छेदितासुरकाननाय नमः । ९०० ।

छेदितारिकुलग्रामाय । छिन्नमृत्युभयङ्कराय । छिन्नदक्षक्रतवे ।
छिनपत्रवर्यार्चनप्रियाय । छविच्छन्नाय । छटात्काराय ।
छायावटसमाश्रिताय । स्वामिने । स्वतन्त्राय । स्वाधीनाय । स्वाहाकाराय ।
स्वधार्मिकाय । स्वकर्त्रे । स्वामिनाथाय । स्वस्थाय । स्वातन्त्र्यवल्लभाय ।
स्वशक्तये । स्वकार्यार्थाय । स्वःपत्ये । स्वस्य कारणाय नमः । ९२० ।

स्वयं प्रभवे नमः । स्वयं ज्योतिषे । स्वं ब्रह्मणे । स्वं परायणाय ।
स्वात्मज्ञाय । स्वमनोधर्माय । स्वयं देवाय । स्वयं परस्मै । स्वं
स्वं देवाय । स्वस्वनाथाय । स्ववीराय । स्वसुन्दराय । स्वयं सिद्धाय ।
स्वयं साध्याय । स्वयंवराय । स्वकर्मविदे । स्वयं बुद्धये । स्वयं
सिद्धये । स्वयम्भुवे । स्वयङ्गुणाय नमः । ९४० ।

स्वाध्यायाय नमः । स्वधनाय । स्वापाय । स्वपतये । स्वमनोहराय ।
स्वरूपज्ञाय । स्वपरावराय । स्वयं रूपाय । स्वरूपकाय । स्वरूपाय ।
स्वयं जाताय । स्वयं मात्रे । स्वयं पित्रे । स्वयं गुरवे । स्वयं
धात्रे । स्वयं स्वाहा । स्वयं स्वधा । हल्लकेशाय । हकारार्थाय ।
हंसः सोऽहं सुमन्त्रविदे नमः । ९६० ।

हंसमन्त्रार्थतत्त्वेशाय नमः । हंसार्थाय । हाटकेश्वराय ।
हालास्यनाथाय । हरिणीटङ्कधारिणे । हरिप्रियाय । हास्यभस्मीकृतपुराय ।
हाटकादिनिधिप्रदाय । हारोरगाय । हंसवादाय । हरिकेशोपवीतकाय ।
हाटकाद्रिमहाचापाय । हरिब्रह्मेन्द्रवन्दिताय । हानिदुःखविनाशिने ।
हानिवृद्धिविवर्जिताय । हयग्रीवार्चितपदाय । हरिसोदरिनायकाय ।
हव्यप्रदाय । हविर्भोक्त्रे । हालाहलधराय नमः । ९८० ।

हराय नमः । हरिब्रह्मशिरोबृन्दकिङ्किणीदाम भूषिताय ।
हरिशब्दाय । हरानन्दाय । हठात्कारासहाय । हविषे ।
हन्त्रे । हंसाय । हनीयसे । हम्बीजाय । हङ्कृतये । हरये ।
हत्यादिपापसंहर्त्रे । हयेभशिबिकाप्रदाय । हर्म्येशाय । हर्म्यकूटस्थाय ।
हर्म्यगोपुरमन्दिराय । हाहेतिशब्दशमनाय । हास्यशोभि-मुखाम्बुजाय ।
हालाहलविषोत्पन्नकालदेवाभयप्रदाय नमः । १००० ।

हारचम्पककल्हारनीपशम्याकभूषिताय नमः ।
हारकेयूरमकुटभूषालङ्कृतविग्रहाय ।
हस्तिद्विपञ्चनिर्व्यूढशूलवज्रादि सुप्रभाय ।
हरिश्वेतवृषारूढाय । हाटकश्रीसभापतये । हर्षप्रदाय ।
हरहरिब्रह्मेन्द्रपरमेश्वराय । श्री मेधादक्षिणामूर्तये नमः । १००८ ।

इति श्रीमेधादक्षिणामूर्तिमन्त्रार्णाद्यात्मकाष्टोत्तरसहस्रनामानि ।

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।

ॐ तत्पुरुषाय विद्महे विद्यावासाय धीमहि ।
तन्नो दक्षिणामूर्तिः प्रचोदयात् ।

– Chant Stotra in Other Languages –

Shiva Stotram » 1000 Names of Medha Dakshinamurti 2 » Sahasranamavali Stotram in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil